________________
सूत्रकृताङ्ग शीलाङ्का चायचियुतं
॥ ५६ ॥
मूत्रकृताङ्ग शीलाङ्काचार्यीयतियुर्त
॥ ५७ ॥
2009evea
38
ये चापि 'बहुश्रुताः शास्त्रार्थपारगाः तथा 'धार्मिका' धर्माचरणशीलाः, तथा ब्राह्मणा' तथा 'भिक्षुका' भिक्षाटनशीलाः ' स्युः भवेयुः, तेऽप्याभिमुख्येन 'शूम'न्ति कर्म माया वा तत्कृतैः असदनुष्ठानैः 'मूर्च्छिताः' गृद्धाः 'तीव्रम्' अत्यर्थ, अत्र च छान्दसत्वाद्बहुवचनं द्रष्टव्यं, 'ते' एवंभूताः 'कर्मभिः' सद्वेधादिभिः 'कृत्यन्ते' छिद्यन्ते पीड्यन्त इतियावत् ॥ ७ ॥ साम्प्रतं ज्ञानदर्शनचारित्रमन्तरेण नापरो मोक्षमार्गोऽस्तीतित्रिकालविषयत्वात् मूत्रस्याऽऽगामितीर्थिक धर्मप्रतिषेधार्थमाह- 'अथे' त्यधिकारान्तरे बहादेशे एकादेश इति, 'अथे'त्यनन्तरं एतच्च 'पश्य' कश्चित्तीर्थिको 'विवेक' परित्यागं परिग्रहस्य परिज्ञानं वा संसारस्वाऽऽश्रित्य उत्थितः प्रव्रज्योत्थानेन, स च सम्यक्परिज्ञानाभावादवितीर्णः संसारसमुद्रं तितीर्षुः केवलम् 'इह' संसारे | प्रस्तावे वा शाश्वतत्वात् 'धुवो' मोक्षस्तं तदुपायं वा संयमं भाषत एव न पुनर्विधत्ते तत्परिज्ञानाभावादिति भावः, तन्मार्गे | प्रपन्नस्त्वमपि कथं ज्ञास्यसि 'आरम्' इहभवं कुतो वा 'पर' परलोकं यदिवा - आरमिति गृहस्थ, परमिति प्रव्रज्यापर्याय, | अथवा – आरमिति संसारं परमिति मोक्षं, एवम्भूतान्योऽप्युभय भ्रष्टः, 'बेहासि'ति अन्तराले उभयाभावतः स्वकृतैः कर्मभिः 'कृत्यते' पीड्यत इति ॥ ८ ॥ ननु च तीर्थिका अपि केचन निष्परिग्रहास्तथा तपसा निष्टतदेहाश्व, तत्कथं तेषां नो मोक्षात्रा|तिरित्येतदाशङ्कयाह
| जइ वि य णिगणे किसे चरे, जइत्रिय भुंजिय मासमंतसो । जे इह मायाइ मिजई, आगता गन्भाय णंतसो पुरिसोरम पावकम्मुणा, पलियंतं मण्याण जीवियं । सन्ना इह काममुच्छिया, मोहं जंति नग असंबुडा १०
यद्यपि तीर्थिकः कश्चित्तापसादिस्त्यक्तवाह्यगृहवासादिपरिग्रहत्वात् निष्किञ्चनतया नमः वक्त्राणाभावाच्च कृशः ''वरेत्' स्वकीय प्रव्रज्यानुष्ठानं कुर्यात्, यद्यपि च षष्ठाष्टमदशमद्वादशादितपो विशेषं विधत्ते यावद् अन्तशो मार्स स्थित्वा 'भुङ्क्ते' तथापि आन्तरकपाया परित्यागान्न मुच्यते इति दर्शयति- 'यः' तीर्थिक इह मायादिना मीयते, उपलक्षणार्थत्वात् कषायैर्युक्त इत्येवं परिच्छिद्यते, असौ 'गर्भाय' गर्भार्थमा - समन्तात् 'गन्ता' यास्यति 'अनन्तशो' निरवधिकं कालमिति, एतदुक्तं भवति---अकिचनोऽपि तपोनिष्टप्तदेहोऽपि कपायापरित्यागान्नरकादिस्थानात् तिर्यगादिस्थानं गर्भाद्गर्भमनन्तमपि कालमग्निशर्मवत् संसारे पर्यटतीति ॥ ९ ॥ यतो मिध्यादृट्युपदिष्टतपसाऽपि न दुर्गतिमार्गनिरोधो अतो मदुक्त एव मार्गे स्थेयमेतद्गर्भमुपदेशं दातुमाह'पुरिसो' इत्यादि, हे पुरुष ! येन 'पापेन कर्मणा' असदनुष्ठानरूपेण वमुपलक्षितस्तत्रासकृत् प्रवृत्तत्वात् तस्मात् 'उपरम' निवर्त्तस्व, यतः पुरुषाणां जीवितं सुबहपि त्रिपल्योपमान्तं संयमजीवितं वा पल्योपमस्यान्तः - मध्ये वर्त्तते तदप्यूनां पूर्वकोटिभि - तियावत्, अथवा परि-समन्तात् अन्तोऽस्येति पर्यन्तं - सान्तमित्यर्थः यच्चैवं तद्गतमेवावगन्तव्यं, तदेवं मनुष्याणां स्तोकं जीवितमवगम्य यावत्तन्न पर्येति तावद्धर्मानुष्ठानेन सफलं कर्त्तव्यं, ये पुनर्भोगस्नेहपके अवसन्ना -- मग्ना 'इह' मनुष्यभवे संसारे वा कामेषु — इच्छा मदनरूपेषु 'मूर्चिछता' अध्युपपन्नाः ते नरा मोहं यान्ति - हिताहितप्राप्तिपरिहारे मुह्यन्ति, मोहनीयं वा कर्म चिन्वन्तीति संभाव्यते, एतदसंवृतानां - हिंसादिस्थानेभ्यो ऽनिवृत्तानामसंयतेन्द्रियाणां चेति ॥ १० ॥ एवं च स्थिते यद्विधेयं तद्दर्शयितुमाह-
जययं विहराहि जोगवं, अणुपाणा पंथा दुरुत्तरा । अणुसासणमेव पक्कमे, वीरेहि समं पवेहयं ॥ ११ ॥ | विरया वीरा समुट्टिया, कोहकायरियाइपीसणा । पाणे ण हणंति सबसो, पात्राओ विरयाऽभिनिव्बुडा १२ स्वल्पं जीवितमवगम्य विषयश्च क्लेशप्रायानवनुरूप छिवा गृहपाशबन्धनं 'यतमानः' यत्नं कुर्वन् प्राणिनामनुपरोधेन 'विहर' उद्युक्तविहारी भव, एतदेव दर्शयति - 'योगवानि' ति संयमयोगवान् गुप्तिसमितिगुप्त इत्यर्थः किमित्येवं ?, यतः 'अणवःसूक्ष्माः प्राणाः प्राणिनो येषु पथिषु ते तथा ते चैवम्भूताः पन्थानोऽनुपयुक्तैर्जीवानुपमर्देन 'दुस्तरा' दुर्गमा इति, अनेन ईर्यासमितिरुपक्षिप्ता, अस्याश्चोपलक्षणार्थलात् अन्यास्वपि समितिषु सततोपयुक्तेन भवितव्यम्, अपिच 'अनुशासनमेव ' यथा-गममेव सूत्रानुसारेण संयमं प्रति क्रामेत्, एतच सर्वैरेव 'वीरैः' अर्हद्भिः सम्यक् 'प्रवेदितं' प्रकर्षेणाख्यातमिति ॥ ११ ॥ अथ क एते वीरा इत्याह- 'विरया' इत्यादि, हिंसाऽनृतादिपापेभ्यो ये विरताः, विशेषेण कर्म प्रेरयन्तीति वीराः सम्यगारम्भपरित्यागेनोत्थिताः समुत्थिताः, ते एवम्भूताच 'क्रोधका तरिका दिपीषणाः' तत्र क्रोधग्रहणान्मानो गृहीतः, कातरिका - माया तद्ग्रहणाल्लोभो गृहीतः, आदिग्रहणात् शेषमोहनीयपरिग्रहः, तत्पीपणा :- तदपनेतारः, तथा 'प्राणिनो' जीवान् सूक्ष्मेतरभेदभिनान् 'सर्वशो' मनोवाक्कायकर्मभिः 'न घ्नन्ति' न व्यापादयन्ति 'पापाच' सर्वतः सावधानुष्ठानरूपाद्विरताः - निश्वतास्ततश्च 'अभिनिर्वृत्ताः' क्रोधाद्युपशमेन शान्तीभूताः, यदिवाऽभिनिर्वृत्ता इव अभिनिर्वृत्ताः – मुक्ता इव द्रष्टव्या इति ॥ १२ ॥ पुनरप्युपदेशान्तरमाह -
Jain Education International
For Private Personal Use Only
बैताली याभ्य०
उद्देशः १
॥५
२ वैतालीयाध्य० उद्देशः १
।। ५७ ।।
www.jainelibrary.org