SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना ३७ कृता चूर्णी वृत्तिकृता शोलाचार्येण च वृत्तौ त्रयाणामप्येतेषां नाम्नामर्थः सम्यक् स्पष्टीकृतः । 'सोऊण जिणवरमयं" [गा० १८ पृ. 4] इति नियुक्तौ उल्लेखदर्शनात् 'श्रुत (त्वा) कृतम्' इत्यपि संस्कृतपर्यायः संभवेत् । तथापि 'सूयगड' इति प्राकृतनाम्नैव सूत्रकृतम्' इति संस्कृतनाम्नव चास्य सर्वत्र प्रसिद्धिः श्वेताम्बरपरम्परायाम्। समवायाङ्ग-नन्दीसूवादिष्वागमशास्त्रेष्वपि 'सूयगड' नाम्नोल्लेखोऽस्य दृश्यते । यद्यपि 'सूयगड' शब्दस्य व्युत्पत्त्यर्थोऽन्येष्वपि सूत्रेषु घटते तथापि रूढ्या द्वितीयमेवाङ्गं 'सूयगड' शब्देन 'सूत्रकृत' शब्देन वोच्यते । एतच्च नन्दीसूत्रवृत्त्यादौ स्पष्टम् । दिगम्बरपरम्परायां' १ सुद्दयडं, २ सूदयडं, ३ सूदयदं' इति त्रिधा नामनिर्देशः प्राकृतभाषायामुपलभ्यते, तत्र सुद्द इति 'सूत्र' शब्दस्य रूपम् । सूद इत्यपि 'सूत्र' शब्दस्य 'सूत' शब्दस्य वा रूपम्, यड इति यद इति च 'कृत' शब्दस्य प्राकृते रूपम् । संस्कृतभाषायां सर्वत्र 'सूत्रकृत' नाम्नव निर्देशः। विभागा :--सूत्रकृताङ्गस्य द्वौ मुख्यविभागौ, ती च 'श्रुतस्कन्धौ' इति व्यपदिश्यते । तत्र षोडशाध्ययनात्मके प्रथमश्रुतस्कन्धे गाथाध्ययनं षोडशं वर्तते, अतो 'गाहासोलसग (गाथाषोडशक)' नाम्नापि तत्प्रसिद्धिः। द्वितीये श्रुतस्कन्धे वर्तमानानि पुण्डरीकादीनि सप्ताध्ययनानि महान्ति, अतो 'महज्झयण'शब्देनापि तेषां व्यपदेशः, दृश्यतां पृ० 178 प्रथमे श्रुतस्कन्धे षोडश अध्ययनानि, द्वितीये तु सप्त, इति सर्वसंख्यया सूत्रकृताने त्रयोविंशतिरध्ययनानि । तेषां प्राकृतभाषायां संस्कृतभाषायां चाभिधानानि इत्थं वर्तन्तेप्राकृतनाम संस्कृतनाम प्राकृतनाम संस्कृतनाम १ समय समय १४ गंथ ग्रन्थ २ वेयालिय बैतालीय १५ प्रायाणिज्ज आदानीय वेयालिय दारिक संकलित संकलिका ३ उवसग्गपरिणा उपसर्गपरिज्ञा जमतीत यमकीय ४ इत्थीपरिणा स्त्रीपरिज्ञा १६ गाहा गाथा ५ णिरयविभत्ति नरकविभक्ति १७ पोंडरीय पौण्डरीक पुण्डरीक ६ महावीरत्थव महावीरस्तव १८ किरियाठाण क्रियास्थान ७ कुसीलपरिभासिय कुशीलपरिभाषित १९ अाहारपरिण्णा आहारपरिज्ञा कुसोलपरिभासा कुशीलपरिभाषा २० पच्चक्खाणकिरिया प्रत्याख्यानक्रिया ८ वीरिय वीर्य २१ अायारसुत प्राचारश्रुत ९ धम्म धर्म अणगारसुय अनाचारश्रुत १० समाहि समाधि अणगारसुय अनगारश्रुत ११ मग मार्ग २२ अद्दइज्ज आर्द्रकीय १२ समोसरण समवसरण २३ णालंदइज्ज नालन्दीय १३ पाहत्तहिय याथातथ्य १. “सोऊण जिणवरमतं गणहारी काउ तवखोवसमं । अज्झवसाणेण कयं सुत्तमिणं तेण सूयगडं ॥१८॥. . . . अवखरगुणमतिसंघायणाए कम्मपरिसाडणाए य । तदुभयजोगेण कयं सुत्तमिणं तेण सुत्तगडं ॥२०॥"--सूत्रकृताङ्गनियुक्ति ॥ "श्रुत्वा निशम्य जिनवराणां तीर्थकराणां मतम् अभिप्राय मातृकादिपदं गणधरैः गौतमादिभिः, कृत्वा ग्रन्थरचने क्षयोपशमं, ' ' ' शुभाध्यवसायेन च सता कृतमिदं सूत्रं तेन सूत्रकृतमिति" सूत्रकृताङ्गवृत्तिः पृ० ६ । २. “से कि तं सूयगडे ? सूयगडे णं ससमया सूइज्जति . . . ."-समवायांगसूत्र । “से किं तं सूयगडे ? सूयगडे णं लोए सूइइज्जति . . . . ."--नन्दीसूत्र। “से कि तं सूयगडेत्यादि सुत्तं । सूइज्जइ त्ति जधा णट्ठा सूई तंतुणा सूइज्जइ उवलब्भतेत्यर्थः । अहवा जहा सूयी पडं सूतेइ तहा सूयगडे जीवादिपदत्था सूइज्जति"-नन्दीचूणि पृ०६३ । “से किं तं सूयगडे ? सूच् सूचायाम् [ ], सूचनात् सूत्रम्, सूत्रेण कृतं सूत्रकृतं रूढयोच्यते"--नन्दीवृत्ति हारिभद्री पृ० ७७ । “सूयगडेत्यादि रूढयोच्यते इति सूत्रकृतशब्देन द्वितीयमेवाङ्गमुच्यते नान्यत्"-नन्दीवृत्तिटिप्पनक पृ० १६४ । ३. "तेवीसाए सुद्दयडज्झाणेसु"-प्रतिक्रमणग्रंथत्रयी । “जं तमंगपविठें तं बारसविहं आयारो सूदयडं ठाणं वियाहपण्णत्ती णाहधम्मकहा उवासयज्झयणं अंतयडदसा अणुत्तरोववादियदसा पण्हवायरणं विवायसुत्तं दिट्टिवादो चेदि।"-जयधवला प० २३ । प्रायारंगे अट्ठारह पदसहस्साणि १८०००, सूदयदे छत्तीस पदसहस्साणि ३६०००"-जयधवला पृ० ८५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy