________________
प्रस्तावना
पाठपरंपरा--भगवतो महावीरस्वामिनः शिष्या इन्द्रभूतिगौतमादयः सर्वेऽपि गणधरा' द्वादशाङ्गी प्रणीतवन्तः । भगवतो महावीरस्य गणधरा एकादश, गणास्तु नवैव, इति द्वादशाङ ग्या नव वाचना बभूवुः। नवस्वपि वाचनासु द्वादशाङ् गी अर्थत एकरूपैवासीदित्यत्र न मतभेदः । किन्तु सर्वा वाचनाः सूत्रत एकरूपा न वेत्यत्र विप्रतिपत्तिः । अर्थत एकरूपत्वेऽपि सूत्रतो भिन्नरूपत्वाद् नवसु वाचनासु 'नवविधा द्वादशाङगी अभूदित्येके ।
"जदा य गणहरा सव्वे पव्वजिता ताहे किर एगनिसज्जाए एगारस अंगाणि चोद्दसहि चोद्दस पुव्वाणि, एवं ता भगवता अत्थो कहितो, ताहे भगवंतो एगपासे सुत्तं करे (रे) ति, तं अक्खरेहि पदेहि वंजणेहिं समं, पच्छा सामी जस्स जत्तियो गणो तस्स तत्तियं अणुजाणति । आतीय सुहम्मं करेति, तस्स महल्लमाउयं, एत्तो तित्थं होहिति त्ति" [आवश्यकचूणि पृ० ३३७]
इति आवश्यकच णिवचनानुसारेण सूत्रतोऽपि सर्वेषां गणधराणां द्वादशाङ्गी एकरूपा प्रतीयत इत्यपरे।
पञ्चमगणधरस्य भगवतः सुधर्मस्वामिनो दीर्घायुष्कत्वात् सर्वेऽप्यन्ये गणधराः स्वं स्वं शिष्यगणं तस्मै समर्प्य निर्वाणमासादयामासुः । अतो भगवतो महावीरस्य शासने शिष्यपरम्परायां प्रवर्तमाना द्वादशाङगी सुधर्मस्वामिद्वारैव प्रवृत्ता, अतोऽस्माकं वाचना सुधर्मस्वामिसत्का इत्यत्र न कोऽपि विवादः ।
१. "अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउणं । सासणस्स हियट्ठाए तो सुत्तं पवत्तइ ।।।९२॥"---आवश्यकनियुक्ति ।
"एक्कारस वि गणहरे पवायए पवयणस्स वंदामि । · · · ॥१०६२॥ यथा अर्हन्नर्थस्य वक्तेति पूज्यस्तथा गणधरा गौतमादयः सूत्रस्य वक्तार इति पूज्यन्ते मङ्गलत्वाच्च"--विशेषावश्यकभाष्यस्वोपज्ञटीका। “तत्र सर्वज्ञेन परमर्षिणा परमाचिन्त्य-केवलज्ञानविभूतिविशेषेण अर्थत आगम उद्दिष्ट: । : : 'तस्य साक्षाच्छिष्यैः बुद्ध्यतिशद्धियुक्तः गणधरैः श्रुतकेवलिभिरनुस्मृतग्रन्थरचनमङ्गपूर्वलक्षणम्" --तत्त्वार्थसूत्र [श२०] सर्वार्थसिद्धिः। इत्येवं सर्वेषु श्वेताम्बरग्रन्थेषु बहुषु दिगम्बरग्रन्थेषु च सामान्येन गणधरकृतत्वं द्वादशाङ्गया वणितम्।
केषुचिद् दिगम्बरग्रन्थेषु 'द्वादशाङ्गी इन्द्रभूतिना गौतमस्वामिना विरचिता' इत्यपि वर्णितम् । तथाहि
