SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ 280 यी AMANAKAMAK- 441 ko+CCORAKAR श्रीआचा-1 तत्र ज्ञानस्य भावना ज्ञानभावना-एवंभूतं मौनीन्द्रं ज्ञानं प्रवचनं यथाऽवस्थिताशेषपदार्थाविर्भावकमित्येवंरूपेति, श्रुतस्कं०२ राङ्गदृत्तिः अनया च प्रधानमोक्षाङ्गं सम्यक्त्वमाधिगमिकमाविर्भवति, यतस्तत्त्वार्थश्रद्धानं सम्यग्दर्शनं, तत्त्वं च जीवाजीवादयो नवचूलिका ३ पदार्थाः, ते च तत्त्वज्ञानार्थिना सम्यग् ज्ञातव्याः, तत्परिज्ञानमिहैव-आर्हते प्रवचने दृष्टम्-उपलब्धमिति, तथेहैव-आर्हतेभावनाध्य. प्रवचने कार्य-परमार्थरूपं मोक्षाख्यं तथा करणं-क्रियासिद्धौ प्रकृष्टोपकारकं सम्यग्दर्शनज्ञानचारित्राणि, कारका-साधुः। सम्यग्दर्शनाद्यनुष्ठाता, क्रियासिद्धिश्च-इहैव मोक्षावाप्तिलक्षणा, तामेव दर्शयति-बन्धः-कर्मबन्धनं तस्मान्मोक्षः कर्मविचटनलक्षणः, असावपीहैव, नान्यत्र शाक्यादिकप्रवचने भवति, इत्येवं ज्ञानं भावयतो ज्ञानभावना भवतीति ॥ तथा 'बद्धः' अष्टप्रकारकर्मपुद्गलैः प्रतिप्रदेशमवष्टब्धो जीवः, तथा 'वन्धहेतवः' मिथ्यात्वाविरतिप्रमादकपाययोगाः तथा बन्धनम्-अष्टप्रकारकर्मवर्गणारूपं तत्फलं-चतुर्गतिसंसारपर्यटनसातासाताद्यनुभवनरूपमिति, एतत्सर्वमत्रैव सुकथितम् , अन्यद्वा यत्किञ्चित्सुभाषितं तदिहैव प्रवचनेऽभिहितमिति ज्ञानभावना, तथा विचित्रसंसारप्रपञ्चोऽत्रैव जिनेन्द्रैः कथित इति ॥ तथा ज्ञानं मम विशिष्टतरं भविष्यतीति ज्ञानभावना विधेया, ज्ञानमभ्यसनीयमित्यर्थः, आदिग्रहणादेकाग्रचित्ततादयो गुणा भवन्तीति, तथैतदपि ज्ञाने भावनीयं, यथा-"जं अन्नाणी कम खवेइ" इत्यादि, तथैभिश्च कारणैर्तानमभ्यसनीयं, तद्यथा-ज्ञानसङ्ग्रहार्थं निजेरार्थम् अव्यवच्छित्त्यर्थ स्वाध्यायार्थमित्यादि, तथा ज्ञानभावनया नित्यं गुरुकुलवासो भवति, तथा चोक्तम्-"णाणस्स होइ भागी थिरयरओ दंसणे चरित्ते य । धन्ना आवकहाए गुरुकुल ॥४१९॥ वासं न मुञ्चन्ति ॥१॥", इत्यादिका ज्ञानविषया भावना भवतीति ॥ चारित्रभावनामधिकृत्याह १ ज्ञानस्य भवति भागो स्थिरतरो दर्शने चारित्रे च । धन्या यावत्कथं गुरुकुलवासं न मुशन्ति ॥१॥ साहमाहिंसाधम्मो सच्चमदत्तविरई य बंभं च । साहु परिग्गहविरई साहु तवो बारसंगो य ॥ ३३८ ॥ वेरग्गमप्पमाओ एगत्ता (ग्गे) भावणा य परिसंगं । इय चरणमणुगयाओ भणिया इत्तो तवो वुच्छं ॥३३९॥ साधु-शोभनोऽहिंसादिलक्षणो धर्म इति प्रथमव्रतभावना, तथा सत्यमस्मिन्नेवाहते प्रवचने साधु-शोभनं नान्यत्रेति द्वितीयत्रतस्य, तथाऽदत्तविरतिश्चात्रैव साध्वीति तृतीयस्य, एवं ब्रह्मचर्यमप्यत्रैव नवगुप्तिगुप्तं धार्यत इति, तथा परिग्रहविरतिश्चेहैव साध्वीति, एवं द्वादशाङ्गं तप इहैव शोभनं नान्यत्रेति ॥ तथा वैराग्यभावना-सांसारिकसुखजुगुप्सारूपा, एवमप्रमादभावना-मद्यादिप्रमादानां कर्मबन्धोपादानरूपाणामनासेवनरूपा, तथैकाग्रभावना-"एको मे सासओ अप्पा, णाणदंसणसंजुओ । सेसा मे बहिरा भावा, सब्वे संजोगलक्खणा ॥