________________
त
शीलाङ्का
वाय
तियुत
॥७१॥
सूत्रकृताङ्गं शीलाङ्काचार्ययतियुतं
॥ ७२ ॥
48
वंदे || १ ||" तृतीयपादस्य पाठान्तरं वा 'उ तिरियं अद्दे तहा' ऊर्ध्वमिति - सौधर्मादिषु, तिरियमिति - तिर्यक्लोके, अध | इति-भवनपत्यादौ, ये कामास्तान् रोगवदद्राक्षुर्ये ते तीर्णकल्पा व्याख्याता इति ॥ २ ॥ पुनरप्युपदेशान्तरमधिकृत्याहअग्गं वणिएहिं आहियं, धारंती राईणिया इहं । एवं परमा महवया, अक्खाया उ सराइभोयणा ॥३॥ जे इह सायाणुगा नरा, अज्झोववन्नाकामेहिं मुच्छिया ।
किवणेण समं पगब्भिया, न वि जाणंति समाहिमाहितं ॥ ४ ॥
'अ' व प्रधानं रत्नवस्त्राभरणादिकं तद्यथा वणिग्भिर्देशान्तराद् 'आहितं' ढौकितं राजानस्तत्कल्पा ईश्वरादयः 'इह' अस्मि - | न्मनुष्यलोके 'धारयन्ति' विभ्रति, एवमेतान्यपि महाव्रतानि रत्नकल्पानि आचार्यैः 'आख्यातानि प्रतिपादितानि नियोजितानि 'सरात्रिभोजनानि' रात्रिभोजनविरमणपष्ठानि साधवो विभ्रति, तुशब्दः पूर्वरत्वेभ्यो महात्रतरत्नानां विशेषापादक इति, इदमुक्तं भवति यथा प्रधानरत्वानां राजान एव भाजनमेवं महाव्रतरत्नानामपि महासत्त्वा एव साधवो भाजनं नान्ये | इति ॥ ३ ॥ किञ्च ये नरा लघुप्रकृतयः 'इह' अस्मिन् मनुष्यलोके सातं - सुखमनुगच्छन्तीति सातानुगाः- सुखशीला ऐहिकामुष्मिकापायभीरवः समृद्धिरससाता गौरवेषु 'अध्युपपन्ना' गृद्धाः तथा 'कामेषु' इच्छामदनरूपेषु 'मूच्छिता' कामोत्कटतृष्णाः कृपणो- दीनो वराकक इन्द्रियैः पराजितस्तेन समाः तद्वत्कामासेवने 'प्रगल्भता' धृष्टतां गताः, यदिवा-किमनेन स्तोकेन दोषेणा सम्यक्प्रत्युपेक्षणादिरूपेणास्वत्संयमस्य विराधनं भविष्यत्येवं प्रमादवन्तः कर्तव्येष्ववसीदन्तः समस्तमपि संयमं पटवन्मणिकुट्टिमवद्वा मलिनीकुर्वन्ति, एवम्भूताश्च ते 'समाधि' धर्मध्यानादिकम् 'आख्यातं' कथितमपि न जानन्तीति ॥ ४ ॥ पुनरप्युपदेशान्तरमधिकृत्याह
वाहेण जहा व विच्छए, अबले होइ गवं पचोइए। से अंतसो अप्पथामए, नाइवहइ अबले विसीयति ५ | एवं कामेसणं विऊ, अज सुए पयहेज संथवं । कामी कामे ण कामए, लद्धे वावि अलद्ध कण्हुई ॥ ६ ॥
