________________
२८
प्रस्तावना
भगवतो महावीरात् १६० वर्षेषु गतेषु चतुर्दशपूर्वधरस्य भगवतो भद्रबाहुस्वामिनः समये द्वादशवर्षीयभिक्षवशाद् द्वादशाङ्ग या अनेकेंऽशा विस्मृताः साधुभिः, अत: पाटलिपुत्रे श्रमणसङ्को मिलितः, तत्र च यस्य साधोः समीपे यदङ्गाध्ययनोद्देशकादि अविस्मृतमासीत् तत् तत प्रादाय एकादशाङ्ग याः संघटनं श्रमणसंघेन विहितम् । द्वादशाङ्गस्य दृष्टिवादस्याध्ययनार्थं तु स्थूलभद्रादयो मुनयो नेपालदेशमार्गस्थस्य भद्रबाहुस्वामिनोऽन्तिकं गताः । सुधर्मस्वामिनः पश्चात् प्रथमोऽयं वाचनोद्धारः शास्त्रेषु श्रूयते।
भगवतो महावीरस्वामिनो निर्वाणात् ८२७ वर्षेषु गतेषु पुनरपि द्वादशवर्षीयभिक्षवशात् साधूनांपूर्वाधीतं श्रुतज्ञानं खण्डखण्डीभूतम् । प्रतो दुभिक्षावसाने प्रार्यस्कन्दिलाचार्यसन्निधौ मथुरायाम, नागार्जुनाचार्यसन्निधौ वलभ्यां (सौराष्ट्रदेशे) पुनरपि श्रमणसंघेन एकत्रीभूय कालिकश्रुतं संघटितम् । किन्तु परस्परं क्वचित् क्वचिद् वाचनाभेदः संजातः, द्वयोरपि प्राचार्ययोः ततः परं परस्परं मिलनं कदाचिदपि न जातमिति स वाचनाभेदस्तथैव स्थितः । मथुरायां या वाचना जाता सा माथुरीति भण्यते, या तु वलभीपुर्यां नागार्जुनाचार्यसन्निधौ प्रवृत्ता सा नागार्जुनीया इति गीयते।
-कल्पसूत्रस्थविरावली । “सामिस्स जीवंते णव कालगता, जो य कालं करेति सो सुधम्मसामिस्स गणं देति, इंदभूती सुधम्मो य सामिम्मि परिनिव्वुए परिनिव्वुता"-आवश्यकचूर्णि पृ० ३३९ ।।
१. "तम्मि य काले बारबरिसो दुक्कालो उवट्टितो, संजता इतो इतो य समुद्दतीरे गच्छित्ता पुणरवि पाडलिपुते मिलिता। तेसि अण्णस्स उद्देसो, अण्णस्सखंड, एवं संघाडितेहि एक्कारस अंगाणि संघातिताणि, दिट्टिवादो नत्थि। नेपाल-वत्तिणीए य भद्दबाहुसामी अच्छंति चोद्दसपुव्वी, तेसि संघेण पत्थवितो संघाडो 'दिट्टिवादं वाएहि त्ति गतो, निवेदितं संघकज्ज । तं ते भणंति दुक्कालनिमित्तं महापाणं न पविट्ठो मि, इयाणि पविट्ठो मि, तो न जाति वायणं दातुं । पडिनियत्तेहि संघस्स अवखातं । तेहि अण्णो वि संघाडो विसज्जितो, जो संघस्स आणं अतिक्कमति तस्स को दंडो? ते गता, कहितं । तो अक्खाइ--उग्घाडिज्जइ, ते भणंति मा उग्घाडेह, पेसेह मेधावी, सत्त पडिपुच्छगाणि देमि"।-- आवश्यकचूणि, भाग २, पृ० १८७ । “इतश्च तस्मिन् दुष्काले कराले कालरात्रिवत् । निर्वाहार्थं साधुसङ्घस्तीरं नीरनिधेर्ययो ॥५५।। अगुण्यमानं तु तदा साधूनां विस्मृतं श्रुतम् । अनभ्यसनतो नश्यत्यधीतं धीमतामपि ॥५६॥ सङ्घोऽथ पाटलिपुत्रे दुष्कालान्तेऽखिलोऽमिलत् । यदङ्गाध्ययनोद्देशाद्यासीद् यस्य तदाददे ॥ ५७ ॥ ततश्चैकादशाङ्गानि श्रीसङ्घोऽमेलयत् तदा । दृष्टिवादनिमित्तं च तस्थौ किञ्चिद् विचिन्तयन् ।।