________________
9099sapa09890099
अस्यां चावस्थायां सकर्मकखात्तृतीयराश्यवस्थो भवति ॥ ११ ॥ किं च-'इह' असिन् मनुष्यभवे प्राप्तः सन् प्रव्रज्यामभ्युपेत्य | संवृतात्मा-यमनियमरतो जातः सन् पश्चादपापो भवति-अपगताशेषकर्मकलको भवतीति भावः, ततः स्वशासनं प्रज्वाल्य | मुक्त्यवस्थो भवति, पुनरपि स्वशासनपूजादर्शनानिकारोपलब्धेश्च रागद्वेषोदयात्कलुपितान्तरात्मा विकटाम्बुवद्-उदकवनीरजस्कं || |सद्वातोद्धतरेणुनिवहसंपृक्तं सरजस्क-मलिनं भूयो यथा भवति तथाऽयमप्यात्माऽनन्तेन कालेन संसारोद्वेगाच्छुद्धाचारावस्थो भूखा ततो मोक्षावाप्तो सत्यामकर्मावस्थो भवति, पुनः शासनपूजानिकारदर्शनाद्रागद्वेषोदयात्सकर्मा भवतीति, एवं त्रैराशिकानां राशित्रयावस्थो भवत्यात्मेत्याख्यातम् , उक्तं च-"दग्धेन्धनः पुनरुपैति भवं प्रमथ्य, निर्वाणमप्यनवधारितमीरुनिष्ठम् । मुक्तः स्वयं कृतभवश्व परार्थशूरस्वच्छासनप्रतिहतेविह मोहराज्यम् ॥१॥” इति ।। १२ ।। अधुनैतद्दषयितुमाह
एताणुवीति मेधावी, बंभचेरेण ते वसे । पुढो पावाउया सवे, अक्खायारो सयं सयं ॥ १३ ॥ सए सए उवट्टाणे, सिद्धिमेव न अन्नहा । अहो इहेव वसवत्ती, सबकामसमप्पिए ॥ १४ ॥ 'एतान्' पूर्वोक्तान् वादिनोऽनुचिन्त्य 'मेधावी प्रज्ञावान् मर्यादाव्यवस्थितो वा एतदवधारयेत् यथा-नैते राशित्रयवादिनो देवोप्तादिलोकवादिनच 'ब्रह्मचर्ये' तदुपलक्षिते वा संयमानुष्ठाने 'वसेयुः' अवतिष्ठेरनिति, तथाहि-तेषामयमभ्युपगमो यथा
खदर्शनपूजानिकारदर्शनात्कर्मबन्धो भवति, एवं चावश्यं तद्दर्शनस्य पूजया तिरस्कारेण वोभयेन वा भाव्यं, तत्संभवाच्च कर्मोपसूत्रकृताङ्गं
चयस्तदुपचयाच्च शुद्ध्यभावः शुद्ध्यभावाच मोक्षाभावः, न च मुक्तानामपगताशेषकर्मकलङ्कानां कृतकृत्यानामपगताशेषयथाव- समया० शीलाङ्का- स्थितवस्तुतत्त्वानां समस्तुतिनिन्दानामपगतात्मात्मीयपरिग्रहाणां रागद्वेषानुपङ्गः, तदभावाच कुतः पुनः कर्मबन्धः, तद्वशाच उद्देशः ३ चायिय- संसारावतरणमित्यर्थः, अतस्ते यद्यपि कथश्चिद् द्रव्यब्रह्मचर्ये व्यवस्थितास्तथापि सम्यग्ज्ञानाभावान ते सम्यगनुष्ठानमाज इति ।
त्रिशशित्तियुत स्थितम् । अपिच-सर्वेऽप्येते प्रावादुकाः 'स्वकं स्वकम्' आत्मीयमात्मीयं दर्शनं स्वदर्शनानुरागादाख्यातारः-शोभनखेन
कर्तृवाद
निरासा ॥४६॥
प्रख्यापयितार इति, न च तत्र विदितवेद्येनास्था विधेयेति ॥१३॥ पुनरन्यथा कृतवादिमतमुपदर्शयितुमाह ते कृतवादिनः शैवै
कदण्डिप्रभृतयः स्वकीये स्वकीये उपतिष्ठन्त्यस्मिन्नित्युपस्थानं-स्वीयमनुष्ठानं दीक्षागुरुचरणशुश्रूषादिकं तस्मिन्नेव 'सिद्धिम्' अशे18 पसांसारिकप्रपञ्चरहितस्वभावामभिहितवन्तो 'नान्यथा' नान्येन प्रकारेण सिद्धिरवाप्यत इति, तथाहि-शैवादीक्षात एव मोक्ष
