________________
प्रस्तावना
३९
द्वितीये श्रुतस्कन्धे पञ्चम-षष्ठे अध्ययने पद्यनिबद्धे। अवशिष्टानि पञ्चाप्यध्ययनानि पद्यनिबद्धानि, केवलं तृतीयाध्ययनान्ते चत्वारि पद्यानि वर्तन्ते।
विषयः--१ चरणकरणानुयोगः, २ धर्मकथानुयोगः, ३ गणितानुयोगः, ४ द्रव्यानुयोग इति चतुविधेष्वनुयोगेषु इह चरण-करणानुयोगेनाधिकार इति सूत्रकृताङ्गचूणिकृतामभिप्रायः', इह द्रव्यानुयोगेनाधिकार इति तु वृत्तिकृतां शीलाचार्याणामभिप्रायः । उभयमप्येतदापेक्षिकत्वात् संगच्छते। केषुचिदध्ययनेषु स्व-परसिद्धान्तानामत्र व्यावर्णनं वर्तत इति द्रव्यानुयोगोऽप्यत्राधिकृतः, बहुष्वध्ययनेषु चारित्रशुद्धेविचारोऽत्र मुख्यतया वर्तत इति चरणकरणानुयोगोऽप्यनाधिकृतः ।
__सामान्यतोऽस्य सूत्रस्य विषयः समवायाङ गादिषु वर्णितः, विशेषतो विषयानुक्रमे विस्तरेण विलोकनीयः । तथापि किञ्चिद् विशिष्याभिधीयते
प्रथमेऽध्ययने पञ्चमहाभूतवादः, एकात्मवादः (आत्माद्वैतवादः), तज्जीव-तच्छरीरवादः,अकारकवादः, प्रात्मषष्ठपञ्चमहाभूतवादः, अफलवादः (क्षणिकवादिनो बौद्धाः), नियतिवादः, आज्ञानिकवादः, ज्ञानवादः, भिक्षुसमये (बौद्धमते) १ अविज्ञोपचितं, २ परिज्ञोपचितं ३ ईर्यापथं, ४ स्वप्नान्तिकं च कर्मचयं न गच्छति' इति वादः, 'ईश्वरेण कृतमिदं जगत, प्रधानेन कृतमिदं जगत' इत्यादयो विविधा जगत्कर्तृत्ववादा इत्येवं बहवः परप्रवादा उपदशिता दूषिताश्च ।
तथाविधायामापदि पुत्रमपि व्यापाद्य तन्मांसभक्षणे न दोष इति बौद्धमतं' प्रदर्य तदपि दूषितम् ।
यथा--"दश धर्म न जानन्ति धृतराष्ट्र ! निबोध तान् । मत्त: प्रमत्त उन्मत्तः क्रुद्धः श्रान्तो बुभुक्षितः । त्वरमाणश्च भीरुश्च लुब्ध: कामीति ते दश ॥" [महाभारत, ५ उद्योगपर्व, अध्याय ३३, श्लोक ८२], अत्र त्रिभिः पड्भिर्वा पादैः श्लोकः।"--इति हेमचन्द्राचार्यविरचिते छन्दोनुशासने सप्तमाध्याये ।।
___ "गाथा कतमा ? या न गयेन भाषिता, अपि तु पादोपनिबन्धेन द्विपदा वा चतुष्पदा वा पञ्चपदा वा षट्पदा वा इयमुच्यते गाथा" इति बौद्धाचार्येण प्रसङ्गेन विरचितायां श्रावकभूमौ पृ० १३७ ।।
१. "तत्थ कालियसूयं चरण-करणाणुयोगो १ इसिभासियोत्तरज्झयणाणि धम्माणुयोगो २ सूरपण्णत्तादिगणिताणुयोगो ३ दिट्ठिवातो दव्वाणुजोगो त्ति ४।... इह चरणाणयोगेण अधिकारो"--सूत्रकृताङ्गणि पृ०३। "अण्णोण्णक्खराभिधाणद्वितं जं पढिज्जति तं अगमियं, तं च प्रायसो आयारादि कालियसुतं"---नन्दीचूणि पृ० ५६ । “अगमिकं तु प्रायो गाथादि असमानग्रन्थत्वात् कालिकश्रुतमाचारादि"---नन्दीवृत्ति हारिभद्री पृ० ६९ । "पागमश्च द्वादशाङ्गादिरूपः, सोऽप्यार्यरक्षितमिभैरैदंयुगीनपुरुषानुग्रहबुद्ध्या चरणकरण-द्रव्य धर्मकथा-गणितानुयोगभेदाच्चतुर्धा व्यवस्थापितः तत्राचाराङ्गं चरणकरणप्राधान्येन व्याख्यातम्, अधुनाऽवसरायातं द्रव्यप्राधान्येन सूत्रकृताख्यं द्वितीयमङ्गं व्याख्यातुमारभ्यत इति"--सूत्रकृताङ्गवृत्तिः शीलाचार्यविरचिता पृ० १।
२. “से किं तं सूयगडे । सूयगडे णं ससमया सूइज्जति। परसमया सूइज्जति ससमयपरसमया सूइज्जति जीवा सूइज्जति अजीवा सूइज्जति जीवाजीवा सूइज्जति लोगे सूइज्जति अलोगे सूइज्जति लोगालोगे सूइज्जति सूयगडे णं जीवाजीव-पुण्ण-पावा-ऽऽसव-संवर-निज्जर-बंधमोक्खा-बसाणा पयत्था सूइज्जति, समणाणं अचिरकालपव्वइयाणं कुसमय मोह-मोह-मइ-मोहियाणं संदेहजाय-सहजबुद्धि-परिणामसंसइयाणं पावकर मइलमइ-गुण-विसोहणत्थं पासीतस्स किरियावादिसतस्स चउरासीए अकिरियवाईणं, सत्तट्ठीए अण्णाणियवाईणं, बत्तीसाए वेणइय वाईणं-तिण्हं तेसट्ठाणं अण्णदिट्ठियसवाणं वूहं किच्चा ससमए ठाविज्जति । णाणादिळंतवयणणिस्सारं सुठ्ठ दरिसयंता विविहवित्थराणुगमपरमसब्भाव-गुण-विसिट्ठी मोक्खपहोयारगा उदारा अण्णाणतमंधकारदुग्गेसु दीवभूता सोवाणा चेव सिद्धिसुगइधरुत्तमस्स णिक्खोभ-निप्पकंपा सुत्तत्था।" इति समवायाङ्गसूत्रे । “से कि तं सूयगडे ? सूयगडे णं लोए सूइज्जइ, अलोए सुइज्जइ, लोयाऽलोए सूइज्जइ, जीवा सूइज्जति, अजीवा सूइज्जति, जीवा-ऽजीवा सूइज्जति, ससमए सू इज्जइ, परसमए सूइज्जइ, ससमय-परसमए सूइज्जइ। सूयगडे णं आसीतस्स किरियावादिसयस्स, चउरासीईए अकिरियवादीणं, सत्तट्ठीए, अण्णाणियवादीणं, बत्तीसाए वेणइयवादीणं, तिप्हं तेसट्ठाणं पावादुयसयाणं वूहं किच्चा ससमए ठाविज्जइ।" इति नन्दीसूत्रे । “सूदयदं णाम अंग ससमयं परसमयं थीपरिणामं क्लव्या-स्फुटत्व-मदनावेशविभ्रमाऽऽस्फालनसुख-पुंस्कामतादिस्त्रीलक्षणं च प्ररूपयति ।" जयधवला पृ० ११२। “सूदयदं णाम अंग छत्तीसपय सहस्सेहि णाणाविणयपण्णावणा-कप्पाकप्प-च्छेदोवट्ठावण-ववहारधम्मकिरियाप्रो परुवेइ" धवला पृ० १०० । “सूत्रकृते ज्ञानविनयप्रज्ञापना-कल्प्याकल्प्यछेदोपस्थापना-व्यवहारधर्मक्रिया: प्ररूप्यन्ते ।"--तत्त्वार्थराजवात्तिक १।२०।
३. बौद्धानां सुत्तपिटके खुद्दकनिकाये जातकपालिमध्ये २४६ तमे बालोवादजातके "पुत्त-दारं पि चे हन्त्वा देति दानं असञतो। भुञ्जमानो पि सप्पञो न पापमुपलिम्पतीति ।" इति गाथा वर्तते । अस्य मतस्य निर्देशः सूत्रकृताङ्गस्य प्रथमेऽध्ययने द्वितीय उद्देशके "पुत्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org