________________
29
त्तियुतं
मारेण 'संस्तुता' कृता प्रसाधिता माया, तया च मायया लोका नियन्ते, न च परमार्थतो जीवस्योपयोगलक्षणस्य व्यापत्तिकारस्ति, अतो मायैपा यथाऽयं मृतः, तथा चायं लोकः 'अशाश्वत:' अनित्यो विनाशीति गम्यते ॥ ७॥ अपि च
माहणा समणा एगे, आह अंडकडे जगे। असो तत्तमकासी य, अयाणंता मुसं वदे ॥८॥ 'ब्राह्मणा' धिग्रजातयः 'श्रमणाः' त्रिदण्डिप्रभृतयः 'एके' केचन पौराणिका न सर्वे, एवम् 'आहुः उक्तवन्तो, वदन्ति च यथा-जगदेतच्चराचरमण्डेन कृतमण्डकृतं अण्डाजातमित्यर्थः, तथाहि ते वदन्ति-यदा न किश्चिदपि वस्त्वासीत्-पदार्थ-18 शून्योऽयं संसारः तदा ब्रह्माऽस्खण्डमसृजत् , तसाच क्रमेण वृद्धात्पश्चाविधाभावमुपगताोधोविभागोऽभूत् , तन्मध्ये च सर्वाः प्रकृतयोऽभूवन् , एवं पृथिव्यप्रेजोवाय्वाकाशसमुद्रसरित्पर्वतमकराकरनिवेशादिसंस्थितिरभूदिति, तथा चोक्तम्-"आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतय॑मविज्ञेयं, प्रसुप्तमिव सर्वतः ॥१॥" एवंभूते चास्मिन् जगति 'असौ' ब्रह्मा, तस्य भावस्तत्त्वं-पदार्थजातं तदण्डादिप्रक्रमेण 'अकार्षीत् कृतवानिति । ते च ब्राह्मणादयः परमार्थमजानानाः सन्तो मृषा वदन्त एवं वदन्ति-अन्यथा च स्थितं तस्वमन्यथा प्रतिपादयन्तीत्यर्थः ॥८॥ अधुनैतेषां देवोप्तादिजगद्वादिनामुत्तरदानायाह
सएहिं परियाएहिं, लोयं बूया कडेति य।तत्तं ते ण विजाणंति, ण विणासी कयाइवि ॥ ९॥ सूत्रकृ. ८
'स्यकैः' स्वकीयैः 'पर्यायैः' अभिप्रायैयुक्तिविशेषैः अयं लोकः कृत इत्येवम् 'अब्रुवन्' अभिहितवन्तः, तपथा-देवोप्तो सूत्रकृताङ्गं ब्रह्मोस ईश्वरकृतः प्रधानादिनिष्पादितः स्वयम्भुवा व्यधायि तनिष्पादितमायया म्रियते तथाऽण्डजश्चायं लोक इत्यादि, स्वकीयाभि- १समया शीलाका- रुपपत्तिभिः प्रतिपादयन्ति-यथाऽसदुक्तमेव सत्यं नान्यदिति, ते चैवंवादिनो वादिनः सर्वेऽपि 'तत्त्वं' परमार्थ यथावस्थितलोक- उद्देशः ३ चाीय- स्वभावं 'नाभि (न वि)जानन्ति' न सम्यक विवेचयन्ति, यथाऽयं लोको द्रव्यार्थतया न विनाशीति-निर्मूलतः कदाचन, न जगत्कते
|चायमादित आरभ्य केनचित् क्रियते, अपि स्वयं लोकोऽभूद्भवति भविष्यति च, तथाहि-यत्तावदुक्तं यथा 'देवोप्तोऽयं लोक' त्ववाद: ॥४३॥
इति, तदसंगतम् , यतो देवोप्तले लोकस्य न किञ्चित्तथाविधं प्रमाणमस्ति, न चाप्रमाणकमुच्यमानं विद्वजनमनांसि प्रीणयति, अपि | य-किमसौ देव उत्पन्नोऽनुत्पन्नो वा लोकं सृजेत् ?, न तावदनुत्पन्नस्तस्य खरविषाणस्येवासत्त्वात्करणाभावः, अथोत्पन्नः सृजेतकि स्वतोऽन्यतो वा ?, यदि स्वत एवोत्पत्रस्तथा सति तल्लोकस्यापि स्वत एवोत्पत्तिः किं नेष्यते ?, अथान्यत उत्पन्नः सन् लोककरणाय, सोऽप्यन्योऽन्यतः सोऽप्यन्योऽन्यत इत्येवमनवस्थालता नभोमण्डलव्यापिन्यनिवारितप्रसरा प्रसर्पतीति, अथासौ देवोऽनादिखानोत्पन्न इत्युच्यते, इत्येवं सति लोकोऽप्यनादिरेवास्तु, कोदोषः ?, किंच-असावनादिः सनित्योऽनित्यो वा स्यात् ?, यदि नित्यस्तदा तस्य क्रमयोगपद्याभ्यामर्थक्रियाविरोधान्न कर्तृवम्, अथानित्यस्तथा सति स्वत एवोत्पत्त्यनन्तरं विनाशिखादात्मनोऽपि न त्राणाय, कुतोऽन्यत्करणं प्रति तस्य व्यापारचिन्तेति ?, तथा किममूर्तो मूर्तिमान् वा ?, यद्यमूर्तस्तदाऽऽकाशवदकर्तेव, अथ मूर्तिमान् तथा सति प्राकृतपुरुषस्येवोपकरणसव्ययेक्षस्य स्पष्टमेव सर्वजगदकर्तृखमिति । देवगुप्तदेवपुत्रपक्षौ खतिफल्गुखादप
॥४३॥ कर्णयितव्याविति, एतदेव दूषणं ब्रह्मोप्तपक्षेऽपि द्रष्टव्यं, तुल्ययोगक्षेमखादिति । तथा यदुक्तम्-'तनुभुवनकरणादिकं विमत्यधिकरणभावापनं विशिष्टबुद्धिमत्कारणपूर्वक, कार्यबाद, घटादिवदिति' तदयुक्तं, तथाविधविशिष्टकारणपूर्वकखेन व्याप्त्यसिद्धेः, कारणपूर्वकखमात्रेण तु कार्य व्याप्त, कार्यविशेषोपलब्धो कारणविशेषप्रतिपत्तिर्गृहीतप्रतिबन्धस्यैव भवति, न चात्यन्तादृष्टे तथा
प्रतीतिर्भवति, घटे तत्पूर्वकख प्रतिपक्षमिति चेत् युक्तं तत्र घटस्य कार्यविशेषलप्रतिपत्तेः, न खेवं सरित्समुद्रपर्वतादौ बुद्धिमत्कारSणपूर्वकखेन संबन्धो गृहीत इति, नन्वत एव घटादिसंस्थानविशेषदर्शनवत्पर्वतादावपि विशिष्टसंस्थानदर्शनाद्बुद्धिमत्कारणपूर्वकखस्य
साधनं क्रियते, नैतदेवं युक्तं, यतो न हि संस्थानशब्दप्रवृत्तिमात्रेण सर्वस्य बुद्धिमत्कारणपूर्वकलावगतिर्भवति, यदि तु सात् मृद्वि
कारखावल्मीकस्यापि घटवत्कुम्भकारकृतिः स्यात् , तथा चोक्तम्-'अन्यथा कुम्भकारेण, मृद्विकारस्य कस्यचित् । घटादेः कर1णात्सियेद्वल्मीकस्यापि तत्कृतिः॥१॥" इति, तदेवं यस्यैव संस्थानविशेषस्य बुद्धिमत्कारणपूर्वकवेन संबन्धो गृहीतस्तदर्शनमेव 18 तथाविधकारणानुमापकं भवति न संस्थानमात्रमिति, अपिच-घटादिसंस्थानानां कुम्भकार एव विशिष्टः कोपलक्ष्यते नेश्वरः,
यदि पुनरीश्वरः स्यात् किं कुम्भकारेणेति ?, नैतदस्ति, तत्रापीश्वर एव सर्वव्यापितया निमित्तकारणलेन व्याप्रियते, नन्वेवं ६ | दृष्टहानिरदृष्टकल्पना सात् , तथा चोक्तम्- "शस्त्रौषधादिसंबन्धाच्चैत्रस्य व्रणरोहणे । असंबद्धस्य किं स्थाणोः, कारणलं न है। कल्प्यते ॥१॥" तदेवं दृष्टकारणपरित्यागेनादृष्टपरिकल्पना न न्याय्येति, अपिच-देवकुलावटादीनां यः कर्ता स सावयवोऽव्याप्यनित्यो दृष्टः, तदृष्टान्तसाधितश्चेश्वर एवंभूत एव प्राप्नोति, अन्यथाभूतस्य च दृष्टान्ताभावाद्व्याप्त्यसिद्धेर्नानुमानमिति, अनयैव दिशा स्थिखाप्रवृत्त्यादिकमपि साधनमसाधनमायोज्यं, तुल्ययोगक्षेमवादिति । यदपि चोक्तं 'प्रधानादिकृतोऽयं लोक' इति, तदप्यसंगतं, यतस्तत्प्रधानं किं मूर्तममूर्त वा ?, यद्यमूर्त न ततो मकराकरादेर्मूर्तस्योद्भवो घटते, न ह्याकाशाकिश्चि- दुत्पद्यमानमालक्ष्यते, मूर्तामूर्तयोः कार्यकारणविरोधादिति, अथ मूर्त तत्कुतः समुत्पन्न, न तावत्स्वतो लोकस्यापि तथोत्पत्ति
कसे प्रतिपामिति घटादिसंस्थानविशेषत्रण सर्वस्य यु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org