________________
25
एवं तक्काइ साहिंता, धम्माधम्मे अकोविया । दुक्खं ते नाइतुझंति, सउणी पंजरं जहा ॥ २२ ॥ ॥३॥ 'एवं' पूर्वोक्तन्यायन 'तर्कया' स्वकीयविकल्पनया 'साधयन्तः' प्रतिपादयन्तो धर्म-क्षान्त्यादिके अधमें च-जीवोपमर्दापादिते पापे 'अकोविदा' अनिपुणा 'दुःखम्' असातोदयलक्षणं तद्धेतुं वा मिथ्याखाद्युपचितकर्मबन्धनं 'नातित्रोटयन्ति' अतिशयेनैतव्यवस्थित तथा ते न त्रोटयन्ति-अपनयन्तीति, अत्र दृष्टान्तमाह-यथा पञ्जरस्थः शकुनिः पञ्जरं त्रोटयितुंपञ्जरवन्धनादात्मानं मोचयितुं नालम् , एवमसावपि संसारपञ्जरादात्मानं मोचयितुं नालमिति ॥ २२ ॥ अधुना सामान्येनैकान्तवादिमतदपणार्थमाह
सयं सयं पसंसंता, गरहंता परं वयं । जे उ तत्थ विउस्संति, संसारं ते विउस्सिया ॥ २३॥ 'खक खकम्' आत्मीयमात्मीयं दर्शनमभ्युपगतं 'प्रशंसन्तो' वर्णयन्तः समर्थयन्तो वा, तथा 'गहमाणा' निन्दन्तः परकीयां वाचं, तथाहि-साङ्ख्याः सर्वस्याविर्भावतिरोभाववादिनः सर्व वस्तु क्षणिकं निरन्वयविनश्वरं चेत्येवंवादिनो बौद्धान् दूषयन्ति, ४ तेऽपि नित्यस्य क्रमयोगपद्याभ्यामर्थक्रियाविरहात् साह्यान् , एवमन्येऽपि द्रष्टच्या इति । तदेवं 'ये' एकान्तवादिनः, तुरवधारणे
भिन्नक्रमश्च, 'तत्रैव' तेप्वेवाऽऽत्मीयात्मीयेषु दर्शनेषु प्रशंसां कुर्वाणाः परवाचं च विगर्हमाणा 'विदस्यते' विद्वांस इवाऽऽचरन्ति, INIतेषु वा विशेपेणोशन्ति–खशास्त्रविपये विशिष्टं युक्तिवातं वदन्ति, ते चैवंवादिनः 'संसार' चतुर्गतिभेदेन संमृतिरूपं विवि-18 सूत्रकृताङ्गंधम्-अनेकप्रकारम् उत्-प्राबल्येन श्रिताः-संबद्धाः, तत्र वा संसारे उषिताः संसारान्तर्वतिनः सर्वदा भवन्तीत्यर्थः ॥२३॥साम्प्रतं समया० शीलाका- यदुक्तं नियुक्तिकारणोद्देशकार्थाधिकारे 'कर्म चयं न गच्छति चतुर्विधं भिक्षुसमय' इति, तदधिकृत्याह
उद्देशः २ चार्याय-1
चतुर्विधसियुतं अहावरं पुरक्खायं, किरियावाइदरिसणं । कम्मचिंतापणहाणं, संसारस्स पवडणं ॥ २४ ॥
कर्मचया
भाव: ॥३७॥
'अर्थ'त्यानन्तर्ये, अज्ञानवादिमतानन्तरमिदमन्यत् 'पुरा' पूर्वम् 'आख्यातं' कथितं, किं पुनस्तदित्याह-'क्रियावादिदर्शनं' क्रियैव-चैत्यकर्मादिका प्रधानं मोक्षाङ्गमित्येवं वदितुं शीलं येषां ते क्रियावादिनस्तेषां दर्शनम्-आगमः क्रियावादिदर्शनं, | किंभूतास्ते क्रियावादिन इत्याह-कर्मणि-ज्ञानावरणादिके चिन्ता-पर्यालोचनं कर्मचिन्ता तस्याः प्रणष्टा-अपगताः कर्मचिन्ताप्रणष्टाः, ९ यतस्ते अविज्ञानायुपचितं चतुर्विध कर्मवन्धं नेच्छन्ति अतः कर्मचिन्ताप्रणष्टाः, तेषां चेदं दर्शनं 'दुःखस्कन्धस्य' असातोदयप
रम्पराया विवर्धनं भवति, कचित्संसारवर्धनमिति पाठः, ते ह्येवं प्रतिपद्यमानाः संसारस्य वृद्धिमेव कुर्वन्ति नोच्छेदमिति ॥२४॥ 8| यथा च ते कर्मचिन्तातो नष्टास्तथा दर्शयितुमाह
