________________
279
अथ भावनाख्या तृतीया चूलिका । उक्ता द्वितीया चूला, तदनन्तरं तृतीया समारभ्यते, अस्याश्चायमभिसम्बन्धः-इहादितः प्रभृति येन श्रीवर्धमानस्वामिनेदमर्थतोऽभिहितं तस्योपकारित्वात्तद्वक्तव्यतां प्रतिपादयितुं तथा पञ्चमहाव्रतोपेतेन साधुना पिण्डशय्यादिकं ग्राह्यमतस्तेषां महाव्रतानां परिपालनार्थ भावनाः प्रतिपाद्या इत्यनेन सम्बन्धेनायातेयं चूडेति, अस्याश्चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽयमर्थाधिकारः, तद्यथा-अप्रशस्तभावनापरित्यागेन प्रशस्ता भावना भावयितव्या इति, नामनिष्पन्ने निक्षेपे भावनेति नाम, तस्याश्च नामादि चतुर्विधो निक्षेपः, तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यादिनिक्षेपार्थ नियुक्तिकृदाह
दव्वं गंधंगतिलाइएम सीउण्हविसहणाईसु । भावंमि होइ दुविहा पसत्य तह अप्पसत्था य ॥ ३२७॥
तत्र 'द्रव्य'मिति द्रव्यभावना नोआगमतो व्यतिरिक्ता गन्धाङ्गैः-जातिकुसुमादिभिर्द्रव्यैस्तिलादिषु द्रव्येषु या वासना ४ सा द्रव्यभावनेति, तथा शीतेन भावितः शीतसहिष्णुरुष्णेन वा उष्णसहिष्णुर्भवतीति, आदिग्रहणाद्व्यायामक्षुण्णदेहो |
व्यायामसहिष्णुरित्याद्यन्येनापि द्रव्येण द्रव्यस्य या भावना सा द्रव्यभावनेति, भावे तु-भावविषया प्रशस्ताऽप्रशस्तभेदेन द्विरूपा भावनेति ॥ तत्राप्रशस्तां भावभावनामधिकृत्याह
पाणिवहमुसावाए अदत्तमेहुणपरिग्गहे चेव । कोहे माणे माया लोभे य हवंति अपसत्था ॥ ३२८॥ प्राणिवधाद्यकार्येषु प्रथम प्रवर्त्तमानः साशङ्कः प्रवर्तते पश्चासौनःपुन्यकरणतया निशङ्कः प्रवर्त्तते, तदुक्तम्-“क
श्रीआचा- रोत्यादौ तावत्सघृणहृदयः किश्चिदशुभं, द्वितीयं सापेक्षो विमृशति च कार्य च कुरुते । तृतीयं निःशङ्को विगतघृणम- श्रुतस्क०२ राजवृत्तिःन्यत्प्रकुरुते, ततः पापाभ्यासात्सततमशुभेषु प्ररमते ॥१॥"॥ प्रशस्तभावनामाह
चूलिका ३ (शी०) दसणनाणचरित्ते तववेरग्गे य होइ उ पसत्था । जा य जहा ता य तहा लक्षण वुच्छ सलक्खणओ ॥३२९॥ भावनाध्य.
