________________
प्रस्तावना
तुलना-आचाराङ्गसूत्रे विद्यमानाः केचन विचाराः शब्दाश्च बौद्धादिग्रन्थेष्वपि दृश्यन्ते, यथा--पृ. 11 मध्ये 'नत्थि मे आया उववाइए' इति वर्तते। बौद्धग्रन्थे दीघनिकायादौ (भाग १, पृ ४८) 'नत्थि सत्ता प्रोपपातिका' इति अजितकेशकम्बलमतं वर्णितमस्ति । पृ० 87 मध्ये 'सव्वामगंधं परिन्नाय निरामगंधो परिव्वए' इति द्वितीयाध्ययने पञ्चमोद्देशके वर्तते । बौद्धानां सुत्तपिटके सुत्तनिपाते (पृ० ३०५-३०६) प्रामगन्धसुत्तं वर्तते, तत्र पुनः पुनः 'प्रामगध' शब्दो वर्तते, 'निरामगन्ध' शब्दोऽपि वर्तते । “पामगन्धो नाम मंस-मच्छंम्” इति व्याख्यापि बुद्धघोषाचार्यविरचितायां सुत्तनिपात-अट्ठकथायां (भाग २, पृ० ४६) वर्तते । पृ० 101 मध्येऽत्र 'सुत्ता अमुणी सया मुणिणो जागरंति' इति सूत्रं वर्तते । भगवद्गीतायां “या निशा सर्वभूतानां तस्यां जागति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ।।२।६९॥” इति वर्तते । पृ० 106-107 मध्येऽत्र 'तिविज्ज' शब्दो वर्तते, वृत्तौ चूणौ च 'अतिविद्वान्' 'अतिविद्यः' इति चार्थद्वयमस्य दशितम् । वेदत्रयज्ञाता त्रैविद्य उच्यते वैदिकशास्त्रेषु । बौद्धग्रन्थे सुत्तनिपाते [पृ० २४८-२५०] तेविज्जसुत्तं वर्तते, १ पूर्वजन्मज्ञानं, २ जन्ममरणज्ञानम्, ३ अाश्रवथयज्ञानं चेति विद्यालयं तत्राभिप्रेतम्, तद्वांश्च तेविज्ज उच्यते बौद्धग्रन्थेषु ।।
१० 111 मध्ये 'दोहि वि अंतेहिं अदिस्समाणेहि' इति वर्तते, पृ. 129 मध्ये च "जस्स नत्थि पुरा पच्छा मज्झे तस्स कुप्रो सिया" इति वर्तते । तेजोबिन्दूपनिषदि "पादावन्ते च मध्ये च जनो यस्मिन्न विद्यते । येनेदं सततं व्याप्तं स देशो विजनः स्मृतः ॥ २३॥” इति वर्तते । गौडपादकारिकायाम् "प्रादावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा । २।६।” इति वर्तते । बौद्धग्रन्थे सुत्तनिपाते [पृ० ३६७] "यस्स पुरे च पच्छा च मज्झे च नत्थि किञ्चनं । अकिञ्चनं अनादानं तमहं ब्रूमि ब्राह्मणम् ॥” इति वर्तते । पृ०111 मध्ये 'से न छिज्जइ न भिज्जइ न डज्झइ न हंमइ कंचणं सव्वलोए' इति वर्तते । भगवद्गीतायामपि "न हन्यते हन्यमाने शरीरे ॥२॥२०॥'अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ॥ २॥२४॥" इत्यादि वर्तते । “न भिद्यते न दह्यते न छिद्यते न कम्पते न कुप्यते, सर्वदहनोऽयमात्मा" इति सुबालोपनिषदि नवमखण्डे दृश्यते । पु० 140 मध्येऽत्र 'पुव्वुट्ठाई पच्छानिवाई' इति वर्तते । बौद्धग्रन्थे दीघनिकायेऽपि (भाग १, पृ० ५३) 'पुब्बुट्ठायी पच्छानिपाती' इति दृश्यते। पृ० 150 मध्येऽत्र "तुमं सि नाम सच्चेव" इत्यादि सूत्रं वर्तते । छान्दोग्योपनिषदि (६।८।७।इत्यादी) "तत् त्वमसि" इति महावाक्यं वर्तते । पृ० 153 मध्ये "सव्वे सरा नियट्टति" इत्यादि सिद्धस्वरूपवर्णनमत्र वर्तते। एतेन किञ्चित् किञ्चित्तुल्यं ब्रह्मणः स्वरूपं बृहदारण्यकोपनिषदि (३।८।३) अन्यासु च केन-कठ-माण्डूक्य-तैत्तिरीयाद्युपनिषत्सु संक्षेपेण दृश्यते ।
