________________
प्रस्तावना
निशीथसूत्रम्, प्राचारप्रकल्पो निशीथस्यैव नामान्तरम्, दृश्यतामत्र पृ० 213 पं०३४ । "तेण भगवता आयारपकप्प-दसा-कप्प-बवहारा नवमपुव्वनीसंदभूता णिज्जूढा" इति हि पञ्चकल्पभाष्यचूर्णावुक्तम् । अत आचारप्रकल्पो नवमपूर्वतो भगवता भद्रबाहुस्वामिना नियूंढ इति पञ्चकल्पभाष्यचूर्णेरभिप्रायः । निशीथचूर्ण्यभिप्रायेण तु गणधररचितत्वं निशीथसूत्रस्य ।
विषयः-सामान्यत आचाराङ्गस्य विषयः समवायाङ्गसूत्रादौ वर्णितः । विशेषतस्तु अत्रैव मुद्रिताद् विषयानुक्रमाज्ज्ञातव्यः । भगवता उमास्वातिनापि प्रशमरतिप्रकरणे संक्षेपत आचाराङ्गस्य पञ्चविंशतेरध्ययनानां क्रमशो विषय इत्थं वर्णितः --
"इति गुणदोषविपर्यासदर्शनाद्विषयमूछितो ह्याल्मा । भवपरिवर्तनभीरुभिराचारमवेक्ष्य परिरक्ष्यः । ११२ ।। सम्यक्त्वज्ञानचारित्रतपोवीर्यात्मको जिनः प्रोक्तः । पञ्चविधोऽयं विधिवत् साध्वाचारः समनुगम्यः ।। ११३ ॥ षड्जीवकाययतना [१] लौकिकसन्तानगौरवत्यागः [२] । शीतोष्णादिपरीषहविजयः [३] सम्यक्त्वमविकम्प्यम् [४] ॥ ११४ ।। संसारादुद्वेगः [५] क्षपणोपायश्च कर्मणां निपुणः [६] । वैयावृत्योद्योग [७] स्तपोविधि [८] योषितां त्यागः [९] ॥ ११५ ।। विधिना भैक्ष्यग्रहणं [१०] स्त्रीपशुपण्डकविजिता शय्या [११] । ईर्या[१२]भाषा[१३]ऽम्बर[१४]भाजनैषणा[१५]ऽवग्रहाः शुद्धाः [१६]
॥११६ । स्थान[१७]निषद्या[१८]-व्युत्सर्ग[१९]शब्द-[२०]रूप-[२१] क्रियाः परा-ऽन्योन्याः[२२-२३] । पञ्चमहाव्रतदाढ्यं [२४] विमुक्तता सर्वसङ्गेभ्यः [२५] ।। ११७ ।। साध्वाचारः खल्वयमष्टादशपदसहस्रपरिपठितः । सम्यगनुपाल्यमानो रागादीन् मुलतो हन्ति ॥ ११८ ॥ प्राचाराध्ययनोक्तार्थभावनाचरणगुप्तहृदयस्य । न तदस्ति कालविवरं यत्र क्वचनाभिभवनं स्यात् ॥ ११९ ॥"--प्रशमरतिः ।
प्रशमरतौ सप्तमा-ऽष्टम-नवमाध्ययनानां विषयवर्णनं '७ विमोहायतनम्, ८ उपधानश्रुतम्, ९ महापरिज्ञा' इति समवायाङ गसूत्राभिमतक्रमानुसारेण ज्ञेयम् ।
अप्येकया वाचनया मया तानि धृतानि च । उद्गीतानि च सङ्घाय तत्तथाख्यानपूर्वकम् ।।१९।। आचाराङ्गस्य चूले द्वे पाद्यमध्ययनद्वयम् । दशवकालिकस्यान्यदथ सङ्घन योजितम् ॥१०॥
इत्याख्याय स्थूलभद्रानुज्ञाता निजमाश्रयम् । ता ययुः स्थूलभद्रोऽपि वाचनार्थमगाद् गुरुम् ॥१०१॥"--परिशिष्टपर्व ।
१. "पागमो तिविहो--अत्तागमो १ अणंतरागमो २ परंपरागमो ३ । इच्चेयस्स णिसीहचूलज्झयणस्स तित्थगराणं अत्थस्स अत्तागमे। गणहराणं सुत्तस्स अत्तागमे। गणहराणं अत्थस्स अणंतरागमे। गणहरसिस्साणं सुत्तस्स अणंतरागमे, अत्थस्स परंपरागमे। तेण परं सेसाणं सुत्तस्स वि अत्थस्स वि णो अत्तागमे, णो अणंतरागमे, परंपरागमे। से तं प्रागमो।"--निशीथचूणि भा० १, पृ० ४ ।
२. “से कि तं पायारे ? आयारे णं समणाणं निग्गंथाणं आयार-गोयर-विणय-वेणइय-टाण-गमण-चंकमण-पमाण-जोग-जुजणभासासमिति-गुत्ती-सेज्जोवहि-भत्त-पाण-उग्गमउप्पायणएसणाविसोहि-सुद्धासुद्धगहण-वय-णियम-तवोवहाणसुप्पसत्थमाहिज्जइ, से समासो पंचविहे पण्णत्ते, तं जहा–णाणायारे दसणायारे चरित्तायारे तवायारे विरियायारे।"--समवायाङ्गसूत्र ॥१३६।।
“से कि तं आयारे? आयारे णं समणाणं णिग्गंथाणं आयार-गोयर-विणय-वेणइय-सिक्खा-भासा-प्रभासा-चरण-करणजाया-माया-वित्तीपो आघविज्जति । से समासो पंचविहे पण्णत्ते, तं जहा--णाणायारे १ दंसणायारे २ चरित्तायारे ३ तवायारे ४ वीरियायारे"----नन्दीसूत्र ८७ । “प्राचारे चर्याविधानं शुद्धयष्टकपञ्चसमितित्रिगुप्तिविकल्पं कथ्यते"-तत्त्वार्थराजवात्तिक ११२० ।
"जिअसंजमो अ १ लोगो जह बज्झइ जह य तं पजहियव्वं २। सुहदुक्खतितिक्खा वि य ३ सम्मत्तं ४ लोगसारो य ५ ॥३३॥ निस्संगया य छठे ६ मोहसमुत्था परीसहुवसग्गा ७। निज्जाणं अट्ठमए ८ नवमे य जिणेण एवं ति ९ ॥३४॥"--याचाराङ्गनियुक्ति।
"एत्थायारंगमट्ठारहपदसहस्सेहि "कधं चरे कधं चिठे कधमासे कधं सए। कधं भुंजेज्ज भासेज्ज कधं पावं ण बज्झई ।। जदं चरे जद चिठे जदमासे जदं सए। जदं भुजेज्ज भासेज्ज एवं पावं ण बज्झई॥" एवमादियं मुणीणमायारं वण्णेदि"--धवला पृ० १००। “तत्थ आयारंग "जदं चरे जदं चिठे जदमासे जदं सए। जदं भुंजेज्ज भासेज्ज एवं पावं ण बज्झइ ॥” इच्चाइयं साहूणमाचारं वण्णेदि" --जयघवला, पृ० ११२-११३ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org