________________
प्रस्तावना
१७ त: २५ पर्यन्तेष्वध्ययनेषु उद्देशकविभागो नास्ति । अतः सर्वसंख्यया २५ अध्ययनेषु ८५ उद्देशनकालाः समुद्देशनकालाश्च ।
परिमाणम् --प्रथमश्रुतस्कन्धस्य १८००० अष्टादश सहस्राणि पदानि परिमाणम् । शास्त्रेषु यत् १८००० पदानि परिमाणं निर्दिष्टं तत् प्रथमश्रुतस्कन्धस्यैव, दृश्यतामत्र पृ० 4 पं० ३४ । 'यत्रार्थोपलब्धिस्तत् पदम्' इति पदस्य स्वरूपं नन्दीसूत्रस्य हारिभद्र्यां वृत्तौ [पृ० ७६] निर्दिष्टम् । अन्या अपि श्वेताम्बर-दिगम्बर ग्रन्थेषु पदस्य पारिभाषिक्यो व्याख्या उपलभ्यन्ते । यथा सूत्रान्तरेषु पाठपरिहाण्या कालान्तरेण किञ्चिद् न्यूनत्वं जातं तथा पाचाराङ्गेऽपि ज्ञातव्यम् ।।
सम्प्रति तु ३२ अक्षराणामेकोऽनुष्टुप् श्लोक इति गणनया प्राचाराङ्गसूत्रस्य सं० दी० प्रतौ प्रथमश्रुतस्कन्धान्ते 'ग्रन्थाग्रं ८००' इति उल्लेखदर्शनात् प्रथमश्रुतस्कन्धस्य ८०० श्लोका: परिमाणं प्रतीयते, दृश्यतां श्रीमहावीरजनविद्यालयप्रकाशितमाचाराङ्गसूत्रं पृ० ४१८ पं० ५ । सम्पूर्णस्य आचाराङ्गस्य श्लोकपरिमाणं २४५४, २५५४, २६४४, २६५४ इति विविधासु प्रतिषु भिन्न भिन्नं लिखितं दृश्यते, दृश्यतां श्रीमहावीरजैन विद्यालयप्रकाशिते प्राचाराङ्गसूत्रे पृ० २९८ टि०७।
रचनाशैली--प्रथमश्रुतस्कन्धस्य सामान्यतो रचना गद्य-पद्यमिश्रा विलोक्यते । 'अष्टमाध्ययनस्य अष्टम उद्देशकः, संपूर्ण च नवममध्ययनम् एतत् पद्यनिबद्धमेव । प्रथमे श्रुतस्कन्धे प्रभूतानि वाक्यानि पद्यांशसदृशानि' प्रतीयन्ते, 'पूर्व सम्पूर्णानि पद्यानि तत्र भवेयुः, कालान्तरेण तु कस्यचिदंशस्य परिगलनात् खण्डितपद्यरूपाणि वाक्यानि तत्र सजातानि' इत्यपि संभवेत्, यथा सूत्रकृताङ्गे [१३ । २] "अहो य राम्रो य .." [पृ. 155] इति सम्पूर्णा गाथोपलभ्यते, आचाराङ्गे तु तस्या उत्तरार्धमेव सम्प्रति "समाहिमाघातमजोसयंता सत्थारमेव फरुसं वयं त" [पृ० 166] इत्युपलभ्यते ।
रचयितारः-प्राचाराङ्गसूत्रस्य प्रथमः श्रुतस्कन्धस्तावत् पञ्चमेन गणधरेण भगवता सुधर्मस्वामिना प्रणीत इति सर्वसम्मतम् । द्वितीयस्य तु श्रुतस्कन्धस्य रचनायां विविधा निर्देशाः प्राप्यन्ते। 