________________
सूत्रकृताङ्ग शीलाङ्काचार्ययतियुतं
॥ १४ ॥
गा
शीलाङ्काचार्वीय
चियुतं
॥ १५ ॥
10
ङ्कारः, तस्माद्गणश्च षोडशकः, तस्मात्पोडशकादपि पश्च भूतानि चैतन्यं पुरुषस्य स्वरूपमित्यादि, वैशेषिकाः पुनराहुः - द्रव्यगु| णकर्मसामान्यविशेषसमवायाः षट् पदार्था इति, तथा नैयायिकाः – प्रमाणप्रमेयादीनां पदार्थानामन्वयव्यतिरेक परिज्ञानान्निःश्रेयसाधिगम इति व्यवस्थिताः, तथा मीमांसकाः - चोदनालक्षणो धर्मो, न च सर्वज्ञः कविद्विद्यते, मुक्त्यभावश्चेत्येवमाश्रिताः, चार्वाकास्त्वेवमभिहितवन्तो, यथा-नास्ति कश्चित्परलोकयायी भूतपञ्चकाव्यतिरिक्तो जीवाख्यः पदार्थो, नापि पुण्यपापे स्त इत्यादि । एवं चाङ्गीकृत्यैते लोकायतिकाः 'मानवाः' पुरुषाः 'सक्ता' गृद्धा अभ्युपपन्नाः 'कामेषु' इच्छामदनरूपेषु, तथा चोचुः - 'एतावानेव पुरुषो, यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य, यद्वदन्त्यबहुश्रुताः ॥ १ ॥ पिब खाद च साधु शोभने !, यदतीतं वरगात्रि ! तन्न ते । नहि भीरु ! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् || २ ||" एवं ते तत्रान्तरीयाः स्वस| मयार्थवासितान्तःकरणाः सन्तो भगवदर्हदुक्तं ग्रन्थार्थमज्ञातपरमार्थाः समतिक्रम्य स्वकीयेषु ग्रन्थेषु सिताः - संबंद्धाः कामेषु च सक्ता इति ॥ ६ ॥ साम्प्रतं विशेषेण सूत्रकार एव चार्वाकमतमाश्रित्याऽऽह -
संति पंच महन्भूया, इहमेगेसिमाहिया । पुढवी आउ तेऊ वा, वाउ आगासपंचमा ॥ ७ ॥ एए पंच महब्भूया, तेब्भो एगोत्ति आहिया । अह तेसिं विणासेणं, विणासो होइ देहिणो ॥८॥ 'सन्ति' विद्यन्ते महान्ति च तानि भूतानि च महाभूतानि सर्वलोकव्यापित्वान्महत्त्वविशेषणम्, अनेन च भूता
१ लोकोऽयं ।
भाववादिनिराकरणं द्रष्टव्यम्, 'इह' अस्मिन् लोके 'एकेषां' भूतवादिनाम् ' आख्यातानि' प्रतिपादितानि तत्तीर्थकृता तैर्वा भूतवादिभिर्वार्हस्पत्यमतानुसारिभिराख्यातानि – स्वयमङ्गीकृतान्यन्येषां च प्रतिपादितानि । तानि चामूनि, तद्यथा--- पृथिवी कठिनरूपा, आपो द्रवलक्षणाः, तेज उष्णरूपं, वायुश्चलनलक्षणः, आकाशं शुषिरलक्षणमिति, तच्च पञ्चमं येषां तानि तथा, एतानि साङ्गोपाङ्गानि प्रसिद्धत्वात् प्रत्यक्षप्रमाणावसेयखाच्च न कैश्विदपहोतुं शक्यानि । ननु च सापादिभिरपि भूतान्यभ्युपगातान्येव तथाहि सांख्यास्तावदेवमूचुः – सत्त्वरजस्तमोरूपात्प्रधानान्महान्, बुद्धिरित्यर्थः, महतोऽहङ्कारः - अहमितिप्रत्ययः, तस्मादप्यहङ्कारात्षोडशको गण उत्पद्यते स सायम् - पञ्च स्पर्शनादीनि बुद्धीन्द्रियाणि वाकूपाणिपादपायूपस्यरूपाणि पश्च कर्मेन्द्रियाणि, एकादशं मनः, पञ्च तन्मात्राणि, तद्यथा - गन्धरसरूपस्पर्शशब्द तन्मात्राख्यानि, तत्र गन्धतन्मात्रात्पृथिवी गन्धरसरूपस्पर्शवती, रसतन्मात्रादापो रसरूपस्पर्शवत्यः, रूपतन्मात्राचेजो रूपस्पर्शवत्, स्पर्शतन्मात्राद्वायुः