इत्येवं व्यवस्थिताः, एकदण्डिकास्तु पञ्चविंशतितत्त्वपरिज्ञानान्मुक्तिरित्यभिहितवन्तः,तथाऽन्येऽपि वेदान्तिका ध्यानाध्ययनसमाधिमार्गानुष्ठानासिद्धिमुक्तवन्त इत्येवमन्येऽपि यथाखं दर्शनान्मोक्षमार्ग प्रतिपादयन्तीति, अशेषद्वन्द्वोपरमलक्षणायाः सिद्धिनातेरधस्ता-10 -प्रागपि यावदद्यापि सिद्धिप्राप्तिन भवति तावदिहैव जन्मन्यसदीयदर्शनोक्तानुष्ठानानुभावादष्टगुणैश्वर्यसद्भावो भवतीति दर्शयति । -आत्मवशे वर्तितुं शीलमस्येति वशवर्ती-वशेन्द्रिय इत्युक्तं भवति, न घसौ सांसारिकैः स्वभावैरभिभूयते, सर्वे कामा-अभिलाषा
॥४६॥ | अर्पिताः-संपमा यस्य स सर्वकामसमर्पितो, याम् यान् कामान् कामयते ते तेऽस्य सर्वे सिध्यन्तीतियावत् , तथाहि-सिद्धरारादष्टगुणैश्वर्यलक्षणा 'सिद्धिर्भवति तद्यथा-अणिमा लधिमा महिमा प्राकाम्यमीशिलं वशित्वं प्रतिपातित्वं यत्र कामावसायिखमिति ॥ १४ ॥ तदेवमिहेवासदुक्तानुष्ठायिनोऽष्टगुणैश्वर्यलक्षणा सिद्धिर्भवत्यमुत्र चाशेषद्वन्द्वोपरमलक्षणा सिद्धिर्भवतीति दर्शयितुमाह- सिद्धा य ते अरोगा य, इहमेगेसिमाहियं । सिद्धिमेव पुरो काउं, सासए गढिआ नरा ॥ १५॥ || ___ असंबुडा अणादीयं, भमिहिंति पुणो पुणो । कप्पकालमुवजंति, ठाणा आसुरकिब्बिसिया ॥१६॥
इति बेमि इति प्रथमाध्ययने तृतीयोदेशकः ॥ गाथा ग्रं. ७५॥ । ये बसदुक्तमनुष्ठानं सम्यगनुतिष्ठन्ति तेऽस्मिन् जन्मन्यष्टगुणैश्वर्यरूपां सिद्धिमासाद्य पुनर्विशिष्टसमापियोगेन शरीरत्यागं कृखा 'सिद्धाश्च' अशेषद्वन्द्वरहिता अरोगा भवन्ति, अरोगग्रहणं चोपलक्षणम् , अनेकशारीरमानसद्वन्द्वैर्न स्पृश्यन्ते, शरीरमनसोरभावा| दिति, एवम् 'इह अमिन् लोके सिद्धिविचारे वा 'एकेषां शैवादीनामिदम् 'आख्यातं' भाषितं, ते च शैवादयः 'सिद्धिमेव | |पुरस्कृत्य मुक्तिमेवाङ्गीकृत्य 'स्वकीये आशये' खदर्शनाभ्युपगमे 'ग्रथिताः' संबद्धा अध्युपपन्नास्तदनुकूला युक्तीः प्रतिपादयन्ति, नरा इव नरा:---प्राकृतपुरुषाः शास्त्रावबोधविकलाः स्वाभिप्रेतार्थसाधनाय युक्तीः प्रतिपादयन्ति, एवं तेऽपि पण्डितंमन्याः पर|मार्थमजानानाः स्वाग्रहप्रसाधिका युक्तीरुद्घोषयन्तीति, तथा चोक्तम्-'आग्रही बत निनीपति युक्ति, तत्र यत्र मतिरस्य निविष्टा। पक्षपातरहितस्य तु युक्तिर्यत्र तत्र मतिरेति निवेशम् ॥ १॥" ॥ १५॥ साम्प्रतमेतेषामनर्थप्रदर्शनपुरःसरं दूषणाभिधित्सयाऽहते हि पाखण्डिका मोक्षाभिसन्धिना समुत्थिता अपि 'असंवृता' इन्द्रियनोइन्द्रियैरसंयताः, इहाप्यस्माकं लाभ इन्द्रियानुरोधेन सर्वविषयोपभोगाद्, अमुत्र मुक्त्यवाप्तेः, तदेवं मुग्धजनं प्रतारयन्तोऽनादिसंसारकान्तारं 'भ्रमिष्यन्ति' पर्यटिष्यन्ति स्वदुश्चरितो
Deseceserveeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeserceseseel
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org