________________
287
15%
AISHAHAHAHAHAHAHAHAHA
तमित्थंभूतं भिक्षु 'नरा': मिथ्यादृष्टयः पापोपहतात्मानः 'वाग्भिः' असभ्यालापैः 'तुदन्ति' व्यथन्ते, पीडामुत्पादयन्तीत्यर्थः, तथा लोष्टप्रहारादिभिरभिद्रवन्ति च, कथमिति दृष्टान्तमाह-शरैः सङ्ग्रामगतं कुञ्जरमिव ॥ २॥ अपिच| तहप्पगारेहिं जणेहिं हीलिए, ससइफासा फरुसा उईरिया । तितिक्खए नणि अदुढचेयसा, गिरिव्व वारण न संपवेयए ॥ ३ ॥ | 'तथाप्रकारैः' अनार्यप्रायैर्जनैः 'हीलितः' कदर्थितः, कथं ?, यतस्तैः परुषास्तीवाः सशब्दाः-साक्रोशाः स्पर्शाः-शीतो६ ष्णादिका दुःखोसादका उत्-प्राबल्येनेरिता-जनिताः कृता इत्यर्थः, तांश्च स मुनिरेवं हीलितोऽपि 'तितिक्षते' सम्यक्
सहत, यतोऽसौ 'ज्ञानी' पूर्वकृतकर्मण एवायं विपाकानुभव इत्येवं मन्यमानः, 'अदुष्टचेताः' अकलुषान्तःकरणः सन् 'न तैः संप्रवेपते' न कम्पते गिरिरिव वातेनेति ॥ ३ ॥ अधुना रूप्यदृष्टान्तमधिकृत्याह। उवेहमाणे कुसलेहिं संवसे, अकंतदुक्खी तसथावरा दुही । अल्सए सव्वसहे महामुणी, तहा हि से सुस्समणे समाहिए ॥४॥ 'उपेक्षमाणः'परीषहोपसर्गान् सहमान इष्टानिष्टविषयेषु वोपेक्षमाणो-माध्यस्थ्यमवलम्बमानः 'कुशलैः' गीतार्थैः सह संवसेदिति, कथम् ?, अकान्तम्-अनभिप्रेतं दुःखम्-असातावेदनीयं तद्विद्यते येषां त्रसस्थावराणां तान् दुःखिनस्त्रसस्थावरान् 'अलूपयन्' अपरितापयन पिहिताश्रवद्वार:पृथ्वीवत् 'सर्वसहः' परीषहोपसगेसहिष्णुः 'महामुनिः' सम्यग्जगप्रयस्वभाववेत्ता तथा यसौ सुश्रमण इति समाख्यातः॥४॥ किश्चविऊ नए धम्मपये अणुत्तरं, विणीयतण्हस्स मुणिस्स झायओ । समाहियस्सऽग्गिसिहा व तेयसा, तबो य पन्ना य जसो य वडा ॥५॥ 'विद्वान' कालज्ञः 'नतः' प्रणतः प्रहा, किं तत्-'धर्मपद' क्षान्त्यादिकं, किंभूतम्-'अणुत्तर' प्रधानमित्यर्थः,
श्रुतस्क०३ चूलिका ४ | विमुसत्य.
॥४३०॥
श्रीआचा- तस्य चैवंभूतस्य मुनेविंगततृष्णस्य ध्यायतो धर्मध्यानं 'समाहितस्य' उपयुक्तस्याग्निशिखावत्तेजसा ज्वलतस्तपः प्रज्ञा यशश्च राजवृत्तिः वर्द्धत इति ॥५॥ तथा(शी०) दिसोदिसंऽणंतजिणेण ताइणा, महव्वया खेमपया पवेइया । महागुरू निस्सयरा उईरिया, तमेव तेउत्तिविसं पगासगा ॥ ६ ॥
"दिशोदिशमिति सर्वास्वप्येकेन्द्रियादिषु भावदिक्षु 'क्षेमपदानि' रक्षणस्थानानि 'प्रवेदितानि' प्ररूपितानि, अनन्त॥४३०॥
श्चासौ ज्ञानात्मतया नित्यतया वा जिनश्च-रागद्वेषजयनादनन्तजिनस्तेन, किंभूतानि व्रतानि?-'महागुरूणि' कापुरुषै
वहत्वात् 'निःस्वकराणि' स्वं-कर्मानादिसम्बन्धात्तदपनयनसमर्थानि निःस्वकराणि 'उदीरितानि' आविष्कृतानि तेजस इव तमोऽपनयनात्रिदिशं प्रकाशकानि, यथा तेजस्तमोऽपनीयोर्ध्वाधस्तिर्यक् प्रकाशते एवं तान्यपि कर्मतमोऽपनयनहे-| तुत्वात्रिदिशं प्रकाशकानीति ॥ ६॥ मूलगुणानन्तरमुत्तरगुणानिधित्सयाऽऽहसिएहिं भिक्खू असिए परिवए, असजमित्थीसु चइज पूयणं । अणिस्सिओ लोगमिणं तहा परं, न मिजई कामगुणेहिं पंडिए ॥ ७॥ सिताः-बद्धाः कर्मणा गृहपाशेन रागद्वेषादिनिबन्धनेन वेति गृहस्था अन्यतीर्थिका वा तैः 'असितः' अबद्धः-तैः सार्द्ध सङ्गमकुर्वन् भिक्षुः 'परिव्रजेत्' संयमानुष्ठायी भवेत् , तथा स्त्रीषु 'असजन्' सङ्गमकुर्वन् पूजनं त्यजेत्-न सत्काराभिलाषी भवेत् , तथा 'अनिश्रितः' असंबद्धः 'इहलोके' अस्मिन् जन्मनि तथा 'परलोके' स्वर्गादाविति, एवंभूतश्च 'कामगुणैः' मनोज्ञशब्दादिभिः 'न मीयते' न तोल्यते न स्वीक्रियत इतियावत् 'पण्डितः' कटुविपाककामगुणदर्शीति ॥७॥
तहा विमुक्कस्स परिनचारिणो, धिईमओ दुक्खखमस्स भिक्खुणो। विसुज्झई जंसि मलं पुरेकडं, समीरियं रुप्पमलं व जोइणा ॥८॥ 4 तथा' तेन प्रकारेण मूलोत्तरगुणधारित्वेन विमुको-निसङ्गस्तस्य, तथा परिज्ञान परिज्ञा-सदसद्विवेकस्तया चरितुं
शीलमस्पेति परिज्ञाचारी-ज्ञानपूर्व क्रियाकारी तस्य, तथा धृतिः-समाधानं संयमे यस्य स धृतिमांस्तस्य, दुःखम्-असातावेदनीयोदयस्तदुदीर्ण सम्यक् क्षमते-सहते, न वैक्लव्यमुपयाति नापि तदुपशमार्थ वैद्यौषधादि मृगयते, तदेवंभूतस्य भिक्षोः पूर्वोपात्तं कर्म 'विशुध्यति' अपगच्छति, किमिव ?-'समीरित' प्रेरितं रूप्यमलमिव 'ज्योतिषा' अग्निनेति ॥८॥ का साम्प्रतं भुजङ्गत्वगधिकारमधिकृत्याह- .
से हु परिनासमयंमि वट्टई, निराससे उबरय मेहुणा परे । भुयंगमे जुन्नतयं जहा चए, विमुचई से दुहसिज्ज माहणे ॥ ९॥ । 'स' एवंभूतो भिक्षुर्मूलोत्तरगुणधारी पिण्डैषणाध्ययनार्थकरणोयुक्तः परिज्ञासमये वर्तते, तथा 'निराशंसः' ऐहिकामुष्मिकाशंसारहितः, तथा मैथुनादुपरतः, अस्य चोपलक्षणत्वादपरमहाव्रतधारी च, तदेवंभूतो भिक्षुर्यथा सर्पः कञ्चक मुक्त्वा निर्मलीभवति एवं मुनिरपि 'दुःखशय्यातः' नरकादिभवाद्विमुच्यत इति ॥ ९॥ समुद्राधिकारमधिकृत्याह__जमाहु ओहं सलिलं अपारयं, महासमुई व भुयाहि दुत्तरं । अहे य णं परिजाणाहि पंडिए, से हु मुणी अंतकडेत्ति वुई ।। १०॥
'' संसारं समुद्रमिव भुजाभ्यां दुस्तरमाहुस्तीर्थकृतो गणधरादयो वा, किम्भूतम् ?-ओघरूपं, तत्र द्रव्यौपः सलिल४ प्रवेशो भावीघ आम्रवद्वाराणि, तथा मिथ्यात्वाद्यपारसलिलम्, इत्यनेनास्य दुस्तरत्वे कारणमुक्तम्, अथैनं संसार
समुद्रमेयंभूतं ज्ञपरिज्ञया सम्यग् जानीहि प्रत्याख्यानपरिज्ञया तु परिहर 'पण्डितः' सदसद्विवेकज्ञः, स च मुनिरेवंभूतः 4 कर्मणोऽस्तकृदुच्यते ॥१०॥ अपिच
NCAKACAGABA%**%%%%A4%AC%AR
X
X+%A4%82+%E
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org