________________
286
श्रीआचा- न त्वसमितो भवेत् , किमिति !, यतः केवली यात्कर्मोपादानमेतद् , गमनक्रियायामममितो हि प्राणिनः ‘अभिहन्यात् श्रुतस्कं०२ राङ्गवृत्तिः जापादेन ताडयेत्, तथा 'वर्त्तयेत्' अन्यत्र पातयेत् , तथा 'परितापयेत्' पीडामुत्पादयेत् , 'अपद्रापयेद्वा' जीविताव्यप- चूलिका ३ (शी०)
रोपयेदित्यत ईर्यासमितेन भवितव्यमिति प्रथमा भावना, द्वितीयभावनायां तु मनसा दुप्पणिहितेन न भाव्यं, तद्दर्श- भावनाध्य
यति-यन्मनः 'पापक' सावधं सक्रियम् 'अण्हयकर'ति कर्माश्रवकारि, तथा छेदनभेदनकर अधिकरणकरं कलहकरं । ॥४२८॥
प्रकृष्टदोषं प्रदोषिकं तथा प्राणिनां परितापकारीत्यादि न विधेयमिति, अथापरा तृतीया भावना-दुष्प्रसक्ता या वाक् प्राणिनामपकारिणी सा नाभिधातव्येति तात्पर्यार्थः, तथा चतुर्थी भावना-आदानभाण्डमात्रनिक्षेपणासमितिः, तत्र च निर्ग्रन्थेन साधुना समितेन भवितव्यमिति, तथाऽपरा पञ्चमी भावना-'आलोकित' प्रत्युपेक्षितमशनादि भोक्तव्यं, तदकरणे दोषसम्भवादिति, इत्येवं पञ्चभिर्भावनाभिः प्रथमं व्रतं स्पर्शितं पालितं तीर्ण कीर्तितमवस्थितमाज्ञयाऽऽराधितं भवतीति । द्वितीयव्रतभावनामाह, तत्र प्रथमेयम्-अनुविचिन्त्य भाषिणा भवितव्यं, तदकरणे दोष सम्भवात् , द्वितीय भावनायां तु क्रोधः सदा परित्याज्यो, यतः क्रोधान्धो मिथ्याऽपि भाषत इति, तृतीयभावनायां तु लोभजयः कर्त्तव्यः, तस्यापि मृषावादहेतुत्वादिति हृदयम्, चतुर्थ्यां पुनर्भयं त्याज्यं, पूर्वोक्तादेव हेतोरिति, पञ्चमभावनायां तु हास्यमिति, एवं पञ्चभिर्भावनाभिर्यावदाज्ञयाऽऽराधितं भवतीति । तृतीयव्रते प्रथमभावनेषा-अनुविचिन्त्य शुद्धोऽवग्रहो याचनीय इति, द्वितीयभाषना त्याचार्यादीननुज्ञाप्य भोजनादिक विधेयम्, तृतीया त्वेषा-अवग्रहं गृह्णता निर्ग्रन्थेन साधुना | ॥४२८॥ परिमित एवावग्रहो ग्राह्य इति, चतुर्थभावनायां तु 'अभीक्ष्णम्' अनवरतमवग्रहपरिमाणं विधेयमिति, पञ्चम्यां त्वनविचिन्त्य मितमवग्रहं साधर्मिकसम्बन्धिनं गृह्णीयात् , इत्येवमाज्ञया तृतीयव्रतमाराधितं भवतीति । चतुर्थव्रते प्रथमेयम्-स्त्रीणां सम्बन्धिनी कथां न कुर्यात् , द्वितीयायां तु तदिन्द्रियाणि मनोहारीणि नालोकयेत् , तृतीयायां तु पूर्वक्रीडितादि न स्मरेत्, चतुर्थी नातिमात्रभोजनपानासेवी स्यात् , पञ्चम्यां तु स्त्रीपशुपण्डकविरहितशय्याऽवस्थानमिति । पञ्चमवतभावना पुनरेषा-श्रोत्रमाश्रित्य मनोज्ञान् शब्दान् श्रुत्वा न तत्र गाय विदध्यादिति, एवं द्वितीयतृतीयचतुर्थपश्चमभावनासु यथाक्रम रूपरसगन्धस्पर्शेषु गार्य न कार्यमिति, शेष सुगम यावदध्ययनं समाप्तमिति ॥ भावनाख्य पञ्चदशमध्ययनं । तृतीया चूडा समाप्तेति ॥२-३-१५।
