________________
64
श्रुतस्कं०२ चूलिका १ भाषा०४ उद्देशः १
(शी०)
॥३८६॥
258 श्रीआचा
साधुभिरनाचीर्णपूर्वान् साधुर्जानीयात् , तद्यथा-ये केचन क्रोधाद्वा वाचं 'विउजन्ति' विविधं व्यापारयन्ति-भाषन्ते राजवृत्तिः यथा चौरस्त्वं दासस्त्वमित्यादि तथा मानेन भाषन्ते यथोत्तमजातिरह हीनस्त्वमित्यादि तथा मायया यथा ग्लानो
ऽहमपरसन्देशक वा सावद्यक केनचिदुपायेन कथयित्वा मिथ्यादुष्कृतं करोति सहसा ममैतदायातमिति तथा लोभे
नाहमनेनोक्तनातः किञ्चिल्लप्स्य इति तथा कस्यचिद्दोषं जानानास्तद्दोषोद्घटनेन परुषं वदन्ति अजानाना वा, सर्व चैत॥३८६॥ क्रोधादिवचनं सहावद्येन-पापेन गर्येण वा वर्तत इति सावधं तद्वर्जयेत् विवेकमादाय, विवेकिना भूत्वा सावधं वचनं
वर्जनीयमित्यर्थः, तथा केनचित्सार्द्ध साधुना जल्पता नैव सावधारणं वचो वक्तव्यं यथा 'ध्रुवमेतत्' निश्चितं वृष्ट्यादिकं भविष्यतीत्येवं जानीयाद् अनुवं वा जानीयादिति । तथा कथश्चित्साधु भिक्षार्थ प्रविष्टं ज्ञातिकुलं वा गतं चिरयन्तमुद्दिश्यापरे साधव एवं ब्रवीरन् यथा-भुमहे वयं स तत्राशनादिकं लब्ध्वैव समागमिष्यति, यदिवा ध्रियते तदर्थ किञ्चित् नैवासौ तस्माल्लन्धलाभः समागमिष्यति, एवं तत्रैव भुक्त्वाऽभुक्त्वा वा समागमिष्यतीति सावधारणं न वक्तव्यम् , अथ चैवंभूतां सावधारणां वाचं न ब्रूयाद् यथाऽऽगतः कश्चिद्राजादिनों वा समागतः तथाऽऽगच्छति न वा समागच्छति एवं समागमिष्यति न वेति, एवमत्र पत्तनमठादावपि भूतादिकालत्रयं योज्यं, यमर्थ सम्यग् न जानीयात्तदेवमेवैतदिति न ब्रूयादिति भावार्थः, सामान्येन सर्वत्रगः साधोरयमुपदेशो, यथा-'अनुविचिन्त्य' विचार्य सम्यग्निश्चित्यातिशयेन श्रुतोपदेशेन वा प्रयोजने सति 'निष्ठाभाषी' सावधारणभाषी सन् 'समित्या' भाषासमित्या समतया वा रागद्वेषाकरणलक्षणया षोडशवचनविधिज्ञो भाषां भाषेत । यादृग्भूता च भाषा भाषितव्या तां षोडशवचनविधिगतां दर्शयति-तद्यथे'त्ययमुपप्रदर्शनार्थः, एकवचनं वृक्षः १, द्विवचनं वृक्षौ २, बहुवचनं वृक्षा इति ३, स्त्रीवचनं वीणा कन्या इत्यादि ४, पुंवचनं घटः पट इत्यादि ५, नपुंसकवचनं पीठं देवकुलमित्यादि ६, अध्यात्मवचनम् , आत्मन्यधि अध्यात्म-हृदयगतं तत्परिहारेणान्यद्भणिष्यतस्तदेव सहसा पतितम् ७, 'उपनीतवचन' प्रशंसावचनं यथा रूपवती स्त्री ८, तद्विपर्ययेणापनीतवचनं यथेयं रूपहीनेति ९, 'उपनीतापनीतवचनं' कश्चिद् गुणः प्रशस्यः कश्चिन्निन्द्यो, यथा-रूपवतीयं स्त्री किन्त्वसद्वत्तेति १०, 'अपनीतोपनीतवचनम्' अरूपवती स्त्री किन्तु सद्भुत्तेति ११, 'अतीतवचनं' कृतवान् १२ 'वर्तमानवचन' करोति १३ 'अनागतवचन' करिष्यति १४ 'प्रत्यक्षवचनम्' एष देवदत्तः | १५, 'परोक्षवचनं' स देवदत्तः १६, इत्येतानि षोडश