१॥" इत्यादिका भावनाः (इति प्रकृष्टमृषित्वाङ्गं) 'चरणमुपगताः' चरणाश्रिताः, इत ऊर्ध्व तपोभावनां 'वक्ष्ये' अभिधास्य इति ॥ किह मे हविजऽवंझो दिवसो? किंवा पर तवं का?। को इह दवे जोगो खिसे काले समयभावे ? ॥३४॥ _ 'कथं' केन निर्विकृत्यादिना तपसा मम दिवसोऽवन्ध्यो भवेत् ! कतरद्वा तपोऽहं विधातुं 'प्रभुः शक्तः, तच्च कतरत्तपः कस्मिन् द्रव्यादी मम निर्वहति ? इति भावनीयं, तत्र द्रव्ये उत्सर्गतो वल्लचणकादिके क्षेत्रे स्निग्धरूक्षादौ काले शीतोष्णादौ भावेऽग्लानोऽहमेवंभूतं तपः कर्तुमलम् , इत्येवं द्रव्यादिकं पर्यालोच्य यथाशक्ति तपो विधेयं "शक्तितसत्यागतपसी” (तत्त्वार्थे अ०६ सू० २३ दर्शन०) इति वचनादिति ॥ किञ्च १ एको मे शाश्वत आत्मा ज्ञानदर्शनसंयुतः । शेषा मे बाह्या भावाः सर्वे संयोगलक्षणाः ॥ १ ॥ श्रीआचा- उच्छाहपालणाए इति (एव) तवे संजमे य संघयणे । वेरग्गेऽणिचाई होइ चरित्ते इहं पगयं ॥ ३४१॥ श्रुतस्कं०२ रामवृत्तिः तथाऽनशनादिके तपस्यनिगूहितबल पीर्येणोत्साहः कर्त्तव्यः, गृहीतस्य च प्रतिपालनं कर्त्तव्यमिति, उक्तश्च-"तित्थ- चूलिका ३ (शी०) दयरो चउनाणी सुरमहिओ सिज्झिअव्वयधुवम्मि । अणिगूहिअबलविरिओ सव्वत्थामेसु उजमइ ॥१॥ किं पुण अव- भावनाध्य. सेसेहिं दुक्खक्खयकारणा सुविहिएहिं । होइन उज्जमिअव्वं सपच्चवायमि माणुस्से? ॥२॥” इत्येवं तपसि भावना वि-1 ॥४२०॥ धेया । एवं 'संयम' इन्द्रियनोइन्द्रियनिग्रहरूपे, तथा 'संहनने वज्रर्षभादिके तपोनिर्वाहनासमर्थे भावना विधेयेति, वैराग्यभावना त्वनित्यत्वादिभावनारूपा, तदुक्तम्-"भावयितव्यमनित्यत्व १ मशरणत्वं २ तथैकता ३ ऽन्यत्वे ४ । अशुचित्वं ५ संसारः ६ कर्माश्रव ७ संवर ८ विधिश्च ॥१॥ निर्जरण ९ लोकविस्तर १० धर्मस्वाख्याततत्त्वचिन्ता च ११॥ वोधेः सुदुर्लभत्वं च १२ भावना द्वादश विशुद्धाः॥२॥” इत्यादिका अनेकप्रकारा भावना भवन्तीति, इह पुनश्चारित्रे| प्रकृतं-चरित्रभावनयेहाधिकार इति ॥ नियुक्त्यनुगमानन्तरं सूत्रमुच्चारणीयं, तच्चेदम् तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पंचहत्थुत्तरे यावि हुत्था, तंजहा-हत्युत्तराई चुए चइत्ता गम्भं वकंते हत्थुत्तराहिं गम्भाओ गम्भं साहरिए हत्थुत्तराहिं जाए हत्थुत्तराहिं मुंडे भवित्ता अगागओ अणगारियं पव्वइए हत्थुत्तराहिं कसिणे ... पडिपुन्ने अब्बाधाए निरावरणे अणंते अणुत्तरे केवलवरनाणदंसणे समुप्पन्ने, साइणा भगवं परिनिव्वुए। (सू० १७५) ॥४२०। १ तीर्थंकरस्तुशांनी मुरमहितो धुवे सेधितव्ये । अनिगूहितबलवीर्यः सर्वस्थाम्नोद्यच्छति ॥१॥कि पुनरवशेषैर्दुःखक्षयकारणात सुविहितैः । भवति नोद्यमितव्यं सप्रत्यपाये मानुष्ये ॥ २ ॥ SALOCALC % Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy