________________
ओदनादयस्ते कृता लायरित्रहेणानारम्भेण च वर्तनीयमित्कारपरिभोजी 'त्राण शरण पाचव
सूत्रकृताङ्ग
च मोक्षमार्ग प्रसाधयन्तीति दर्शयति-'इह परलोकचिन्तायाम् एकेपां केषाश्चिद् 'आख्यातं' भापितं, यथा किमनया शिर|स्तुण्डमुण्डनादिकया क्रियया ?, परं गुरोरनुप्रहात्परमाक्षरावाप्तिस्तद्दीक्षावाप्तिर्वा यदि भवति ततो मोक्षो भवतीत्येवं भाषमाणास्ते
न त्राणाय भवन्तीति । ये तु त्रातुं समर्थास्तान्पश्चार्द्धन दर्शयति-'अपरिग्रहा.' न विद्यते धर्मोपकरणाहते शरीरोमभोगाय | खल्पोऽपि परिग्रहो येषां ते अपरिग्रहाः, तथा न विद्यते सावध आरम्भो येषां तेऽनारम्भाः, ते चैवंभूताः कर्मलघवः स्वयं यानपात्रकल्पाः संसारमहोदधेर्जन्तूत्तारणसमर्थास्तान् 'भिक्षु'भिक्षणशील उद्देशिकाद्यपरिभोजी 'त्राणं' शरणं परिः-समन्ताद्जेद्-गच्छेदिति ॥३॥ कथं पुनस्तेनापरिग्रहेणानारम्भेण च वर्तनीयमित्येतद्दर्शयितुमाह-गृहस्थैः परिग्रहारम्भद्वारेणाऽऽत्मार्थ ये निष्पादिता ओदनादयस्ते कृता उच्यन्ते तेषु कृतेषु-परकृतेषु परनिष्ठितेष्वित्यर्थः, अनेन च पोडशोद्गमदोपपरिहार: मूचितः, तदेवमुद्गमदोषरहितं ग्रस्यत इति ग्रासः-आहारस्तमेवंभूतम् 'अन्वेषयेत् मृगयेत् याचेयेदित्यर्थः, तथा 'विद्वान्' संयमकरणकनिपुणः परैराशंसादोपरहितैर्यनिःश्रेयसबुद्ध्या दत्तमिति, अनेन षोडशोत्पादनदोषाः परिगृहीता द्रष्टव्याः, तदेवम्भूते दौत्यधात्रीनिमित्तादिदोपरहिते आहारे स भिक्षुः एषणां' ग्रहणैपणां 'चरेद'अनुतिष्ठेदिति, अनेनापि दशैषणादोषाः परि| गृहीता इति मन्तव्यं, तथा 'अगृद्धः' अनध्युपपन्नोऽमूच्छितस्तसिन्नाहारे रागद्वेषविप्रमुक्तः, अनेनापि च ग्रासैपणादोषाः पश्च निरस्ता अवसेयाः, स एवम्भूतो भिक्षुः परेषामपमानं-परावमदर्शिख 'परिवर्जयेत्' परित्यजेत् , न तपोमदं ज्ञानमदं च कुर्या
दिति भावः॥४॥ एवं नियुक्तिकारेणोद्देशकार्थाधिकाराभिहितं 'किनुवमा य चउत्थे' इत्येतत्पदयेंदानी परवादिमतमेवोद्देशासूत्रक. कार्थाधिकाराभिहितं दर्शयितुमाहलोगवायं णिसामिज्जा, इहमेगेसिमाहियं । विपरीयपन्नसंभूयं, अन्नउत्तं तयाणुयं ॥५॥
१ समया० शीलाङ्का
अणंते निइए लोए, सासए ण विणस्सती । अंतवं णिइए लोए, इति धीरोऽतिपासइ ॥६॥ चाीयवृ
उद्देशः ४ लोकानां-पाखण्डिनां पौराणिकानां वा वादो लोकवादः-यथास्वमभिप्रायेणान्यथा वाऽभ्युपगमस्तं 'निशामयेत्' शृणु-1
लोकवादाः तियुतं
18 यात् जानीयादित्यर्थः, तदेव दर्शयति–'इह' अमिन्संसारे 'एकेषां केषाश्चिदिदम् 'आख्यातम्' अभ्युपगमः । तदेव । ॥४९॥ विशिनष्टि विपरीता-परमार्थादन्यथाभूता या प्रज्ञा तया संभूतं-समुत्पन्नं, तत्त्वविपर्यस्तबुद्धिग्रथितमितियावत् , पुनरपि विशेष
