________________
सूत्रकृताङ्ग शीलाङ्काचार्ययतियुतं
॥ ४१ ॥
सूत्रकृताङ्ग
शीलाङ्काचार्ययष्टतियुतं
॥ ४२ ॥
28
ईयापथः सांपरायिकं च अथवा पूर्वबद्धा निकाचिताद्यवस्थाः कर्मप्रकृतीर्नयत्यपूर्वाश्वादते, तथा चागमः -- " आहार्कम्मं णं खमाणे समणे कइ कम्मपयडीओ बंधइ ?, गोयमा ! अट्टकम्मपयडीओ बंधह, सिढिलबंधणबद्धाओ धणियरंधणबद्धाओ करेइ, चियाओ करेइ, उवचियाओ करेइ, हस्सठियाओ दीहठियाओ करेइ' इत्यादि । ततश्चैवं शाक्यादयः परतीर्थिकाः स्वयूध्या वा आधाकर्म भुञ्जाना द्विपक्षमेवाऽऽसेवन्त इति सूत्रार्थः ॥ १ ॥ इदानीमेतेषां सुखैषिणामाधाकर्म भोजिनां कटुकविपाकाविर्भावनाय श्लोकद्वयेन दृष्टान्तमाह- 'तमेव' आधाकर्मोपभोगदोषम् 'अजानाना' विषमः अष्टप्रकारकर्मबन्धो भवकोटिभिरपि दुर्मोक्षः चतुर्गतिसंसारो वा तस्मिन्नकोविदाः, कथमेष कर्मबन्धो भवति ? कथं वा न भवति ? केन वोपायेनायं संसारार्णवस्तीर्यत इत्यत्राकुशलाः, तस्मिन्नेव संसारोदरे कर्मपाशावपाशिता दुःखिनो भवन्तीति । अत्र दृष्टान्तमाह-यथा 'मत्स्याः' पृथुरोमाणो विशाल:--- समुद्रस्तत्र भवा वैशालिकाः विशालाख्यविशिष्टजात्युद्भवा वा वैशालिकाः विशाला एव (वा) वैशालिका :बृहच्छरीरास्ते एवंभूता महामत्स्या 'उदकस्याभ्यागमे' समुद्रवेला (यामागता) यां सत्यां प्रबलमरुद्वेगोद्भूतो तुङ्गकल्लोलमालाऽपनुन्नाः सन्त उदकस्य प्रभावेन नदीमुखमागताः पुनर्वेलाऽपगमे तस्मिन्नुदके शुष्के वेगनैवापगते सति बृहत्त्वाच्छरीरस्य तस्मिन्नेव धुनीमुखे विलग्ना अवसीदन्त आमिषग्रधुभिर्दङ्कः कङ्कुश्च पक्षिविशेषैरन्यैश्व मांसवसार्थिभिर्मत्स्यबन्धादिभिर्जीवन्त एव विलुप्यमाना महान्तं | दुःखसमुद्घातमनुभवन्तः अशरणा 'घातं ' विनाशं 'यान्ति' प्राप्नुवन्ति, तुरवधारणे, त्राणाभावाद्विनाशमेव यान्तीति श्लोक
१ आधा कर्म भुञ्जानः श्रमणः कति कर्मप्रकृतीबंध्नाति ? गौतम ! अष्टकर्मप्रकृतीर्थाति, शिथिलबन्धनबद्धा गाढबन्धनबद्धाः करोति चिताः करोति उपचिताः करोति हवकालस्थितिका दीर्घकालस्थितिकाः करोति ।
यार्थः ॥२- ३२॥ एवं दृष्टान्तमुपदर्श्य दार्शन्ति के योजयितुमाह-यथैतेऽनन्तरोक्ता मत्स्यास्तथा 'श्रमणाः' श्राम्यन्तीति श्रमणा 'एके' शाक्यपाशुपतादयः स्वयूथ्या वा, किंभूतास्ते इति दर्शयति - वर्त्तमानमेव सुखम् आधाकर्मोपभोगजनितमेषितुं शीलं येषां ते वर्तमान सुखैषिणः, समुद्रवायसवत् तत्काला वाप्तसु खलवासक्तचेतसोऽनालो चिताधाकर्मोपभोगजनि तातिकटुक दुःखौघानुभवा वैशालिकमत्स्या इव 'घात' विनाशम् 'एष्यन्ति' अनुभविष्यन्ति 'अनन्तश:' अरहट्टघटीन्यायेन भूयो भूयः संसारोदन्यति निमजनोन्मञ्जनं कुर्वाणा न ते संसाराम्भोधेः पारगामिनो भविष्यन्तीत्यर्थः ॥ ४ ॥ साम्प्रतमपराज्ञाभिमतोपप्रदर्शनायाह-
इणमन्नं तु अन्नाणं, इहमेगेसि आहियं । देवउत्ते अयं लोए, बंभउत्तेति आवरे ॥ ५ ॥ ईसरेण कडे लोए, पहाणाइ तहावरे । जीवाजीवसमाउत्ते, सुहदुक्खसमन्निए ॥ ६ ॥
