________________
257
अथ चतुर्थ भाषाजातमध्ययनम् :
CAKACAMASI-ARMAC
उक्तं तृतीयमध्ययनं, साम्प्रतं चतुर्थमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने पिण्डविशुद्ध्यर्थ गमनविधिरुक्तः, तत्र च गतेन पथि वा यादृम्भूतं वाच्यं न वाच्यं वा, अनेन च सम्बन्धेनायातस्य भाषाजाताध्ययनस्य है चत्वार्यनुयोगद्वाराणि भवन्ति, तत्र निक्षेपनियुक्त्यनुगमे भाषाजातशब्दयोनिक्षेपार्थ नियुक्तिकृदाहजह वकं तह भासा जाए छक्कं च होइ नायव्वं । उप्पत्तीए १ तह पज्जवं २तरे ३ जायगहणे ४ य ॥ ३१३॥ ___ यथा वाक्यशुद्ध्यध्ययने वाक्यस्य निक्षेपः कृतस्तथा भाषाया अपि कर्त्तव्यः, जातशब्दस्य तु पट्रनिक्षेपोऽयं ज्ञातव्योनाम १ स्थापना २ द्रव्य ३ क्षेत्र ४ काल ५ भाव ६ रूपः, तत्र नामस्थापने क्षुण्णे, द्रव्यजातं तु आगमतो नोआगमतः, व्यतिरिक्तं नियुक्तिकारो गाथापश्चार्डेन दर्शयति-तचतुर्विधम् , उत्पत्तिजातं १ पर्यवजातम् २ अन्तरजातं ३ ग्रहणजातं ४, तत्रोत्पत्तिजातं नाम यानि द्रव्याणि भाषावर्गणान्तःपातीनि काययोगगृहीतानि वाग्योगेन निसृष्टानि भाषात्वेनोत्पद्यन्ते तदुत्पत्तिजातं, यद्रव्यं भाषात्वेनोत्पन्नमित्यर्थः १, पर्यवजातं तैरेव वाग्निसृष्टभाषाद्रव्यैर्यानि विश्रेणिस्थानि भाषावर्गणान्तर्गतानि निसृष्टद्रव्यपराघातेन भाषापर्यायत्वेनोत्पद्यन्ते तानि द्रव्याणि पर्यवजातमित्युच्यन्ते २, यानि त्वन्तराले समश्रेण्यामेव निसृष्टद्रव्यमिश्रितानि भाषापरिणाम भजन्ते तान्यन्तरजातमित्युच्यन्ते ३, यानि पुन
भा. सू. ६५ श्रीआचा- राङ्गवृत्तिः (शी.)
चूलिका १ भाषा० ४ | उद्देशः १
॥३८५॥
M ALAMAALOCAXIAOCONOCOCALORE
व्याणि समश्रेणिविश्रेणिस्थानि भाषात्वेन परिणतानि कर्णशष्कुलीविवरप्रविष्टानि गृह्यन्ते तानि चानन्तप्रदेशिकानि द्रव्यतः क्षेत्रतोऽसङ्ख्येयप्रदेशावगाढानि कालत एकद्वित्र्यादियावदसङ्ख्येयसमयस्थितिकानि भावतो वर्णगन्धरस- स्पर्शवन्ति तानि चैवंभूतानि ग्रहणजातमित्युच्यन्ते ४ । उक्तं द्रव्यजातं, क्षेत्रादिजातं तु स्पष्टत्वान्नियुक्तिकारेण नोक्तं, तञ्चैवंभूतं-यस्मिन् क्षेत्रे भाषाजातं व्यावय॑ते यावन्मात्रं वा क्षेत्रं स्पृशति तत्क्षेत्रजातम् , एवं काल जातमपि, भावजातं तु तान्येवोत्पत्तिपर्यवान्तरग्रहणद्रव्याणि श्रोतरि यदा शब्दोऽयमिति बुद्धिमुत्पादयन्तीति । इह त्वधिकारो द्रव्यभा-1 पाजातेन, द्रव्यस्य प्राधान्यविवक्षया, द्रव्यस्य तु विशिष्टावस्था भाव इतिकृत्वा भावभाषाजातेनाप्यधिकार इति ।। उद्देशार्थाधिकारार्थमाहसवेऽवि य वयणविसोहिकारगा तहवि अस्थि उ बिसेसो। वयणविभत्ती पढमे उप्पत्ती धजणा बीए ॥३१४॥