जाणं काएणऽणाउद्दी, अबुहो जं च हिंसति । पुटो संवेदइ परं, अवियत्तं खु सावजं ॥ २५॥ ॥३७॥
यो हि 'जानन्' अवगच्छन् प्राणिनो हिनस्ति, कायेन चानाकुट्टी, 'कुट्ट छेदने' आकुट्टनमाकुट्टः स विद्यते यस्यासावाकुट्टी नाकुदृघनाकुट्टी, इदमुक्तं भवति-यो हि कोपादेनिमित्तात् केवलं मनोव्यापारेण प्राणिनो व्यापादयति, न च कायेन प्राण्यवयवानां छेदनभेदनादिके व्यापारे वर्तते न तस्यावा, तस्य कर्मोपचयो न भवतीत्यर्थः, तथा 'अवुधः' अजानानः कायव्यापारमात्रेण यं च हिनस्ति प्राणिनं तत्रापि मनोव्यापाराभावान्न कर्मोपचय इति, अनेन च श्लोकार्थेन यदुक्तं नियुक्तिकृता यथा-'चतुर्विधं कर्म नोप-18 चीयते भिक्षुसमय' इति, तत्र परिज्ञोपचितमविज्ञोपचिताख्यं भेदद्वयं साक्षादुपातं, शेवं खीर्यापथस्वप्नान्तिकभेदद्वयं चशब्देनोपाचं, तोरणमीर्या-गमनं तत्संबद्धः पन्था ईर्यापथस्तत्प्रत्ययं कर्मेर्यापथम् , एतदुक्तं भवति-पथि गच्छतो यथाकथञ्चिदनभिसंधेर्यत्प्राणिच्यापादनं भवति तेन कर्मणश्चयो न भवति, तथा स्वप्नान्तिकमिति-स्वप्न एव लोकोक्त्या स्वप्नान्तः स विद्यते यस्य तत्वमान्तिक, तदपि न कर्मवन्धाय, यथा स्वप्ने भुजिक्रियायां तृप्त्यभावस्तथा कर्मणोऽपीति, कथं तर्हि तेषां कर्मोपचयो भवतीति ?, उच्यते, यद्यसी हन्यमानः प्राणी भवति हन्तुश्च यदि प्राणीत्येवं ज्ञानमुत्पद्यते तथैनं हन्मीत्येवं च यदि बुद्धिः प्रादुष्ष्याद्
एतेषु च सत्सु यदि कायचेष्टा प्रवर्तते तस्यामपि यद्यसौ प्राणी व्यापाद्यते ततो हिंसा ततश्च कर्मोपचयो भवतीति, एषामन्यतलाराभावेऽपि न हिंसा, न च कर्मचयः । अत्र च पश्चानां पदानां द्वात्रिंशद्भङ्गा भवन्ति, तत्र प्रथमभङ्गे हिंसकोऽपरेष्वेकत्रिंशत्व| हिंसकः, तथा चोक्तम्-"प्राणी प्राणिज्ञानं घातकचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोगः पञ्चभिरापद्यते हिंसा ॥१॥" | किमेकान्तेनैव परिज्ञोपचितादिना कर्मोपचयो न भवत्येव ?, भवति काचिदव्यक्तमात्रेति दर्शयितुं श्लोकपश्चार्धमाह-'पुट्ठो'त्ति || | तेन केवलमनोव्यापाररूपपरिज्ञोपचितेन केवलकायक्रियोत्थेन वाऽविज्ञोपचितेनेर्यापथेन स्वप्नान्तिकेन च चतुर्विधेनापि कर्मणा । 'स्पृष्ट' ईपच्छुप्तः संस्तत्कर्माऽसौ स्पर्शमात्रेणैव परमनुभवति, न तस्याधिको विपाकोऽस्ति, कुड्यापतितसिकतामुष्टिवत्स्पर्शानन्तरमेव परिशटतीत्यर्थः, अत एव तस्य चयाभावोऽभिधीयते, न पुनरत्यन्ताभाव इति । एवं च कृखा तद् 'अव्यक्तम्' अपरिस्फुटं,
पान भवति, तथा स्वभान्तिका कर्मणोऽपीति, कथं ताः च यदि बुद्धिः प्रादुन्यात
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org