भुणाकडे लोए, इति वृत्तं महेसिणा । मारेण संधुया माया, तेण लोए असासए ॥ ७ ॥
'इद' मिति वक्ष्यमाणं, तुशब्दः पूर्वेभ्यो विशेषणार्थः, 'अज्ञान' मिति मोहविजृम्भणम् -' इह' अस्मिन् लोके एकेषां न सर्वेषाम् 'आख्यातम्' अभिप्रायः, किं पुनस्तदाख्यातमिति । तदाह- देवेनोप्तो देवोप्तः कर्षकेणेव बीजवपनं कृत्वा निष्पादितोऽयं लोक इत्यर्थः, देवैर्वा गुप्तो-- रक्षितो देवगुप्तो देवपुत्रो वेत्येवमादिकमज्ञानमिति, तथा ब्रह्मणा उप्तो ब्रह्मोप्तोऽयं लोक हत्यपरे एवं व्यवस्थिताः, । तथाहि तेषामयमभ्युपगमः - ब्रह्मा जगत्पितामहः, स चैक एव जगदादावाखीत्तेन च प्रजापतयः सृष्टाः तैश्च क्रमेणैतत्सकलं जगदिति। ॥ ५ ॥ तथेश्वरेण कृतोऽयं लोकः, एवमेके ईश्वरकारणिका अभिदधति, प्रमाणयन्ति च ते सर्वमिदं विमत्यधिकरणभावापनं तनुर्भुवनकरणादिकं धर्मिवेनोपादीयते, बुद्धिमत्कारणपूर्वकमिति साध्यो धर्म, संस्थानविशेषवत्त्वादिति हेतु:, यथा घटादिरिति दृष्टान्तोऽयं, यद्यत्संस्थान विशेषवत्तत्तदुद्धिमत्कारणपूर्वकं दृष्टं यथा देवकुलकूपादीनि संस्थानविशेषवच्च मकराकर नदीधराधरधराशरीरकरणादिकं विवादगोचरापन्नमिति, तस्माद्बुद्धिमत्कारणपूर्वकं यश्च समस्तस्यास्य जगतः कर्ता स सामान्य पुरुषो न भवतीत्यसावीश्वर इति तथा सर्वमिदं तनुभुवनकरणादिकं धर्मिखेनोपादीयते, बुद्धिमत्कारणपूर्वकमिति साध्यो धर्मः, कार्यत्वाद् घटादिवत् तथा स्थित्वा प्रवृत्तेर्वा, वास्यादिवदिति । तथाऽपरे प्रतिपन्ना यथा- प्रधानादिकृतो लोकः, सम्वरजस्तमसां साम्यावस्था प्रकृतिः, सा च पुरुषार्थं प्रति प्रवर्तते, आदिग्रहणाच्च 'प्रकृतेर्महान् ततोऽहङ्कारः तस्माच गणः षोडशकः तस्मादपि पोडशकात्पञ्चभ्यः पञ्च भूतानी' त्यादिकया प्रक्रियया सृष्टिर्भवतीति, यदिवा - आदिग्रहणात्स्वभावादिकं गृह्यते, ततश्चायमर्थ:-- स्वभावेन कृतो लोकः, कण्टकादितैक्ष्ण्यवत्, तथाऽन्ये नियतिकृतो लोको मयूराङ्गरुहवदित्यादिभिः कारणैः कृतोऽयं लोको 'जीवाजीवसमायुक्तो' जीवैः- उपयोगलक्षणैः तथा अजीवैः - धर्माधर्माकाशपुद्गलादिकैः समन्वितः समुद्रधराधरादिक इति, पुनरपि लोकं विशेषयितुमाह - 'सुखम् ' आनन्दरूपं 'दुःखम्' असातोदयरूपमिति, ताभ्यां समन्वितो - युक्त इति ॥ ६ ॥ किंच- 'सयंभुणा' इत्यादि, स्वयं भवतीति स्वयम्भूः - विष्णुरन्यो वा स चैक एवादावभूत्, तत्रैकाकी रमते, द्वितीयमिष्टवान्, तञ्चिन्तानन्तरमेव द्वितीया शक्तिः समुत्पन्ना, तदनन्तरमेव जगत्सृष्टिरभूद् 'इति' एवं महर्षिणा 'उक्तम्' अभिहितम्, एवंवादि| नो लोकस्य कर्तारमभ्युपगतवन्तः । अपि च 'तेन' स्वयंभुवा लोकं निष्पाद्यातिभारभयाद्यमाख्यो मारयतीति मारो व्यधायि, तेन
Jain Education International
For Private Personal Use Only
समया
उद्देशः ३
आधाक
कर्मोपभो
गफलं
॥ ४१ ॥
१ समया ०
उद्देशः ३ लोककर्तृतानिरास:
॥ ४२ ॥
www.jainelibrary.org