५८॥ नेपालदेशमार्गस्थं भद्रबाहुं च पूर्विणम् । ज्ञात्वा सङ्घः समाह्वातुं ततः प्रेषीन्मुनिद्वयम् ॥५९।। गत्वा नत्वा मुनी तौ तमित्यूचाते कृताञ्जली । समादिशति वः सङ्घस्तत्रागमनहेतवे ॥६०॥ सोऽप्युवाच महाप्राणध्यानमारब्धमस्ति यत् । साध्यं द्वादशभिव गमिष्याम्यहं ततः ॥६१॥ : 'सप्त दास्यामि वाचनाः ॥८६॥ तत्रैकां वाचनां दास्ये भिक्षाचर्यात आगतः । तिसृषु कालवेलासु तिस्रोऽन्या वाचनास्तथा ॥६८॥ सायाह्नप्रतिक्रमणे जाते तिस्रोऽपराः पुनः । सेत्स्यत्येवं सङ्घकार्य मत्कार्यस्याविबाधया ॥६९॥"-- परिशिष्टपर्व, नवम सर्ग ।
२. "जेसि इमो अणुप्रोगो पयरइ अज्जावि अड्ढभरहम्मि। बहुनगरनिग्गयजसे ते वंदे खंदिलायरिए ॥३२॥” इति नन्दीसूत्रगाथाया व्याख्यायां चूर्णिकारेण इत्थमभिहितम्-“कहं पुण तेसि अणुप्रोगो? उच्यते--बारससंवच्छरिए महंते दुब्भिक्खकाले भत्तट्टा अण्णण्णतो फिडिताणं गहण-गुणणा-ऽणुप्पेहाभावातो सुते विप्पणढे पुणो सुभिक्खकाले जाते मधुराए महंते साहुसमुदए खंदिलायरियप्पमुहसंघेण 'जो जं संभरति' ति एवं संघडितं कालिय-सुतं । जम्हा य एतं मधुराए कतं तम्हा माधुरा वायणा भण्णति । सा य खंदिलायरियसम्मय त्ति का तस्संतियो अणुगोगो भण्णति । सेसं कळं। अण्णे भणंति जहा-सुतं ण णटुं, तम्मि दुब्भिक्खकाले जे अण्णे पहाणा अणुप्रोगधरा ते विणट्ठा, एगे खंदिलायरिए संधरे, तेण मधुराए अणुअोगो पुणो साधूणं पवत्तितो त्ति माधुरवायणा भण्णति । तस्संतितो य अणुयोगो भण्णति ॥३२॥"-नन्दीचूणि पृ०६।
"अत्थि महुराउरीए सुयसमिद्धो खंडिलो नाम सूरी, तहा वलहिनयरीए नागज्जुणो णाम सूरी। तेहि य जाए बारसवरिसिए दुक्काले निव्वउभावप्रो विफुट्टि (?) काऊण पेसिया दिसोदिसिं साहवो। गमिउं च कहवि दुत्थं ते पुणो मिलिया सुगाले । जाव सज्झायंति ताव खंडखरुडीभूयं पुव्वाहीयं । ततो मा सुयवोच्छित्ती होउ त्ति पारद्धो सूरिहि सिद्धंतुद्धारो। तत्थ वि जं न वीसरियं तहेव संठवियं । पम्हुट्ठाणं उण पुव्वावरावडंतसुत्ताणुसारो कया संघडणा।"--कहावली।
“परोप्परमसंपण्णमेलावा य तस्समयानो खंदिल्ल-नागज्जुणायरिया कालं काउं देवलोगं गया। तेण तुल्लयाए वि तदुद्धरियसिद्धंताणं जो संजायो कत्थ य वायणाभेश्रो सो य न चालियो पच्छिमेहि, तप्रो विवरणकारेहि पि 'नागज्जुणीया उण एवं पढंति' त्ति समुल्लिगिया तहेवायाराइसु ।"-कहावली ।
“दुभिक्षातिक्रमे सुभिक्षप्रवृत्तौ द्वयोः सङ्घयोर्मेलापकोऽभवत्, तद्यथा-एको वलभ्याम् एको मथुरायाम्, तत्र च सूत्रार्थसंघटनेन परस्परवाचनाभेदो जातः ।"-ज्योतिष्करण्डकटीका मलयगिरिसूरि-विरचिता पृ० ४१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org