उक्तं तृतीयचूडात्मक भावनाख्यमध्ययनं, साम्प्रतं चतुर्थचूडारूपं विमुक्त्यध्ययनमारभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरं महावतभावनाः प्रतिपादिताः तदिहाप्यनित्यभावना प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतमर्थाधिकारं दर्शयितुं नियुक्तिकृदाह
अणिचे पव्वए रुप्पे भुयगस्स तहा (या) महासमुद्दे य। एए खलु अहिगारा अज्झयणंमी विमुत्तीए ३४२ अस्याध्ययनस्यानित्यत्वाधिकारः तथा पर्वताधिकारः पुना रूप्याधिकारः तथा भुजगत्वगधिकार एवं समुद्राधिकारश्च, इत्येते पश्चार्थाधिकारास्तांश्च यथायोग सूत्र एव भणिष्याम इति ॥ नामनिष्पन्ने तु निक्षेपे विमुक्तिरिति नाम, अस्य च नामादिनिक्षेपः उत्तराध्ययनान्तःपातिविमोक्षाध्ययनवदित्यतिदेष्टं नियंक्तिकार आह
श्रीआचाराजवृत्तिः (शी०)
॥४२९॥
जो चेव होइ मुक्खो सा उ विमुसि पगयं तु भावेणं । देसविमुक्का साहू सवविमुक्का भवे सिद्धा ३४३ श्रुतस्कं०२ चएवं मोक्षः सैव विमुक्तिः, अस्याश्च मोक्षवनिक्षेप इत्यर्थः, प्रकृतम्-अधिकारो भावविमुक्त्येति, भावविमुक्तिस्तु । चूलिका ४ देशसर्वभेदावधा, तत्र देशतः साधूनां भवस्थकेवलिपर्यन्तानां, सर्वविमुक्तास्तु सिद्धा इति, अष्टविधकर्मविघटनादिति ॥ | विमुक्त्य. सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम्
अणिश्चमावासमुर्विति जंतुणो, पलोयए सुश्चमिणं अणुत्तरं । विउसिरे विन्नु अगारबंधणं, अभीरु आरंभपरिग्गहं चए ॥ १॥ । ___ आवसन्त्यस्मिन्नित्यावासो-मनुष्यादिभवस्तच्छरीरं वा तमनित्यमुप-सामीप्येन यान्ति-गच्छन्ति जन्तवः-प्राणिन इति, चतसृष्वपि गतिषु यत्र यत्रोपद्यन्ते तत्र तत्रानित्यभावमुपगच्छन्तीत्यर्थः, एतच्च मौनीन्द्रं प्रवचनमनुत्तरं श्रुत्वा 'प्रलोकयेत्' पर्यालोचयेद्, यथैव प्रवचनेऽनित्यत्वादिकमभिहितं तथैव लक्ष्यते-दृश्यते इत्यर्थः, एतच्च श्रुत्वा प्रलोक्य |च विद्वान् 'व्युत्सृजेत्' परित्यजेत् 'अगारबन्धन' गृहपाशं पुत्रकलबधनधान्यादिरूपं, किम्भूतः सन् ? इत्याह'अभीरुः' सप्तप्रकारभयरहितः परीषहोपसर्गाप्रधृष्यश्च 'आरम्भ' सावद्यमनुष्ठानं परिग्रहं च सबाह्याभ्यन्तरं त्यजेदिति ॥१॥ साम्प्रतं पर्वताधिकारे,
तहागयं भिक्खुमणंतसंजय, अणेलिसं विन्नु चरंतमेसणं । तुदंति वायाहि अभिहवं नरा, सरेहिं संगामगयं व कुंजरं ॥२॥ __ तथाभूतं साधुम्-अनित्यत्वादिवासनोपेतं व्युत्सृष्टगृहबन्धनं त्यक्तारम्भपरिग्रह, तथाऽनन्तेष्वेकेन्द्रियादिषु सम्यम्
॥४२९॥ यतः संयतस्तम् 'अनीदृशम्' अनन्यसदृशं 'विद्वांसं' जिनांगमगृहीतसारम् 'एषणायां चरन्त' परिशुद्धाहारादिना वर्तमानं,
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org