स्पर्शवान्, शब्दतन्मात्रादाकाशं गन्धरसरूपस्पर्शवर्जितमुत्पद्यत इति । तथा वैशेषिका अपि भूतान्यमिहितवन्तः, तद्यथा- पृथिवीलयोगात्पृथिवी, सा च परमाणुलक्षणा नित्या, द्व्यणुकादिप्रक्रमनिष्पन्न कार्यरूपतया खनित्या, | चतुर्दशभिर्गुणै रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोग विभागपरत्वापरत्व गुरुत्वद्रवत्ववेगाख्यैरुपेता, तथाऽलयोगादापः, ताच | रूपरसस्पर्श संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वस्वाभाविक द्रवल से हवेगवत्यः, तासु च रूपं शुक्लमेव रसो मधुर एव स्पर्शः शीत एवेति, तेजस्त्वाभिसंबन्धात्तेजः, तच्च रूपस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्तनैमित्तिकद्रवत्ववे
१ आगोपालाना प्र० ।
|गाख्यैरेकादशभिर्गुणैर्गुणवत्, तत्र रूपं शुक्लं भाखरं च स्पर्श उष्ण एवेति, वायुत्वयोगाद्वायुः, स चानुष्णशीतस्पर्शसंख्या| परिमाणपृथक्त्वसंयोगविभागपरत्वापरत्ववेगाख्यैर्नवभिर्गुणैर्गुणवान् हेत्कम्पशब्दानुष्णशीतस्पर्शलिङ्गः, आकाशमिति पारिभा षिकी संज्ञा एकत्वात्तस्य, तच्च संख्यापरिमाणपृथक्त्व संयोगविभाग शब्दाख्यैः षइभिर्गुणैर्गुणवत् शब्दलिङ्गं चेति, एवमन्यैरपि | वादिभिर्भूतसद्भावाश्रमणे किमिति लोकायतिकमतापेक्षया भूतपञ्चकोपन्यास इति १, उच्यते, सांख्यादिभिर्हि प्रधानात्साहङ्कारिकं तथा कालदिगात्मादिकं चान्यदपि वस्तुजातमभ्युपेयते, लोकायतिकैस्तु भूतपञ्चकव्यतिरिक्तं नात्मादिकं किश्चिदभ्युपग| म्यते इत्यतस्तन्मताश्रयणेनैव सूत्रार्थो व्याख्यायत इति ॥ ७ ॥ यथा चैतत् तथा दर्शयितुमाह- 'एए पंच महन्भूया' इत्यादि, | 'एतानि' अनन्तरोक्तानि पृथिव्यादीनि पश्च महाभूतानि यानि 'तेभ्यः' कायाकारपरिणतेभ्यः 'एकः' कविच्चिद्रूपो भूताव्यतिरिक्त आत्मा भवति, न भूतेभ्यो व्यतिरिक्तोऽपरः कश्चित्परपरिकल्पितः परलोकानुयायी सुखदुःखभोक्ता जीवाख्यः पदार्थों|ऽस्तीत्येवमाख्यातवन्तस्ते, तथा (ते) हि एवं प्रमाणयन्ति - न पृथिव्यादिव्यतिरिक्त आत्माऽस्ति तद्ग्राहकप्रमाणाभावात्, प्रमाणं | चात्र प्रत्यक्षमेव, नानुमानादिकं, तत्रेन्द्रियेण साक्षादर्थस्य संबन्धाभावाव्यभिचारसंभवः, सति च व्यभिचारसंभवे सदृशे च बाधासं|भवे तल्लक्षणमेव दूषितं स्यादिति सर्वत्रानाश्वासः, तथा चोक्तम्- “हस्तस्पर्शादिवान्धेन, विषमे पथि धावता । अनुमानप्रधानेन, विनिपातो न दुर्लभः ॥ १ ॥" अनुमानं चात्रोपलक्षणमागमादीनामपि, साक्षादर्थसंबन्धाभावाद्धस्तस्पर्शनेनेव प्रवृत्तिरिति । तस्मात्प्रत्यक्षमेवैकं प्रमाणं तेन च भूतव्यतिरिक्तस्यात्मनो न ग्रहणं, यत्तु चैतन्यं तेषूपलभ्यते, तद्भूतेष्वेव कायाकारपरिणतेष्वभि
१ इति० प्र० हरणमित्यर्थः ।
Jain Education International
For Private Personal Use Only
१ समयाध्ययने प
रसमयेषु
चार्वाकः
॥ १४ ॥
१ समया
ध्ययने परसमयेषु चार्वाकः
9
।। १५ ।।
www.jainelibrary.org