यद्यपि द्वावप्युद्देशको वचनविशुद्धिकारको तथाऽप्यस्ति विशेषः, स चाय-प्रथमोद्देशके वचनस्य विभक्तिः वचनविभक्तिः एकवचनादिषोडशविधवचनविभागः, तथैवंभूतं भाषणीयं नैवंभूतमिति व्यावयेते, द्वितीयोदेशके तूत्पत्तिः-कोधाद्युत्पत्तिर्यथा न भवति तथा भाषितव्यम् ॥ साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्---
से भिक्खू वा २ इमाई वयायाराई सुच्चा निसम्म इमाई अणायाराई अणारियपुव्वाइं जाणिज्जा-जे कोहा वा वायं विउंजंति जे माणा वा जे मायाए वा जे लोभा वा वायं विउंजंति जाणओ वा फरुसं वयंति अजाणओ वा फ० सव्वं चेयं सावजं वजिज्जा विवेगमायाए, धुवं चेयं जाणिज्जा अधुवं चेयं जाणिज्जा असणं वा ४ लभिय नो लमिय भुंजिय नो भुंजिय अदुवा आगओ अदुवा नो आगओ अदुवा एह अतुवा नो एइ अदुवा पहिइ अदुवा नो एहिइ इत्यवि आगए इलवि नो आगए इत्यवि एइ इत्थवि नो पति इत्यवि एहिति इत्थवि नो एहिति ।। अणुवीइ निहाभासी समियाए संजए भासं भासिज्जा, तंजहा-एगवयणं १ दुवयणं २ बहुव० ३ इथि० ४ पुरि० ५ नपुंसगवयणं ६ अजात्थव० ७ उवणीयवयणं ८ अवणीयवयणं ९ उवणीयअवणीयव० १० अवणीयउवणीयव० ११ तीयव० १२ पडुप्पन्नव० १३ अणागयव० १४ पञ्चक्खवयणं ९५ परुक्खव० १६, से एगवयणं वईस्सामीति एगवयणं वइजा जाव परुक्खवयणं वइस्सामीति परुक्खवयणं वइज्जा, इत्थी वेस पुरिसो वेस नपुंसगंस एयं वा चेयं अन्नं वा चेयं अणुवीइ निहाभासी समियाए संजए भासं भासिज्जा, इञ्चेयाई आययणाई उवातिकम्म ॥ अह मिक्खू जाणिज्जा चत्तारि भासज्जायाई, तंजहा--सच्चमेगं पढमं भासज्जायं १ बीयं मोसं २ तईयं सच्चामोसं ३ जं नेव सर्व नेव मोसं नेष सञ्चामोसं असञ्चामोसं नाम तं चउत्थं भासजायं ४॥ से बेमि जे अईया जे य पडुप्पन्ना जे अणागया अरहंता भगवंतो सव्वे ते एयाणि चेव चत्तारि भासज्जायाई भासिंसु वा भासंति वा भासिस्संति वा पनविंसु वा ३, सम्वाई च णं एयाई अचित्ताणि वण्णमंताणि गंधमंताणि रसमंताणि फासमंताणि चओवचइयाइं विपरिणामधम्माई भवंतीति अक्खायाइं ॥ (सू० १३२) स भावभिक्षुः 'इमान्' इत्यन्तःकरणनिष्पन्नान, इदमः प्रत्यक्षासन्नवाचित्वात्समनन्तरं वक्ष्यमाणान् वाच्याचारा वागाचाराः-वाग्व्यापारास्तान् श्रुत्वा, तथा 'निशम्य ज्ञात्वा भाषासमित्या भाषां भाषेतोत्तरेण सम्बन्ध इति । तत्र याहम्भूता भाषा न भाषितव्येति तत्तावदर्शयति-'इमान्' वक्ष्यमाणान् 'अनाचारान्' साधूनामभाषणयोग्यान् पूर्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org