वचनानि, अमीषां स भिक्षुरेकार्थविवक्षायामेकवचनमेव ब्रूयाद् यावत्परोक्षवचनविवक्षायां परोक्षवचनमेव ब्रूयादिति । तथा रूयादिके दृष्टे सति ख्येवैषा पुरुषो वा नपुंसकं वा, एवमेवैतदन्यद्वैतत् , एवम् 'अनुविचिन्त्य' निश्चित्य निष्ठाभाषी सन् समित्या समतया संयत एव भाषां भाषेत, तथा 'इत्येतानि' पूर्वोक्तानि भाषागतानि वक्ष्यमाणानि वा 'आयतनानि' दोषस्थानानि 'उपातिक्रम्य' अतिलकच भाषां भाषेत । अथ स भिक्षुर्जानीयात् 'चत्वारि भाषाजातानि' चतम्रो भाषाः, तद्यथा-सत्यमेकं प्रथम भाषाजातं यथार्थम्-अवितथं, तद्यथा| गोगारेवाश्चोऽश्व एवेति १, एतद्विपरीता तु मृषा द्वितीया, यथा गौरश्वोऽश्वो गौरिति २, तृतीया भाषा सत्यामृषेति, यत्र किञ्चित्सत्यं किञ्चिन्मृति, यथाऽश्वेन यान्तं देवदत्तमुष्टेण यातीत्यभिदधाति ३, चतुर्थी तु भाषा योच्यमाना न
सत्या नापि मृषा नापि सत्यामृषा आमन्त्रणाज्ञापनादिका सानासत्याऽमृषेति ४॥ स्वमनीषिकापरिहारार्थमाहश्रीआचा- सोऽहं यदेतद्ब्रवीमि तत्सर्वैरेव तीर्थकृद्भिरतीतामागतवर्तमानैर्भाषितं भाष्यते भाषिष्यते च, अपि चैतानि-सर्वाण्य- रानवृत्तिः प्येतानि भाषाद्रव्याण्यचित्तानि च वर्णगनपरसस्पर्शवन्ति चयोपचयिकानि विविधपरिणामधर्माणि भवन्तीति, एवमाख्यातं (शी०) तीर्थकृद्भिरिति, अत्र च वर्णादिमत्त्वाविष्करणेन शब्दस्य मूर्तत्वमावेदितं, न ह्यमूर्तस्याकाशादेवर्णादयः संभवन्ति तथा
चयोपचयधर्माणीत्यनेन तु शब्दस्यानित्यत्वमाविष्कृतं, विचित्रपरिणामत्वाच्छब्दद्रव्याणामिति ॥ साम्प्रतं शब्दस्य कृत॥३८७॥
कत्वाविष्करणायाह
से भिक्खू वा० से जं पुण जाणिज्जा पुचि भासा अभासा भासिजमाणी भासा भासा भासासमयवीइकता च णं भासिया भासा अभासा ॥ से मिक्खू वा० से जं पुण जाणिजा जा व भासा सच्चा १ जा य भासा मोसा २ जा य भासा सचामोसा २ जा य भासा असचाऽमोसा ४, तहप्पगारं भासं सावज सकिरियं ककसं कडुवं निहुरं फरुसं अण्यकरि छेयणकरिं भेयणकरिं परियावणकरि उहवणकरि भूओवघाइयं अमिकंख नो भासिज्जा ।। से भिक्खू वा मिक्खुणी वा से जं पुण जाणिज्जा, जा य भासा सचा सुहुमा जाय भासा असचामोसा तहप्पगारं भासं असावजं जाव अभूओवधाइवं
अभिकंख भासं भासिज्जा ।। (सू० १३३)
स भिक्षुरेवंभूतं शब्दं जानीयात्, तद्यथा-भाषाद्रव्यवर्गणानां वाग्योगनिस्सरणात् 'पूर्व प्रागभाषा 'भाष्यमाणैव' है वायोगेन निसृज्यमानैव भाम, भाषाद्रव्वाणि भाषा भवति, तदनेन ताल्वोष्ठादिब्यापारेण प्रागसतः शब्दस्य निष्पाद
नात्स्फुटमेव कृतकत्वमावेदितं, मृत्पिण्डे दण्डचक्रादिमेव घटस्येति, सा वोच्चरितप्रध्वंसित्वाच्छब्दाना भाषणोत्तरकालमप्य
श्रुतस्क०२ चूलिका १ भाषा०४ उद्देशः १
ARTA
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org