________________
सूनकृताङ्गं
शीलाङ्का
चायवृ
तियुतं ॥ १६ ॥
11
व्यज्यते, मद्याङ्गेषु समुदितेषु मदशक्तिवदिति, तथा-न भूतव्यतिरिक्तं चैतन्यं, तत्कार्यत्वात् घटादिवदिति । तदेवं भूतव्यति| रिक्त स्वाऽऽत्मनोऽभावाद्भूतानामेव चैतन्याभिव्यक्तिः, जलस्य बुद्बुदाभिव्यक्तिवदिति । केषाञ्चिल्लोका यतिकानामाकाशस्यापि भूतत्वेनाभ्युपगमाद्भूतपञ्चकोपन्यासो न दोषः येति । ननु च यदि भूतव्यतिरिक्तोऽपरः कचिदात्माख्यः पदार्थों न विद्यते, कथं तर्हि मृत इति व्यपदेश इत्याशङ्कयाह - अथैषां कायाकारपरिणतौ चैतन्याभिव्यक्तौ सत्यां तदूर्ध्वं तेषामन्यतमस्य 'विनाशे' | अपगमे वायोस्तेजसश्रो भयोर्वा 'देहिनो' देवदत्ताख्यस्य 'विनाशः' अपगमो भवति, ततश्च मृत इति व्यपदेशः प्रवर्तते, न पुनर्जीवापगम इति भूताव्यतिरिक्त चैतन्यवादिपूर्वपक्ष इति । अत्र प्रतिसमाधानार्थं निर्युक्तिकृदाह
पंच संजोए अण्णगुणाणं च चेयणाइगुणो । पंचिंदियठाणाणं ण अण्णामुणियं मुणइ अण्णो ॥ ३३ ॥ 'पञ्चानां पृथिव्यादीनां भूतानां 'संयोगे' कायाकारपरिणामे चैतन्यादिकः आदिशब्दात् भाषाचङ्क्रमणादिकश्च गुणो न भवतीति प्रतिज्ञा, अन्यादयस्त्वत्र हेतुत्वेनोपात्ताः, दृष्टान्तस्त्वभ्युह्यः, सुलभखात्तस्य नोपादानं । तत्रेदं चार्वाकः प्रष्टव्यः -यदेतद्भूतानां संयोगे चैतन्यमभिव्यज्यते तत्किं तेषां संयोगेऽपि स्वातव्य एवाऽऽहोस्वित्परस्परापेक्षया पारतत्र्ये इति १, किंचातः १, न तावत्स्वातन्त्र्ये यत आह- 'अण्णगुणाणं चेति चैतन्यादन्ये गुणा येषां तान्यन्यगुणानि, तथाहि-- आधारकाठिन्यगुणा पृथिवी द्रवगुणा आपः पतगुणं तेजः चलनगुणो वायुः अवगाहदानगुणमाकाशमिति, यदिवा प्रागभिहिता गन्धादयः पृथिव्यादीनामेकैक परिहान्याऽन्ये गुणाचैतन्यादिति, तदेवं पृथिव्यादीन्यन्यगुणानि चशब्दो द्वितीयविकल्पवक्तव्यतामूचनार्थः, | चैतन्यगुणे साध्ये पृथिव्यादीनामन्यगुणानां सतां चैतन्यगुणस्य पृथिव्यादीनामेकैकस्याप्यभावान्न तत्समुदायाच्चैतन्याख्यो गुणः
सिद्ध्यतीति, प्रयोगस्त्वत्र - भूतसमुदायः खातच्ये सति धर्मित्वेनोपादीयते, न तस्य चैतन्याख्यो गुणोऽस्तीति साध्यो धर्मः, पृथिव्यादीनामन्यगुणत्वात्, यो योऽन्यगुणानां समुदायस्तत्र तत्रापूर्वगुणोत्पत्तिर्न भवतीति, यथा सिकतासमुदाये स्निग्धगुणस्य तैलस्य नोत्पत्तिरिति, घटपटसमुदाये वा न स्तम्भाद्याविर्भाव इति, दृश्यते च काये चैतन्यं तदात्मगुणो भविष्यति न भूतानामिति । अस्मिन्नेव साध्ये हेखन्तरमाह – 'पश्चिन्दियठाणाणं'ति पञ्च च तानि स्पर्शनरसनप्राणचक्षुः श्रोत्राख्यानीन्द्रियाणि तेषां स्थानानि अवकाशास्तेषां चैतन्यगुणाभावान्न भूतसमुदाये चैतन्यम्, इदमत्र हृदयं -- लोकायतिकानां हि अपरस्य द्रष्टुरनभ्युप गमादिन्द्रियाण्येव द्रष्टृणि, तेषां च यानि स्थानानि - उपादानकारणानि तेषामचिद्रूपत्वान्न भूतसमुदाये चैतन्यमिति, इन्द्रियाणां चामूनि स्थानानि, तद्यथा - श्रोत्रेन्द्रियस्काशं सुषिरात्मकत्वात् घ्राणेन्द्रियस्य पृथिवी तदात्मकत्वात् चक्षुरिन्द्रियस्य तेजस्तद्रूपत्वात् एवं रसनेन्द्रियस्यापः स्पर्शनेन्द्रियस्य वायुरिति । प्रयोगशात्र - नेन्द्रियाण्युपलब्धिमन्ति तेषामचेतनगुणारब्धत्वात्, यद्यदचेतनगुणारब्धं तत्तदचेतनं, यथा घटपटादीनि, एवमपि च भूतसमुदाये चैतन्याभाव एव साधितो भवति । पुनर्हेलन्तरमाह'ण अण्णमुणियं मुणइ अण्णो त्ति इहेन्द्रियाणि प्रत्येकभूतात्मकानि तान्येवापरख द्रष्टुरभावाद् द्रष्टृणि, तेषां च प्रत्येकं स्वविषयग्रहणादन्यविपये चाप्रवृत्तेर्नान्यदिन्द्रियज्ञातमन्यदिन्द्रियं जानातीति, अतो मया पश्चापि विषया ज्ञाता इत्येवमात्मकः संकलनाप्रत्ययो न प्राप्नोति, अनुभूयते चायं तस्मादेकेनैव द्रष्ट्रा भवितव्यम्, तस्यैव च चैतन्यं न भूतसमुदायस्वेति, प्रयोगः पुनरेवं-न भूतसमुदाये चैतन्यं तदारब्धेन्द्रियाणां प्रत्येक विषयग्राहिले सति संकलनाप्रत्ययाभावात्, यदि पुनरन्यगृहीतमप्यन्यो गृहीयाद् देवदत्तगृहीतं यज्ञदत्तेनापि गृह्येत, न चैतद् दृष्टमिष्टं वेति । ननु च स्वातव्यपक्षेऽयं दोषः, यदा पुनः परस्परसापेक्षाणां संयोगपारतयाभ्युपगमेन भूतानामेव समुदितानां चैतन्याख्यो धर्मः संयोगवशादाविर्भवति, यथा किण्वोदकादिषु मद्याङ्गेषु समुदितेषु | प्रत्येकमविद्यमानाऽपि मदशक्तिरिति, तदा कुतोऽस्य दोषस्थावकाश इति ?, अत्रोत्तरं गाथोपात्तचशब्दाक्षिप्तमभिधीयते यत्ताव दुक्तं यथा 'भूतेभ्यः परस्परसव्यपेक्षसंयोगभाग्भ्यश्चैतन्यमुत्पद्यते, तत्र विकल्पयामः -- किम सौ संयोगः संयोगिभ्यो मित्रोऽभिन्न वा, भिन्नवेत्पष्ठभूतप्रसंगो, न चान्यत् पश्चभूतव्यतिरिक्तसंयोगाख्यभूतग्राहकं भवतां प्रमाणमस्ति, प्रत्यक्षस्यैवकस्याभ्युपगमात्, | तेन च तस्थाग्रहणात् प्रमाणान्तराभ्युपगमे च तेनैव जीवस्यापि ग्रहणमस्तु, अथ अभिन्नो भूतेभ्यो संयोगः, तत्राप्येतच्चिन्तनीयं- किं भूतानि प्रत्येकं चेतनावन्त्य चेतनावन्ति वा?, यदि चेतनावन्ति तदा एकेन्द्रियसिद्धिः, तथा (च) समुदायस्य पञ्चप्रकारचैतन्यापत्तिः, अथाचेतनानि, तत्र चोक्तो दोषो, न हि यद्यत्र प्रत्येकमविद्यमानं तत्तत्समुदाये भवदुपलभ्यते, सिक| तासु तैलवदित्यादिना । यदप्यत्रोक्तं - यथा मद्याङ्गेष्वविद्यमानाऽपि प्रत्येकं मदशक्तिः समुदाये प्रादुर्भवतीति, तदप्ययुक्तं यतस्तत्र किण्वादिषु या च यावती च शक्तिरुपलभ्यते, तथाहि-- किण्वे बुभुक्षापनयनसामर्थ्य भ्रमिजननसामर्थ्यं च उदकस्य वुडपनयनसामर्थ्यमित्यादिनेति, भूतानां च प्रत्येकं चैतन्यानभ्युपगमे दृष्टान्तदार्शन्तिकयोरसाम्यं । किंच - भूतचैतन्याभ्युपगमे मरणाभावो, मृतकायेऽपि पृथ्व्यादीनां भूतानां सद्भावात्, नैतदस्ति, तत्र मृतकाये वायोस्तेजसो वाऽभावान्मरणसद्भावः इत्यशि| क्षितस्योल्लाप:, तथाहि - मृतकाये शोफोपलब्धेर्न वायोरभावः, कोथस्य च पक्तिस्वभावस्य दर्शनान्नाग्नेरिति, अथ सूक्ष्मः कश्वि| द्वायुविशेषोऽभिर्वा ततोऽपगत इति मतिरिति एवं च जीव एव नामान्तरेणाभ्युपगतो भवति, यत्किञ्चिदेतत् । तथा न भूतसम्मुदायमात्रेण चैतन्याविर्भावः पृथिव्यादिष्वेकत्र व्यवस्थापितेष्वपि चैतन्यानुपलब्धेः अथ कायाकारपरिणतौ सत्यां तदभिव्यक्तिरि
Jain Education International
For Private Personal Use Only
१ समया ध्ययने प
रसमयेषु चार्वाकः
॥ १६ ॥
www.jainelibrary.org