________________
ecessseeeeeeeeeeeeeeeeep
चर्या-दशविधचक्रवालसामाचारी इच्छा मिच्छेत्यादिका तया चोदिताः-प्रेरिता यदिवा भिक्षुचर्यया करणभूतया सीदन्त-|| थोदिताः-तत्करणं प्रत्याचार्यादिकैः पौनःपुन्येन प्रेरितास्तचोदनामशक्नुवन्तः संयमानुष्ठानेनात्मानं 'यापयितुं' वर्तयितुमसमर्थाः सन्तः 'तत्र' तमिन् संयमे मोक्षकगमनहेतौ भवकोटिशतावाप्ते 'मन्दा' जडा 'विषीदन्ति' शीतलविहारिणो भवन्ति, | तमेवाचिन्त्यचिन्तामणिकल्पं महापुरुषानुचीर्ण संयम परित्यजन्ति, दृष्टान्तमाह-ऊर्ध्व यानमुद्यान-मार्गस्योन्नतो भाग उट्टङ्क-1 मित्यर्थः तस्मिन् उद्यानशिरसि उक्षिप्तमहाभरा उक्षाणोऽतिदुर्बला यथाऽवसीदन्ति-ग्रीवां पातयिखा तिष्ठन्ति नोरिक्षप्तभरनिर्वाहका भवन्तीत्येवं तेऽपि भावमन्दा उत्क्षिप्तपश्चमहावतभारं वोडमसमर्थाः पूर्वोक्तभावावतैः पराभमा विषीदन्ति ॥२०॥ किश्च-16 __ अचयंता व लूहेणं, उवहाणेण तजिया। तत्थ मंदा विसीयंति, उजाणंसि जरग्गवा ॥ २१ ॥
एवं निमंतणं लद्धं, मुच्छिया गिद्ध इत्थीसु । अज्झोववन्ना कामेहि, चोइजंता गया गिहं ॥ २२ ॥५ तिबेमि ॥ इति उवसग्गपरिणाए बितिओ उद्देसो सम्मत्तो ॥३-२॥ (गाथाग्रं० २१३) 'रूक्षेण' संयगेनात्मानं यापयितुमशक्नुवन्तः तथा 'उपधानेन' अनशनादिना सबाह्याभ्यन्तरेण तपसा 'तर्जिता' बाधिताः18 सन्तः तत्र संयमे मन्दा विपीदन्ति 'उद्यानशिरसि' उट्टङ्कमस्तके 'जीर्णो' दुर्बलो गौरिव, यूनोऽपि हि तत्रावसीदनं सम्भाव्यते |
३ उपप्तध्य०
बाधिता इति प्र० २ तण प्र. सूत्रकृताङ्गं
किं पुनर्जरद्ययेति जीर्गग्रहणम् , एवमावर्तमन्तरेणापि धृतिसंहननोपेतस्य विवेकिनोऽप्यवसीदनं सम्भाव्यते, किं पुनरावर्ते-15 शीलाङ्का- रुपसचितानां मन्दानामिति ॥ २१ ॥ सर्वोपसंहारमाह-एवं' पूर्वोक्तया नीत्या विषयोपभोगोपकरणदानपूर्वकं 'निमश्रण
| विषयोपभोगं प्रति प्रार्थनं 'लब्ध्वा' प्राप्य 'तेषु' विषयोपकरणेषु हस्त्यश्वरथादिषु 'मूञ्छिता' अत्यन्तासक्ताः तथा स्त्रीषु त्तियुतं
'गृद्धा' दत्तावधाना रमणीरागमोहिताः तथा 'कामेषु' इच्छामदनरूपेषु 'अध्युपपन्ना: कामगतचित्ताः संयमेऽवसीदन्तोऽपरे॥८८॥ Sणोद्युक्तविहारिणा नोद्यमानाः-संयम प्रति प्रोत्साह्यमाना नोदना सोदुमशक्नुवन्तः सन्तो गुरुकर्माणः प्रव्रज्या परित्यज्याल्प-15
सत्त्वा गृहं गता-गृहस्थीभूताः । इतिः परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥२२॥ इति उपसर्गपरिज्ञाऽध्ययनस्य द्वितीय उद्देशः॥
उद्देशः३
SO989900
अथ तृतीयस्योपसर्गाध्ययनस्य तृतीयोद्देशकः प्रारभ्यते ॥
॥८८॥
Seceaeeeeeeeeeeeeeeeee
उपसर्गपरिज्ञायां उक्तो द्वितीयोदेशकः, साम्प्रतं तृतीयः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशकाभ्यामुपसर्गा| • अनुकूलप्रतिकूलभेदेनाभिहिताः, तैश्चाध्यात्मविषीदनं भवतीति तदनेन प्रतिपाद्यत इत्यनेन संबन्धेनायातस्यास्योद्देशकस्यादि | मूत्रम्
जहा संगामकालंमि, पिटुतो भीरु वेहइ । वलयं गहणं णूम, को जाणइ पराजयं ? ॥१॥ मुहुत्ताणं मुहुत्तस्स, मुहुत्तो होइ तारिसो। पराजियाऽवसप्पामो, इति भीरू उवेहई ॥ २॥ दृष्टान्तेन हि मन्दमतीनां सुखेनैवार्थावगतिर्भवतीत्यत आदावेव दृष्टान्तमाह-न्यथा कश्चिद् 'भीरुः' अकृतकरणः 'संग्रामकाले' परानीकयुद्धावसरे समुपस्थिते 'पृष्ठतः प्रेक्षते' आदावेवापत्प्रतीकारहेतुभूतं दुर्गादिकं स्थानमवलोकयति । तदेव दर्शयति-'वलय'मिति यत्रोदकं वलयाकारेण व्यवस्थितम् उदकरहिता वा गर्ता दुःखनिर्गमप्रवेशा, तथा 'गहनं' धवादिवृक्षः कटिसंस्थानीयं 'णूमं ति प्रच्छन्नं गिरिगुहादिकं, किमित्यसावेवमवलोकयति ?, यत एवं मन्यते-तत्रैवम्भूते तुमुले सक्रामे सुभट| सङ्घले को जानाति कस्यात्र पराजयो भविष्यतीति ?, यतो दैवायत्ताः कार्यसिद्धयः, स्तोकैरपि बहवो जीयन्त इति ॥१॥ किञ्चमुहूर्तानामेकस्य वा मुहूर्तस्यापरो 'मुहूर्त:' कालविशेषलक्षणोऽवसरस्तादृग् भवति यत्र जयः पराजयो वा सम्भाव्यते, तत्रैवं व्यवस्थिते पराजिता वयम् 'अवसामो नश्याम इत्येतदपि सम्भाव्यते असद्विधानामिति भीरुः पृष्ठत आपत्प्रतीकारार्थ शरणमुपेक्षते ॥ २॥ इति श्लोकद्वयेन दृष्टान्तं प्रदर्श्य दार्शन्तिकमाह
tectioedesesecticeaekesectrsecticesekseeectroeseses
१ कण्टिसं० प्र० २ युद्धविषयत्वात् मायोपेक्षेन्द्र जालानि क्षुद्रोपाया इमे त्रय इति श्रीहेमचन्द्रवचनादत्र भुदोषायपर उपेक्षिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org