________________
सूत्रकृताङ्ग ष्यते, तदपि न, यतो लेप्यमयप्रतिमायां समस्तभूतसद्भावेऽपि जडखमेवोपलभ्यते । तदेवमन्वयव्यतिरेकाभ्यामालोच्यमानो नायं १समयाशीला चैतन्याख्यो गुणो भूतानां भवितुमर्हति, समुपलभ्यते चायं शरीरेषु, तसात् पारिशेष्यात् जीवस्यैवायमिति खदर्शनपक्षपातं ध्ययने पचाीयवृ- विहायाङ्गीक्रियतामिति । यच्चोक्तं प्राक्-'न पृथिव्यादिव्यतिरिक्त आत्माऽस्ति, तद्ग्राहकप्रमाणाभावात् , प्रमाणं चात्र प्रत्यक्ष
रसमयेषुत्तियुत मेवैक'मित्यादि, तत्र प्रतिविधीयते--यत्तावदुक्तं 'प्रत्यक्षमेवैकं प्रमाणं नानुमानादिक'मित्येतदनुपासितगुरोर्वचः, तथाहि
चावोकः ॥१७॥
| अर्थाविसंवादकं प्रमाणमित्युच्यते, प्रत्यक्षस्य च प्रामाण्यमेवं व्यवस्थाप्यते-काश्चित्प्रत्यक्षव्यक्तीर्घमिलेनोपादाय प्रमाणयति-प्रमाणमेताः, अर्थाविसंवादकखाद्, अनुभूतप्रत्यक्षव्यक्तिवत्, न च ताभिरेव प्रत्यक्षव्यक्तिभिः खसंविदिताभिः परं व्यवहारयितुमयमीशः, तासां खसंविभिष्टखात् मूक्खाच्च प्रत्यक्षस्य, तथा नानुमानं प्रमाणमित्यनुमानेनैवानुमाननिरासं कुर्वश्चार्वाकः कथं | नोन्मत्तः स्याद् ?, एवं ह्यसौ तदप्रामाण्यं प्रतिपादयेत् यथा-नानुमानं प्रमाणं, विसंवादकखाद्, अनुभूतानुमानव्यक्तिवदिति, एत-18 चानुमानम् , अथ परप्रसिद्यैतदुच्यते, तदप्ययुक्तं, यतस्तत्परप्रसिद्धमनुमानं भवतः प्रमाणमप्रमाणं वा, प्रमाणं चेत्कथमनुमान| मप्रमाणमित्युच्यते, अथाप्रमाणं कथमप्रमाणेन सता तेन परः प्रत्याय्यते ?, परेण तस्य प्रामाण्येनाभ्युपगतखादिति चेद्, तदप्य-18 साम्प्रतं, यदि नाम परो मौढ्यादप्रमाणमेव प्रमाणमित्यध्यवस्थति, किं भवताऽतिनिपुणेनापि तेनैवासौ प्रतिपाद्यते', यो सज्ञो ॥१७॥ गुडमेव विषमिति मन्यते किं तस्य मारयितुकामेनापि बुद्धिमता गुड एव दीयते , तदेवं प्रत्यक्षानुमानयोः प्रामाण्याप्रामाण्ये व्यवस्थापयतो भवतोनिच्छतोऽपि बलादायातमनुमानस्य प्रामाण्यं । तथा खर्गापवर्गदेवतादेः प्रतिषेधं कुर्वन् भवान् केन प्रमा
प्येत प्र.। न करोति !, न तावत्प्रत्यक्षेण प्रतिषेधः कर्तुं पार्यते, यतस्तत्प्रत्यक्षं प्रवर्तमानं वा तनिषेधं विदध्याभिवर्तमानं वा, न तावप्रवर्तमानं, तस्याभावविषयखविरोधात्, नापि निवर्तमानं, यतस्तच्च नास्ति तेन च प्रतिपत्तिरित्यसंगतं, तथाहि-व्यापकविनिवृत्तौ व्याप्यस्यापि (वि)निवृत्तिरिष्यते, न चार्वाग्दर्शिप्रत्यक्षेण समस्तवस्तुव्याप्तिः संभाव्यते, तत्कथं प्रत्यक्षविनिवृत्तौ पदार्थव्यातिरिति ?, तदेवं स्वर्गादेः प्रतिषेधं कुर्वता चार्वाकणावश्यं प्रमाणान्तरमभ्युपगतं । तथाऽन्याभिप्रायविज्ञानाभ्युपगमादत्र स्पष्टमेव प्रमाणान्तरमभ्युपगतम् , अन्यथा कथं परावबोधाय शास्त्रप्रणयनमकारि चार्वाकेणेत्यलमतिप्रसङ्गेन । तदेवं प्रत्यक्षादन्यदपि प्रमाणमस्ति, तेनात्मा सेत्स्यति, किं पुनस्तदिति चेद्, उच्यते, अस्त्यात्मा, असाधारणतद्गुणोपलब्धेः, चक्षुरिन्द्रियवत् , चक्षुरिन्द्रियं हि न साक्षादुपलभ्यते, स्पर्शनादीन्द्रियासाधारणरूपविज्ञानोत्पादनशक्त्या बनुमीयते, तथाऽऽत्माऽपि