प्राचाराङ्गसूत्रस्य व्याख्याः
नियुक्ति:--पाचाराङ्गसूत्रस्य सम्प्रति उपलभ्यमानासु व्याख्यासु चतुर्दशपूर्व विदा भगवता भद्रबाहुस्वामिना प्राकृतभाषायां विरचिता नियुक्तिः प्राचीनतमा व्याख्या । अस्याश्च परिमाणं ३६७ गाथाः । सप्तमं महापरिज्ञाध्ययनं सूत्रतो व्यवच्छिन्नम्, किंतु तस्य १८ नियुक्तिगाथाः सन्ति । तासु उपयोगिन्यः सप्तव गाथा अत्र ग्रन्थप्रान्ते [पृ०288] मुद्रिताः । गाथात्रयं पृ० 239 मध्येऽनवधानादमुद्रितम्, तदपि पृ० 320 मध्येऽस्माभिः शुद्धिपत्रके निर्दिष्टम् । क्वचिद्धस्तलिखितादर्श तु पृ० 288 इत्यत्र निर्दिष्टं “सत्तहि छहिं' इत्यादि अन्त्यं गाथाद्वयं नोपलभ्यत इत्यपि ध्येयम्।
विवरणम्--ततः परं विक्रमनपतो द्विशतवर्षेषु व्यतीतेषु गन्धहस्तिविरचितम् आचाराङ्गसूत्र विवरणमासीदिति हिमवंतथेरावलीवचनादवसीयते । शीलाचार्यस्तु आचाराङ्गसूत्रस्य प्रारम्भे [पृ० 1 पं० ४] "शस्त्रपरिज्ञाविवरणमतिबहु गहनं च गन्धहस्तिकृतम् । तस्मात् सुखबोधार्थं गृलाम्यहमञ्जसा सारम् ।।३॥” इत्युक्तम्, द्वितीयाध्ययनप्रारम्भे (पृ० 55 पं० २) च "शस्त्रपरिज्ञाविवरणमतिगहनमितीव किल वृतं पूज्यः । श्रीगन्धहस्तिमिविवृणोमि ततोऽहमवशिष्टम् ॥२॥” इत्यभिहितम्, अतः शीलाचार्यवचनानुसारेण शस्त्रपरिज्ञाख्यस्य प्रथमाध्ययनस्यैव विवरणं गन्धहस्तिना विरचितम् । यद्वा तेषां समये प्रथमाध्ययनपर्यन्तमेव गन्धहस्तिविरचितं विवरणमभूत्। सम्प्रति तु विवरणमिदं नोपलभ्यते ।
१. “आर्यरेवतीनक्षत्राणाम् आर्यसिंहाख्याः शिष्या अभूवन्, ते च ब्रह्मद्वीपिकाशाखोपलक्षिता अभूवन् । तेषामार्यसिंहानां स्थविराणां मधुमित्राऽऽयस्कन्दिलाचार्यनामानौ द्वौ शिष्यावभूताम् । आर्यमधुमित्राणां शिष्या आर्यगन्धहस्तिनोऽतीव विद्वांसः प्रभावकाश्चाभूवन् । तैश्च पूर्वस्थविरोत्तंसोमास्वातिवाचकरचिततत्त्वार्थोपरि अशीतिसहस्रश्लोकप्रमाणं महाभाष्यं रचितम् । एकादशाङ्गोपरि चार्यस्कन्दिलस्थविराणामुपरोधतस्तैविवरणानि रचितानि । यदुक्तं तद्रचिताचाराङ्गविवरणान्ते यथा--
थेरस्स महुमित्तस्स, सेहेहि तिपुव्वनाणजुत्तेहिं । मुणिगणविवंदिएहि, ववगयरागाइदोसेहिं ॥१॥
बंभद्दीवियसाहामउडेहिं गंधहत्थिविबुहेहिं । विवरणमेयं रइयं दोसयवासेसु विक्कमयो ॥२॥"-हिमवंतथेरावली । बृहत्कल्पसूत्रस्य षष्ठभागस्य प्रस्तावनायाम् आमुखे (पृ० ३-४) उद्धृतोऽयं हिमवंतर्थरावलीपाठः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org