यति-अन्यैः-अविवेकिभिर्यदुक्तं तदनुगं, यथावस्थितार्थविपरीतानुसारिभिर्यदुक्तं विपरीतार्थाभिधायितया तदनुगच्छतीत्यर्थः । ॥५॥ तमेव विपर्यस्तबुद्धिरचितं लोकवादं दर्शयितुमाह-नास्यान्तोऽस्तीत्यनन्तः, न निरन्वयनाशेन नश्यतीत्युक्तं भवतीति, | तथाहि-यो यादृगिह भवे स तागेव परभवेऽप्युत्पद्यते, पुरुषः पुरुष एवाङ्गना अनैवेत्यादि, यदिवा 'अनन्तः' अपरिमितो निर| वधिक इतियावत् , तथा 'नित्य' इति अप्रच्युताबुत्पन्नस्थिरैकखभावो लोक इति, तथा शश्वद्भवतीति शाश्वतो घणुकादिकार्य| द्रव्यापेक्षयाऽशश्वद्भवन्नपि न कारणद्रव्यं परमाणुखं परित्यजतीति तथा न विनश्यतीति दिगात्माकाशाद्यपेक्षया । तथाऽन्तोऽस्यास्तीत्यन्तवान् लोकः, 'सप्तद्वीपा वसुन्धरे'ति परिमाणोक्तेः, स च तादृपरिमाणो नित्य इत्येवं 'धीरः कश्चित्साहसिकोऽन्य-S॥४९॥ थाभूतार्थप्रतिपादनात् व्यासादिरिवाति पश्यतीत्यतिपश्यति । तदेवंभूतमनेकभेदभित्रलोकवादं निशामयेदिति प्रकृतेन सम्बन्धः। | तथा 'अपुत्रस्य न सन्ति लोका, ब्रामणा देवाः, श्वानो यक्षा, गोभिहतस्य गोध्नस्य वा न सन्ति लोका'इत्येवमादिकं नियुक्तिक
लोकवादं निशामयेदिति ॥ ६॥ किंच|| - अपरिमाणं वियाणाई, इहमेगेसिमाहियं । सवत्थ सपरिमाणं, इति धीरोऽतिपासई ॥ ७॥
जे केइ तसा पाणा, चिटुंति अदु थावरा । परियाए अत्थि से अंजू , जेण ते तसथावरा ॥ ८॥ न विद्यते 'परिमाणम्' इयत्ता क्षेत्रतः कालतो वा यस्य तदपरिमाणं, तदेवंभूतं विजानाति कश्चित्तीर्थिकतीर्धकृत , एतदुक्तं भवति-अपरिमितज्ञोऽसावतीन्द्रियद्रष्टा, न पुनः सर्वज्ञ इति, यदिवा-अपरिमितज्ञ इत्यभिप्रेतार्थातीन्द्रियदर्शीति, तथा चोक्तम्"सर्व पश्यतु वा मा वो, इष्टमर्थं तु पश्यतु । कीटसंख्यापरिज्ञानं, तस्य नः कोपयुज्यते ॥१॥” इति, 'इह' असिल्लोके 'एकेषां' ||
सर्वज्ञापह्नववादिनाम् इदमाख्यातम् ' अयमभ्युपगमः, तथा सर्वक्षेत्रमाश्रित्य कालं वा परिच्छेद्यं कर्मतापत्रमाश्रित्य सह परिकी माणेन सपरिमाणं-सपरिच्छेदं धी:-बुद्धिस्तया राजत इति धीर इत्येवमसौ अतीव पश्यतीत्यतिपश्यति, तथाहि ते बुवते
दिव्यं वर्षसहस्रमसौ ब्रह्मा स्वपिति, तस्यामवस्थायां न पश्यत्यसौ, तावन्मानं च कालं जागर्ति, तत्र च पश्यत्यसाविति, तदेवम्भूतो
बहुधा लोकवादः प्रवृत्तः ॥ ७॥ अस्य चोत्तरदानायाह-ये केचन त्रस्यन्तीति त्रसा-द्वीन्द्रियादयः 'प्राणाः' प्राणिनः सत्त्वाः If 'तिष्ठन्ति' सखमनुभवन्ति, अथवा 'स्थावरा' स्थावरनामकर्मोदयात् (याः) पृथिव्यादयस्ते, यद्ययं लोकवादः सत्यो भवेत् | यथा यो यादगस्मिन् जन्मनि मनुष्यादिः सोऽन्यसिमपि जन्मनि तागेव भवतीति, ततः स्थावराणां बसानां च तादृशखे सति दानाध्ययनजपनियमतपोऽनुष्ठानादिकाः क्रियाः सर्वा अप्यनर्थिका आपधेरन् । लोकेनापि चान्यथाखमुक्तं, तद्यथा-"स वै एष । १ कश्चित्तु पक्षे प्रकृतिभावमपीच्छतीति श्रीहेमचन्द्रसूर्युत्तरत्र प्रकृतिभावसद्भावानापप्रयोगता ।
Sattatreectatoessetorercedesesesersesemesesexesekce
Real
99777
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org