पृथिव्याधसाधारणचैतन्यगुणोपलब्धरस्तीत्यनुमीयते, चैतन्यं च तस्यासाधारणगुण इत्येतत्पृथिव्यादिभूतसमुदाये चैतन्यस्य निराकृतखादवसेयं । तथा अस्त्यात्मा, समस्तेन्द्रियोपलब्धार्थसंकलनाप्रत्ययसद्भावात् , पश्चगवाक्षान्यान्योपलब्धार्थसंकलनाविधाय्येकदेवदत्तवत् , तथाऽऽत्मा अर्थद्रष्टा नेन्द्रियाणि, तद्विगमेऽपि तदुपलब्धार्थमरणात्, गवाक्षोपरमेऽपि तद्वारोपलब्धार्थसहदेवदत्तवन , तथा अर्थापत्याऽप्यात्माऽस्तीत्यवसीयते, तथाहि-सत्यपि पृथिव्यादिभूतसमुदाये लेप्यकर्मादौ न सुखदुःखेच्छाद्वेषप्रयत्नादिक्रियाणां सद्भाव इति, अतः सामर्थ्यादवसीयते-अस्ति भूतातिरिक्तः कचित्सुखदुःखेच्छादीनां क्रियाणां समवायिकारणं पदार्थः, स चात्मेति, तदेवं प्रत्यक्षानुमानादिपूर्विकाज्याऽप्यर्थापत्तिरभ्यूह्या, तस्यास्खिदं लक्षणम्-प्रमाणषटूविज्ञातो, यत्रार्थो नान्यथाभवन् । अदृष्टं कल्प
चार्वाक्दर्शित । २ संसाध्यते प्र०। सूत्रकृताङ्गं ॥ यदन्यं, सार्थापत्तिरुदाहृता ॥१॥" तथाऽगमादप्यस्तिसमवसेयं, स चायमागमः--"अस्थि मे आया उववाइए"इत्यादि ।
१ समयाशीला- यदिवा किमत्रापरप्रमाणचिन्तया १, सकलप्रमाणज्येष्ठेन प्रत्यक्षेणैवात्माऽस्तीत्यवसीयते, तद्गुणस्य ज्ञानस्य प्रत्यक्षलात् , ज्ञान- ध्ययने पचाीय- गुणस्य च गुणिनोऽनन्यसात् प्रत्यक्ष एवात्मा, रूपादिगुणप्रत्यक्षतेन पटादिप्रत्यक्षवत् , तथाहि-अहं सुख्यहं दुःख्येवमाद्य- रसमयेषु त्तियुतं हंप्रत्ययग्राह्यश्चात्मा प्रत्यक्षः, अहंप्रत्ययस्य खसंविद्रूपलादिति, ममेदं शरीरं पुराणं कर्मेति च शरीराद्भेदेन निर्दिश्यमानखाद् , इत्या- चावोकः
दीन्यन्यान्यपि प्रमाणानि जीवसिद्धावभ्यूटानीति । तथा यदुक्तं-'न भूतव्यतिरिक्तं चैतन्यं तत्कार्यवात् घटादिवदिति, एत॥१८॥
दप्यसमीचीनं, हेतोरसिद्धखात् , तथाहि-न भूतानां कार्य चैतन्यं, तेषामतद्गुणखात् भूतकार्यचैतन्ये संकलनाप्रत्ययासंभवाच, इत्यादिनोक्तप्रायम् , अतोऽस्त्यात्मा भूतव्यतिरिक्तो ज्ञानाधार इति स्थितम् ॥ ननु च किं ज्ञानाधारभूतेनात्मना ज्ञानाद्भिनेनाभितेन ?, यावता ज्ञानादेव सर्वसंकलनाप्रत्ययादिकं सेत्स्यति, किमात्मनाऽन्तर्गडुकल्पेनेति, तथाहि--ज्ञानस्यैव चिद्रूपवाद् भूतैरचेतनैः कायाकारपरिणतैः सह संबन्धे सति सुखदुःखेच्छाद्वेषप्रयत्नक्रियाः प्रादुष्ष्यन्ति तथा संकलनाप्रत्ययो भवान्तरगमनं चेति, तदेवं व्यवस्थिते किमात्मना कल्पितेनेति ?, अत्रोच्यते, न ह्यात्मानमेकमाधारभूतमन्तरेण संकलनाप्रत्ययो घटते, तथाहि-प्रत्येकमिन्द्रियैः स्वविषयग्रहणे सति परविषये चाप्रवृत्तेः एकस्य च परिच्छेत्तुरभावात् मया पश्चापि विषयाः परिच्छिना इत्यात्मकस्य
॥१८॥ संकलनाप्रत्ययस्याभाव इति, आलयविज्ञानमेकमस्तीति चेद् , एवं सत्यात्मन एव नामान्तरं भवता कृतं स्थात्, न च ज्ञानाख्यो गुणो गुणिनमन्तरेण भवतीत्यवश्यमात्मना गुणिना भाव्यमिति ॥ स च न सर्वव्यापी, तद्गुणस्य सर्वत्रानुपलभ्यमानखात्, घट१ अस्ति मे आत्मौपपातिकः ।
cepeectorcececestseeeeeeeeeeeeeeeeeeeeeest
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org