"तेण महावीरभडारएण इंदभूदिस्स - - ‘अत्थो कहियो। तदो तेण गोअमगोत्तेण इंदभूदिणा अंतोमुहुत्तेणावहारियदुवालसंगत्थेण तेणेव कालेण कयदुवालसंगगंथरयणेण गुणेहि सगसमाणस्स सुहम्माइरियस्स गंथो वक्खाणिदो। तदो केत्तिएण वि कालेण केवलणाणमुप्पाइय बारसवासाणि केवलविहारेण विहरिय इंदभूदिभडारओ णिव्वुई संपत्तो। तद्दिवसे चेव सुहम्माइरियो जंबूसामियादीणमणेयाणमाइरियाणं वक्खाणिददुवालसंगो घाइचउक्कखएण केवली जादो"--जयधवला पृ० ७५-७६ ।
___"महावीरोऽर्थकर्ता । तेण महावीरेण केवलणाणिणा कहिदत्थो तम्हि चेव काले तत्थेव खेत्ते खयोवसमजणिदचउरमलबुद्धिसंपण्णेण बम्हणेण गोदमगोत्तेण सयलदुस्सुदिपारएण जीवाजीवविसयसंदेहविणासट्ठमुवगयवड्ढमाणपादमूलेण इंदभूदिणावहारिदो। . . . ... पुणो तेणिदभूदिणा भावसुदपज्जयपरिणदेण बारहंगाणं चोद्दसपुव्वाणं च गंथाणमेक्केण चेव मुहुत्तेण कमेण रयणा कदा। तदो भावसुदस्स अत्थपदाणं च तित्थयरो कत्ता । तित्थयरादो सुदपज्जाएण गोदमो परिणदो त्ति दव्वसुदस्स गोदमो कत्ता, तत्तो गंथरयणा जादेत्ति । तेण वि गोदमेण दुविहमवि सुदणाणं लोहज्जस्स संचारिदं । तेण वि जंबूसामिस्स संचारिदं । परिवाडिमस्सिदूण एदे तिण्णि वि सयलसुदधारया भणिया। अपरिवाडिए पुण सयलसुदपारगा संखेज्जसहस्सा"--धवला पृ० ६५-६७ ॥
२. "तेणं कालेणं तेणं समएणं समणस्स भगवो महावीरस्स नव गणा इक्कारस गणहरा हुत्था । · · थेरे अकपिए गोयमसगुत्तेणं थेरे अयलभाया हारियायणे गुत्तेणं ते दुन्नि वि थेरा तिण्णि तिण्णि समणसयाई वाएंति । थेरे मेअज्जे थेरे पभासे एए दुन्नि वि थेरा कोडिन्ना गुत्तेणं तिण्णि तिण्णि समणसयाई वाएंति। से तेणठेणं अज्जो एवं वुच्चइ समणस्स भगवो महावीरस्स नव गणा इक्कारस गणहरा हुत्था"--कल्पसूत्र ।
३. “एवं रचयतां तेषां सप्तानां गणधारिणाम् । परस्परमजायन्त विभिन्नाः सूत्रवाचनाः ।।१७३।।
अकम्पिता-ऽचलभ्रात्रोः श्रीमेतार्य-प्रभासयोः । परस्परमजायन्त सदृक्षा एव वाचनाः ।।१७४।।
श्रीवीरनाथस्य गणधरेष्वेकादशस्वपि । द्वयोर्द्वयोर्वाचनयोः साम्यादासन् गणा नव ॥१७५॥"--त्रिषष्टिशलाकापुरुषचरित्र, पर्व १०, सर्ग ५ ।
"तीर्थकरगणभृतां मिथोभिन्नवाचनत्वेऽपि साम्भोगिकत्वं भवति न वा। तथा सामाचार्यादिकृतो भेदो भवति न वा? इति प्रश्ने उत्तरम्--गणभृतां परस्परं वाचनाभेदेन सामाचार्या अपि कियान् भेदः सम्भाव्यते, तद्भेदे च कथञ्चिदसाम्भोगिकत्वमपि सम्भाव्यते"-सेनप्रश्न, उल्लास ३, प्रश्न ८१।
४. “जे इमे अज्जत्ताए समणा निग्गंथा विहरंति एए णं सव्वे अज्जसुहम्मस्स आवच्चिज्जा, अवसेसा गणहरा निरवच्चा वुच्छिन्ना"
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org