दर्शनज्ञानचारित्रतपोवैराग्यादिषु या यथा च प्रशस्तभावना भवति तां प्रत्येक लक्षणतो वक्ष्य इति॥दर्शनभाधनार्थमाह॥४१८॥
तित्थगराण भगवओ पवयणपावयणिअइसइड्डीणं । अभिगमणनमणदरिसणकित्तणसंपूअणाथुणणा ॥ ३३०॥
तीर्थकृतां भगवतां प्रवचनस्य-द्वादशाङ्गस्य गणिपिटकस्य, तथा प्रावचनिनाम्-आचार्यादीनां युगप्रधानानां, तथा|ऽतिशयिनामृद्धिमतां-केवलिमनःपर्यायावधिमच्चतुर्दशपूर्वविदां तथाऽऽमौषध्यादिप्राप्तऋद्धीनां यदभिगमनं गत्वा च दर्शनं तथा गुणोत्कीर्तनं संपूजनं गन्धादिना स्तोत्रैः स्तवनमित्यादिका दर्शनभावना, अनया हि दर्शनभावनयाऽनवरतं भाव्यमानया दर्शनशुद्धिर्भवतीति ॥ किश्च- जम्माभिसेयनिक्खमणचरणनाणुप्पया य निव्वाणे । दियलोअभवणमंदरनंदीसरभोमनगरेसुं॥ ३३१ ॥
अट्ठावयमुजिते गयग्गपयए य धम्मचके य । पासरहावत्तनगं चमरुप्पायं च वंदामि ॥ ३३२॥ तीर्थकृतां जन्मभूमिषु तथा निष्क्रमणचरणज्ञानोसत्तिनिर्वाणभूमिषु तथा देवलोकभवनेषु मन्दरेषु तथा नन्दीश्वरद्वीपादौ भौमेषु च-पातालभवनेषु यानि शाश्वतानि चैत्यानि तानि.वन्देऽहमिति द्वितीयगाथायामन्ते क्रियेति, एवभष्टापदे, तथा श्रीमदुजयन्तगिरौ 'गजाग्रपदे' दशार्णकूटवर्तिनि तथा तक्षशिलायां धर्मचक्रे तथा अहिच्छत्रायां | पार्श्वनाथस्य धरणेन्द्रमहिमास्थाने, एवं रथावर्ते पर्वते वैरस्वामिना यत्र पादपोपगमनं कृतं यत्र च श्रीमदर्द्धमानमाश्रित्य चमरेन्द्रेणोत्सतनं कृतम् , एतेषु च स्थानेषु यथासम्भवमभिगमनवन्दनपूजनोत्कीर्तनादिकाः क्रियाः कुर्वतो दर्शनशुद्धिर्भवतीति ॥ किश्च
गणियं निमित्त जुत्ती संदिट्ठी अवितहं इमं नाणं । इय एगंतमुवगया गुणपच्चइया इमे अत्था ॥ ३३३ ॥ गुणमाहप्पं इसिमामकित्तणं सुरनरिंदपूया य । पोराणचेड्याणि य इय एसा सणे होइ॥ ३३४ ॥ ... प्रवचनविदाममी गुणप्रत्ययिका अर्था भवन्ति, तद्यथा-गणितविषये-बीजगणितादौ परं पारमुपगतोऽयं, तथाऽष्टाङ्गस्य निमित्तस्य पारगोऽयं, तथा दृष्टिपातोका नानाविधा युक्तीः-द्रव्यसंयोगान् हेतून्वा वेत्ति, तथा सम्यग-भविपरीता दृष्टिः-दर्शनमस्य त्रिदशैरपि चालयितुमशक्या तथाऽवितथमस्येदं ज्ञानं यथैवायमाह तत्तथैवेत्येवं प्रावचनिकस्याचार्यादेः प्रशंसां कुर्वतो दर्शनविशुद्धिर्भवतीति, एवमन्यदपि गुणमाहात्म्यमाचार्यादेर्वर्णयतः तथा पूर्वमहषीणां च नामो-४ कीर्तनं कुर्वतः तेषामेव च सुरनरेन्द्रपूजादिकं कथयतः तथा चिरन्तनचैत्यानि पूजयतः इत्येवमादिकां कियां कुर्वतस्तद्वासनावासितस्य दर्शनविशुद्धिर्भवतीत्येषा प्रशस्ता दर्शनविषया भावनेति ॥ ज्ञानभावनांमधिकृत्याह
तत्तं जीवाजीवा नायव्वा जाणणा इहं दिट्ठा । इह कनकरणकारगसिद्धी इह बंधमुक्खो य ॥ ३३५ ॥ बद्धो य बंधहेऊ बंधणबंधष्फलं सुकहियं तु । संसारपवंचोऽवि य इहयं कहिओ जिणवरेहिं ॥ ३३६ ॥ नाणं भविस्सई एवमाझ्या वायणाइयाओ य । सज्झाए आउत्तो गुरुकुलवासो य इय नाणे ॥ ३३७ ॥
॥४१८॥
AM-2-52-56056-1561622606
PROAC%A6%A4%AA%C4%AA%%AA%%
A-CHAMMA-
%
ब
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org