________________
प्रस्तावना
चूणिः-प्राचाराङ्गसूत्रस्य नियुक्त श्च पाचीनतमेयं व्याख्या, इयं च संस्कृतमिश्रितप्राकृतभाषायां लिखिता। यापनीयानां निर्देशः, शून्यवादिबौद्धानां' बौद्धाचार्यदिङ नागमतस्य, सांख्यकारिकादेश्वोल्लेख इत्यादि बहुतरमैतिह्योपयोग्यपि अत्र दृश्यते । अस्याः प्रकाशनम ऋषभदेवजी केसरीमलजी-रतलाम-इत्यनया संस्थया कृतमस्ति, तथापि तव पदे पदे प्रचुरा अशुद्धयो दृश्यन्ते, अतोऽस्य ग्रन्थस्य संशोधन विधाय पुनर्मुद्रणमावश्यकम् ।
टीका--ततः परं शीलाचार्यः संस्कृतभाषायां विरचिता महती वृत्तिरुपलभ्यते। सा चास्मिन् ग्रन्थे प्रकाश्यते । इमामेव महती वृत्तिमुपजीव्य कालान्तरे विरचिता दीपिकादयोऽनेकाः संक्षिप्ता वृत्तयः समुपलभ्यन्ते । बहूनां विषयाणां वादानां चाकररूपेयं वृत्तिः ।
अस्या वृत्ते रचयितणां शीलाचार्याणां 'शीलाङ्काचार्य नाम्ना प्रसिद्धिः सम्प्रति वर्तते, तथापि आचाराङ्गटीकायां पृ० 211-212 मध्ये सूत्रकृताङ्गटीकायां च पृ० 285 मध्ये 'शीलाचार्य' नाम्नैव स्वोल्लेखस्तैरेव विहित इति वयमपि 'शीलाचार्य' नाम्ना निदिशामः । तत्त्वादित्य इत्यपि तेषामपरं नाम ।
__ खंभातनगरे श्रीशान्तिनाथतालपत्रीयजनज्ञानभाण्डागारे विद्यमानायां विक्रमसंवत् १३२७ वर्षे पौषशुदि १० भौमे लिखितायां प्राचीनतरायां प्रतौ--
"शकनृपकालातीतसंवत्सरशतेषु सप्तसु चतुरशीत्यधि केषु वैशाखपञ्चम्यामाचारटीका दृब्धेति ।
१. निशीथचूणिजिनदासगणिमहत्तरविरचिता । निशीथचूर्णेः प्रारम्भे भणिया "विमुत्तिचूला अहुणावसरो णिसीहचूलाए। को संबंधो तस्सा ? भण्णइ इणमो णिसामेहि ॥४॥” इति गाथा विलोक्यते, तदनुसारेण आचाराङ्गचूणिरपि एककर्त काऽतश्च जिनदासगणिमहत्तरविरचितेति प्रतिभाति ॥
२. "आह--जइ एवं अप्प-बहु-अणु-थुल्लचेयणाचेयणदव्वादाणातो परिग्गहो भवति, तेण जे इमे सरीरमित्तपरिग्गहा पाणिपुडभोइणो ते णाम अपरिग्गहा, तं जहा--उदंडग-बोडिय-सरक्खमादि, तेसि अप्पादिपरिग्गहवियप्पा णत्थि, तं च [5]परिग्गहं भत्तं (वतं) लद्धं सेसाणि वि वयाणि तेसि भविस्संति, वतित्ते य संजमो, ततो मोक्ख इति । तं च ण भवति, जम्हा एतदेवेगेसि महब्भयं भवति। जे बोडियादि प्राउकाया रसगादि तिविहेति (आउक्काय-उद्देसिगादि गिण्हेंति ?) तेसि तदेव सरीरं महब्भयं । जे वि आउक्काय-उद्देसिगादि परिहरंति जावणिज्जाइणो ते वि अपडिलेहितं भुंजंति अपडिलेहिते य ठाणादीणि करेंति"-१४९ सूत्रस्य आचाराङ्गणिः ।
३. “अततीति अप्पा, हेउ-पच्चयसामग्गिपिब्भावेसु अहावा (= अभावा), हेतुर्वीर्य, पच्चो पाणियं भूमी आगासं कालो एवमादि, एतेहिं कुहेऊहि 'अत्थि अप्पा' एवं एगेसि णो परिण्णातं भवति”-प्रथमसूत्रस्य आचाराङ्गणिः ।
"पुन्बुत्तरविरुद्धं भासित्ता तो(ते) य विणासेंति' • • 'केति भणंति-अस्थि लोगो। णणु अत्थिमेव लोगो, तेण कहं विणासितं ? भणिज्जइ-लोगअत्थितं पति अविरोधो (धा?) नाणाविहेहि सच्छंद-विगप्पेहि विणासेंति, तंजहा--लोगो किर वामतो केसिंचि णिच्चं भवति आदिच्चे। अवट्ठियमेव तं आदिच्चमंडलं । दूरत्तानो जे पुव्वं पासंति तेसिं प्राइच्चोदयो, प्राइच्चमंडलहिट्ठियाणं मज्झण्ह (व्हं), जे तु दूरातिक्कता प्राइच्चमंडलं ण पस्संति तेसिं अत्थमियो । - - ‘णत्थि लोए त्ति वइत्तलिया पडिवन्ना, तंजहा-'गंधव्वनगरतुल्लं माताकारग हेतु-पच्चय-सामग्गिपिहब्भावेहि अभावा' एवमादि हेऊहि णत्थि लोगो पडिवज्जति । धुवो लोगो वायं वियुंजंति सत्कार्यकारणत्वात्, तेसिं ण किंचि उप्पज्जति विणस्सती वा।
असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात् कारणभावाच्च सत् कार्यम् ॥ [सांख्यकारिका ९] एगे भणंति “जातिरेव भावानां विनाशहेतु" मि (रि)ति ।"--१९९ सूत्रस्य प्राचाराङ्गचूणिः ।
हेतुप्रत्ययसामग्रीपृथग्भावेष्वभावात् सर्वभावानां शून्यत्वं विग्रहव्यावर्तन्यादौ नागार्जुनेन सिद्धान्तितम् । वैदल्यप्रकरणमपि नागार्जुनेन विरचितम् ॥
४. “प्रत्लानामप्यादर्शानामशुद्धतमत्वात् कृतेऽपि यथामति शोधने न सन्तोषः, परं प्रवचनभक्तिरसिकताप्रसारणेऽस्याः प्रयोजिकेति विद्वद्भिः शोधनीयैषा चूणिः, क्षाम्यतु चापराधं श्रुतदेवीति ।" इत्येवमाचाराङ्गचूर्णे: प्रान्ते तत्सम्पादकैः श्रीसागरानन्दसूरिपादैः स्वयमेवाभिहितम् ।।
५. खंभातनगरे श्रीशान्तिनाथतालपत्रीयजैनज्ञानभाण्डागारे विद्यमानायां विक्रमसंवत् १३२७ वर्षे लिखितायां प्रतौ "प्राचार्यश्रीसीलांगविरचितायामाचारटीकायां द्वितीयश्रुतस्कन्धः समाप्तः” [पृ० ३६६] इत्युल्लेखोपि दृश्यते, पत्तन (पाटण)नगरे विद्यमानायां संघवीपाडाजैनज्ञानभाण्डागारसत्कायां विक्रमसंवत् १४६७ वर्षे लिखितायां प्रतावपि "प्राचार्यश्रीशीलांगविरचितायामाचारटीकायां द्वितीयश्रुतस्कन्धः परिसमाप्तः" [पृ० ३६६] इति शीलांगनाम्नोऽपि उल्लेखो दृश्यते, 'शीलाचार्य'नाम्नस्तु उल्लेख उभयत्रापि वर्तत एव ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org