________________
eleasses
चियुतं
58 सूत्रकृताङ्गं
तं च भिक्खू परिन्नाय, सवे संगा महासवा । जीवियं नावकंखिजा, सोच्चा धम्ममणुत्तरं ॥ १३ ॥ ३ उपसशीलाङ्काअहिमे संति आवट्टा, कासवेणं पवेइया । बुद्धा जत्थावसप्पंति, सीयंति अबुहा जहिं ॥ १४ ॥
गाध्य. चाीय
उद्देश २ 'तं च ज्ञातिसङ्गं संसारैकहेतुं भिक्षुर्जपरिज्ञया (ज्ञाखा) प्रत्याख्यानपरिजया परिहरेत् । किमिति ?, यतः 'सर्वेऽपि' ये केचन सङ्गास्ते 'महाश्रवा' महान्ति कर्मण आश्रवद्वाराणि वर्तन्ते । ततोऽनुकूलरुपसर्गरुपस्थितरसंयमजीवितं-गृहावासपाशं 'नाभिका त्' नाभिलपेत्, प्रतिकूलैश्चोपसर्गः सद्भिर्जीविताभिलापी न भवेद् , असमञ्जसकारिखेन भवजीवितं नाभिकाझेत् । किं कृखा ?-'श्रुत्वा' निशम्यावगम्य, कम् ?-'धर्म' श्रुतचारित्राख्य, नास्योत्तरोऽस्तीत्यनुत्तरं-प्रधानं मौनीन्द्रमित्यर्थः ॥१३॥ अन्यच्च-'अथे' त्यधिकारान्तरदर्शनार्थः, पाठान्तरं वा 'अहो' इति, तच्च विसये, 'इमे' इति एते प्रत्यक्षासन्नाः सर्वजनविदितखात् 'सन्ति' विद्यन्ते वक्ष्यमाणा आवर्तयन्ति-प्राणिनं भ्रामयन्तीत्यावर्ताः, तत्र द्रव्यावर्ता नद्यादेः भावावर्तास्तूत्कटमोहोदयापादितविषयाभिलाषसंपादकसंपत्प्रार्थनाविशेषाः, एते चावर्ताः 'काश्यपेन' श्रीमन्महावीरवर्द्धमानस्वामिना उत्पन्नदिव्यज्ञानेन 'आ(प्र)वेदिता' कथिताः प्रतिपादिताः 'यत्र' येषु सत्सु 'वुद्धा' अवगततचा आवर्तविपाकवेदिनस्तेभ्यः 'अपसर्पन्ति ॥८६॥ अप्रमत्ततया तह्रगामिनो भवन्ति, अबुद्धास्तु निर्विवेकतया येष्ववसीदन्ति-आसक्तिं कुर्वन्तीति ॥ १४॥ तानेवावर्तान् दर्शयितमाह
रायाणो रायऽमच्चा य, माहणा अदुव खत्तिया। निमंतयंति भोगेहिं, भिक्खूयं साहुजीविणं ॥१५॥ हत्थऽस्सरहजाणेहिं, विहारगमणेहि य । भुंज भोगे इमे सग्घे, महरिसी ! पूजयामु तं ॥ १६॥ | 'राजान' चक्रवर्त्यादयो 'राजामात्याश्च' मन्त्रीपुरोहितप्रभृतयः तथा ब्राह्मणा अथवा 'क्षत्रिया' इक्ष्वाकुवंशजप्रभृतयः, एते सर्वेऽपि 'भोगैः' शब्दादिभिर्विषयः 'निमन्त्रयन्ति' भोगोपभोगं प्रत्यभ्युपगमं कारयन्ति, कम् ?-भिक्षुक 'साधुजीविणमिति साध्वाचारेण जीवितुं शीलमस्येति ( साधुजीवी तं) साधुजीविनमिति, यथा ब्रह्मदत्तचक्रवर्तिना नानाविधभोगश्चित्रसाधुरुपनिमत्रित इति । एवमन्येऽपि केनचित्सम्बन्धेन व्यवस्थिता यौवनरूपादिगुणोपेतं साधु विपयोद्देशेनोपनिमन्त्रयेयुरिति ॥१५॥ एतदेव दर्शयितुमाह-हस्त्यश्वरथयानैः तथा 'विहारगमनैः' विहरणं क्रीडनं विहारस्तेन गमनानि विहारगमनानि-उद्यानादौ क्रीडया गमनानीत्यर्थः, चशब्दादन्यैश्चेन्द्रियानुकूलैपियरुपनिमन्त्रयेयुः, तद्यथा-भुङ्क्ष 'भोगान्' शब्दादिविषयान् 'इमान् अमाभिढौंकितान् प्रत्यक्षासन्नान् 'श्लाघ्यान्' प्रशस्तान् अनिन्द्यान् 'महर्षे' साधो! वयं विषयोपकरणढौ कनेन त्वां भवन्तं 'पूजयामः' सत्कारयाम इति ॥ १६ ॥ किश्चान्यत्
वत्थगंधमलंकार, इत्थीओ सयणाणि य । भुंजाहिमाई भोगाई, आउसो ! पूजयामु तं ॥ १७ ॥ जो तुमे नियमो चिपणो, भिक्खुभावंमि सुवया ! । अगारमावसंतस्स, सबो संविजए तहा ॥१८॥18
'वस्त्रं' चीनाशुकादि 'गन्धाः ' कोष्टपुटपाकादयः, वस्त्राणि च गन्धाश्च वस्त्रगन्धमिति समाहारद्वन्द्वः तथा 'अलङ्कारम्' ३ उपसशीलाका-18 कटककेयूरादिकं तथा 'स्त्रिया' प्रत्यग्रयौवनाः 'शयनानि च' पर्यङ्कतूलीप्रच्छदपटोपधानयुक्तानि, इमान् भोगानिन्द्रियमनोऽनु- गोध्य. चाीय- कूलानमाभिढौंकितान् 'भुत तदुपभोगेन सफलीकुरु, हे आयुष्मन् ! भवन्तं 'पूजयामः सत्कारयाम इति ॥ १७॥ अपि- 18 उद्देशा २ त्तियुत च-यस्खया पूर्व 'भिक्षुभावे प्रवज्यावसरे 'नियमो' महात्रतादिरूपः 'चीर्णः' अनुष्ठितः इन्द्रियनोइन्द्रियोपशमगतेन हे ॥८७॥
सुव्रत ! स साम्प्रतमपि 'अगारं गृहम् 'आवसतः' गृहस्थभावं सम्यगनुपालयतो भवतस्तथैव विद्यत इति, न हि सुकृतदुकृतस्यानुचीर्णस्य नाशोऽस्तीति भावः ॥ १८॥ किञ्चचिरं दूइज्जमाणस्स, दोसो दाणिं कुतो तव ? । इच्चेव णं निमंति, नीवारेण व सूयरं ॥ १९ ॥ चोइया भिक्खचरियाए, अचयंता जवित्तए । तत्थ मंदा विसीयंति, उजाणंसि व दुब्बला ॥२०॥ 'चिरं प्रभूतं कालं संयमानुष्ठानेन 'इजमाणस्स'त्ति विहरतः सतः 'इदानीं' साम्प्रतं दोषः कुतस्तव ?, नैवास्तीति भावः, इत्येवं हस्त्यश्वरथादिभिर्वस्वगन्धालङ्कारादिभिश्च नानाविधैरुपभोगोपकरणैः करणभूतेः 'ण' मिति वाक्यालङ्कारे 'तं' भिक्षुसाधुजीविनं 'निमन्त्रयन्ति' भोगवुद्धिं कारयन्ति, दृष्टान्तं दर्शयति-यथा 'नीवारेण' व्रीहिविशेषकणदानेन 'सूकरं' वराहं कू-IN टके प्रवेशयन्ति एवं तमपि साधुमिति ॥ १९ ॥ अनन्तरोपन्यस्तवार्तोपसंहारार्थमाह-भिक्षणां-साधूनामुद्युक्तविहारिणां
cिeaesesereeroeseveceaeeeeeeeeeeeeeex eesesereversectsectrsesercenel
सूत्रकृताङ्गं
Maeseseseroecksesesesesese
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org