'व्याधेन' लुब्धकेन 'जहा व'त्ति यथा 'गव'न्ति मृगादिपशुर्विविधम्- अनेकप्रकारेण कूटपाशादिना क्षतः - परवशीकृतः श्रमं वा ग्राहितः प्रणोदितोऽप्यवलो भवति, जातश्रमवात् गन्तुमसमर्थः, यदिवा- वाहयतीति वाह: - शाकटिकस्तेन यथावदवहन् गौर्विविधं प्रतोदादिना क्षतः --- प्रचोदितोऽप्यवलो- विपमपथादौ गन्तुमसमर्थो भवति, 'स चान्तश: ' मरणान्तमपि यावदल्पसामर्थ्यो नातीव वोढुं शक्नोति, एवम्भूतथ 'अवलो' भारं वोदुमसमर्थः तत्रैव पङ्कादौ विषीदतीति ॥ ५॥ दार्शन्तिकमाह-'एवम्' अनन्तरोक्तया नीत्या कामानां - शब्दादीनां विपयाणां या गवेषेणा- प्रार्थना तस्यां कर्त्तव्यायां 'विद्वान' निपुणः कामप्रार्थनासक्तः शब्दादिपङ्के मनः स चैवम्भूतोऽद्य श्वो वा 'संस्तवं' परिचयं कामसम्बन्धं प्रजह्यात् किलेति, एवमध्यवसाय्येव सर्वदाऽवतिष्ठते, नच तान् कामान् अवलो बलीवर्दवत् विषमं मार्ग त्यक्तुमलं किञ्चन चैहिकामुष्मिकापायदर्शितया कामी
१ प्यचालो प्र० । २ याऽन्चेपणा प्र० । ३ बालो । नवल० प्र० । ४ नैबै० प्र० ।
भूखोपनतानपि 'कामान्' शब्दादिविषयान् वैरखामिजम्बूनामादिवद्वा 'कामयेत' अभिलपेदिति, तथा क्षुल्लककुमारवत् कुतश्चिन्निमित्तात् 'सुगाइय' मित्यादिना प्रतिबुद्धो 'लब्धानपि' प्राप्तानपि कामान् अलब्धसमान् मन्यमानो महासत्त्वतया तन्निस्पृहो भवेदिति ॥ ६ ॥ किमिति कामपरित्यागो विधेय इत्याशङ्कयाह -
मा पच्छ असाधुता भवे, अच्चेही अणुसास अप्पगं । अहियं च असाहु सोयती, से थणती परिदेवती बहु ७ | इह जीवियमेव पासहा, तरुण एवा (णे वा) ससयस्स तुहती इतरवासे य बुज्झह, गिद्धनरा कामेसु मुच्छिया
मा पश्चात् मरणकाले भवान्तरे वा कामानुपङ्गाद् 'असाधुता' कुगतिगमनादिकरूपा 'भवेत्' प्राप्नुयादिति, अतो विषयासङ्गादात्मानम् 'अयेहि' त्याजय, तथा आत्मानं च 'अनुशाधि ' आत्मनोऽनुशास्तिं कुरु, यथा हे जीव ! यो हि 'असाधुः' असाधुकर्मकारी हिंसानृतस्तेयादौ प्रवृत्तः सन् दुर्गतौ पतितः अधिकम् - अत्यर्थमेवं शोचति, स च परमाधार्मिकैः कदर्थ्यमानस्तिर्यक्षु वा क्षुधादिवेदनाग्रस्तोऽत्यर्थं 'स्तनति' सशब्दं निःश्वसिति, तथा 'परिदेवते' विलपत्याक्रन्दति सुबद्दिति - हा मातम्रियत इति त्राता नैवास्ति साम्प्रतं कश्चित् । किं शरणं मे स्यादिह दुष्कृतचरितस्य पापस्य १ ॥ १ ॥ इत्येवमादीनि दुःखान्यसाधुकारिणः प्राशुवन्तीत्यतो विपयानुपङ्गो न विधेय इत्येवमात्मनोऽनुशासनं कुर्विति सम्बन्धनीयं ॥ ७ ॥ किञ्च - 'इह' अस्मिन् संसारे आस्तां तावदन्यज्जीवितमेव सकलसुखास्पदमनित्यताऽऽघातं आधीचिमरणेन प्रतिक्षणं विशरारुस्वभावं तथा — सर्वायुःक्षय एव वा
१ दुबल वा० चू० ।
Jain Education International
For Private Personal Use Only
२ बैतालीयाध्य०
उद्देशः ३
॥ ७१ ॥
२ वैताली
याध्य०
उद्देशः ३
11 02 11
www.jainelibrary.org