________________
13
ORagnoracassas0000000000
तरीक्तात्माद्वैतवादोपप्रदर्शनम्
च तेषां युक्तिविकलात्माऽतिपयपमर्दनकारिणि व्यापारे निः
वत् । नापि श्यामाकतन्दुलमात्रोऽङ्गुष्ठपर्वमात्रो वा, तावन्मात्रस्योपात्तशरीराव्यापिखात् , खपर्यन्तशरीरव्यापिलेन चोपलभ्यमानगुणवात् , तमास्थितमिदम्-उपात्तशरीरखवपर्यन्तव्याप्यात्मेति । तस्य चानादिकर्मसंबद्धस्य कदाचिदपि सांसारिकस्यात्मनः स्वरूपेऽनवस्थानात् सत्यप्यमूर्तले मूर्तेन कर्मणा संबन्धो न विरुध्यते, कर्मसंबन्धाच्च सूक्ष्मबादरैकेन्द्रियद्वित्रिचतुष्पश्चेन्द्रियपर्याप्तापर्याप्ताद्यवस्था बहुविधाः प्रादुर्भवन्ति । तस्य चैकान्तेन क्षणिकत्वे ध्यानाध्ययनश्रमप्रत्यभिज्ञानाद्यभावः एकान्तनित्यत्वे च नारकतिर्यअनुष्यामरगतिपरिणामाभावः स्यात् तस्मात्स्यादनित्यः स्यानित्य आत्मेत्यलमतिप्रसङ्गेन ॥८॥ साम्प्रतमेकात्माद्वैतवादमुद्दे-18 शार्थाधिकारप्रदर्शितं पूर्वपक्षयितुमाह
जहा य पुढवीथूभे, एगे नाणाहि दीसइ । एवं भो ! कसिणे लोए, विन्नू नाणाहि दीसइ ॥९॥
दृष्टान्तबलेनैवार्थस्वरूपावगतेः पूर्व दृष्टान्तोपन्यासः, यथेत्युपदर्शने, चशब्दोऽपिशब्दार्थे, स च भिन्नक्रम एके इत्यस्यानन्तरं IS द्रष्टव्यः, पृथिव्येव स्तूपः पृथिव्या वा स्तूपः पृथिवीसंघाताख्योऽवयवी, स चैकोपि यथा नानारूपः-सरित्समुद्रपर्वतनगरसभिवे18 शापाचारतया विचित्रो रश्यते निम्नोभतमृदुकठिनरक्तपीतादिभेदेन वा रश्यते, न च तस्य पृथिवीतवस्सैतावता मेदेन भेदो
भवति, 'एवम्' उक्तरीत्या 'भो इति परामणे, कृत्स्लोऽपि लोकः-चेतनाचेतनरूप एको विद्वान् वर्तते, इदमत्र हृदयं-एक एव मान्मा विद्वान् ज्ञानपिण्डः पृथिव्यादिभूताद्याकारतया नाना दृश्यते, न च तस्यात्मन एतावताऽऽत्मतत्त्वभेदो भवति, तथा चो
तम्-"एक एव हि भूतात्मा, भूते भूते व्यवस्थितः । एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥१॥" तथा 'पुरुष एवेदं मिं| सूत्रकृताङ्गं सर्व यतं यच्च माध्यं उतामृतखस्येशानो यदभेनातिरोहति, यदेजति यजति यहरे यदु अन्तिके यदन्तरस्य सर्वस्य यत्सर्वस्यास्य
१समयाशीलाका- बाह्यतः' इत्यात्माद्वैतवादः॥९॥ अस्योत्तरदानायाह
ध्ययने चायथ
अद्वैतनित्तियुतं
__ एवमेगेत्ति जप्पंति, मंदा आरंभणिस्सिआ। एगे किच्चा सयं पावं, तिवं दुक्खं नियच्छइ ॥१०॥ राकरणं ॥१९॥
'एव'मिति अनन्तरोक्तात्माद्वैतवादोषप्रदर्शनम् 'एके' केचन पुरुषकारणवादिनो 'जल्पन्ति' प्रतिपादयन्ति, किंभूतास्ते इत्याह-'मन्दा' जडाः सम्यक्परिज्ञानविकलाः, मन्दवं च तेषां युक्तिविकलात्माऽद्वैतपक्षसमाश्रयणात् , तथाहि-यद्येक एवात्मा स्यानात्मबहुखं ततो ये सत्त्वाः-प्राणिनः कृषीवलादयः 'एके' केचन आरम्भे-प्राण्युपमर्दनकारिणि व्यापारे नि:
श्रिता-आसक्ताः संबद्धा अध्युपपन्नाः ते च संरम्भसमारम्भारम्भैः कृत्वा' उपादाय 'वयम्' आत्मना 'पापम्' अशुभप्रकृतिरू18 पमसातोदयफलं तीव्रदुःखं तदनुभवस्थानं वा नरकादिकं नियच्छतीति, आर्षवादहुवचनार्थे एकवचनमकारि, ततश्चायमों-नि
श्वयेन यच्छन्त्यवश्यंतया गच्छन्ति-प्राप्नुवन्ति त एवारम्भासक्ता नान्य इति, एतन्न स्याद्, अपि खेकेनापि अशुभे कर्मणि कृते ९ सर्वेषां शुभानुष्ठायिनामपि तीव्रदुःखाभिसंबन्धः स्याद् , एकखादात्मन इति, न चैतदेवं दृश्यते, तथाहि-य एव कश्चिदसमञ्जसकारी स एव लोके तदनुरूपा विडम्बनाः समनुभव पलभ्यते नान्य इति, तथा सर्वगतखे आत्मनो बन्धमोक्षाघभावः तथा प्रतिपाद्यप्रतिपादकविवेकाभावाच्छास्त्रप्रणयनाभावश्च स्यादिति । एतदर्थसंवादितात्प्राक्तन्येव नियुक्तिकृद्गाथात्र व्याख्यायते, तद्यथा-पश्चानां पृथिव्यादीनां भूतानामेकत्र कायाकारपरिणतानां चैतन्यमुपलभ्यते, यदि पुनरेक एवात्मा व्यापी स्वात्तदा
पटादिष्वपि चैतन्योपलब्धिः स्यात् , न चैवं, तसाक आत्मा, भूतानां चान्यान्यगुणवं न साद् , एकसादात्मनोऽभिन्नखात्,81 1 तथा पञ्चेन्द्रियस्थानानां-पञ्चेन्द्रियाश्रितानां ज्ञानानी प्रवृत्तौ सत्यामन्येन ज्ञाखा विदितमन्यो न जानातीत्येतदपि न स्याद्योक । एवात्मा स्यादिति ॥ १०॥ साम्प्रतं तज्जीवतच्छरीरवादिमतं पूर्वपक्षयितुमाह
पत्तेअं कसिणे आया, जे बाला जे अ पंडिआ। संति पिञ्चा न ते संति, नत्थि सत्तोववाइया ॥११॥ तजीवतच्छरीरवादिनामयमभ्युपगमः-यथा पञ्चभ्यो भूतेभ्यः कायाकारपरिणतेभ्यश्चैतन्यमुत्पद्यते अभिव्यज्यते वा, तेनैकैक शरीरं प्रति प्रत्येकमात्मानः 'कृत्लाः सर्वेऽप्यात्मान एवमवस्थिताः, ये 'बाला' अज्ञाये च 'पण्डिताः' सदसद्विवेकज्ञास्ते सर्वे पृथग् व्यवस्थिताः, नोक एवात्मा सर्वव्यापिलेनाभ्युपगन्तव्यो, बालपण्डिताद्यविभागप्रसङ्गात् , ननु प्रत्येकशरीराश्रयखेनात्मबहुखमाईतानामपीष्टमेवेत्याशवाह-'सन्ति' विद्यन्ते यावच्छरीरं विद्यन्ते तदभावे तु न विद्यन्ते, तथाहि-कायाकारपरिणतेषु | भूतेषु चैतन्याविर्भावो भवति, भूतसमुदायविघटने च चैतन्यापगमो, न पुनरन्यत्र गच्छच्चैतन्यमुपलभ्यते, इत्येतदेव दर्शयति"पिच्चा न ते संतीति 'प्रेत्य' परलोके न 'ते' आत्मानः 'सन्ति' विद्यन्ते, परलोकानुयायी शरीराद्भिः स्वकर्मफलभोक्ता न कश्चिदात्माख्यः पदार्थोऽस्तीति भावः । किमित्येवमत आह–'नथि सत्तोववाइया' अस्तिशब्दस्तिङन्तप्रतिरूपको निपातो बहुवचने द्रष्टव्यः, तदयमर्थ:-'न सन्ति' न विद्यन्ते 'सत्त्वा' प्राणिन उपपातेन निवृत्ता औपपातिका-भवाद्भवान्तरगामिनो न १विचटने प्र.। २० पलक्ष्यते प्र.।
-18
॥१९॥
ते संतीति भात, भूतसम्बदाय विघटन च बावच्छरीरं विद्यन्ते तदभावभागार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org