'पाचाराग्राणि स्थविरविरचितानि' इति आचाराङ्गनियुक्तौ भद्रबाहुस्वामिनः, दृश्यतां पृ० 213 । अत्र "थेरा गणधरा” इति चुर्णावुक्तम्, वृत्तौ [पृ० 213 पं० ११] तु “स्थविरैः श्रुतवृद्धश्चतुर्दशपूर्वविद्भिः" इत्युक्तम् । तृतीय-चतुर्थी चूलिके स्थूलभद्रस्य भगिन्या यक्षया साध्व्या महाविदेहक्षेत्रतः [भगवतः सीमन्धरस्वामिनः सकाशात्] आनीते इत्यपि आवश्यकचूर्णी [भाग २, पृ० १८८] परिशिष्टपर्व ण' [९।९७--१०१] च श्रूयते प्रवादरूपेण । आचाराङ्गस्य पञ्चमी चुला
१. “अष्टादश पदसहस्राणि पदाग्रेण, इह यत्रार्थोपलब्धिस्तत् पदम्, चोदक पाह--जदि दो सुतक्खंधा, पणुवीसं अज्झयणाणि, अट्ठारस पदसहस्साणि पदग्गेणं भवंति, तो जं भणियं “णवबंभचेरमइयो अट्ठारसपदसहस्सियो वेो।' [प्राचाराङ्गनि० गा० ११] त्ति एयं विरुज्झइ। आचार्य आह-नणु एत्थ वि भणियं "हवइ य सपंचचूलो बहु-बहुअयरो पयग्गेणं" [प्राचाराङ्गनि० गा० ११] ति, इह सुत्तालावयपदेहि सहितो बहू बहुयरो य वक्तव्य इत्यर्थः, अथवा "दो सुयक्खंधा, पणुवीसं अज्झयणाणि' एयं आयारग्गसहितस्स आयारस्स पमाणं भणियं, अट्ठारस पयसहस्साणि उण पढमसुयक्खंधस्स णवबंभचेरमतियस्स पमाणं, विचित्तत्थबद्धाणि य सुत्ताणि, गुरूवदेसतो तेसि अत्थो जाणियब्बो।"-नन्दिवृत्ति हारिभद्री पृ०७६ । "चोदक ग्राह-जदि दो . - ‘गुरूवदेसतो सिं अत्थो भाणितव्वो"--नन्दीचूणि पृ०६२। "अष्टादश पदसहस्राणि पदाग्रेण प्रज्ञप्तः । इह यत्रार्थोपलब्धिस्तत् पदम्। ननु यदि . . “गुरूपदेशतस्तेषामर्थोऽवसेय इति।"-समवायाङ्गवृत्ति पृ० १०८ ।
२. "गाथा कतमा ? या न गयेन भाषिता, अपि तु पादोपनिबन्धेन द्विपदा वा चतुष्पदा वा पंचपदा वा षट्पदा वा इयमुच्यते गाथा" इति बौद्धाचार्यासङ्गविरचितायां श्रावकभूमौ पृ० १३७ ।
३. थेरेहिष्णुग्गहट्ठा सीसहि होउ पागडत्थं च । आयाराम्रो अत्थो आयारग्गेसु पविभत्तो ॥२८७॥
[चूणिः]---एयाणि पुण आयारग्गाणि आयारा चेव णिज्जूढाणि । केण णिज्जूढाति ? थेरेहिं । थेरा गणधरा । किणिमित्तं ? अणुग्गहत्थं साहूणं, सिस्साण हियत्थं, पागडत्थं च भवउ त्ति आयारस्स अत्थो आयारग्गेसु णिज्जूढो ठवितो विभत्तो पिडीकृतो पृथक् पृथक्, पिंडस्स पिंडेसणासु कतो, सेज्जत्थो सेज्जासु, एवं सेसाण वि ।
[वृत्ति:]--"तत्रेदमिदानी वाच्यम्-केनैतानि निढानि किमर्थं कुतो वेति, अत आह-थेरेहीत्यादि । स्थविरैः श्रुतवृद्धश्चतुदशपूर्वविद्भिनि!ढानि। किमर्थम् ? शिष्यहितं भवत्विति कृत्वाऽनुग्रहार्थम्, तथाऽप्रकटोऽर्थः प्रकटो यथा स्यादित्येवमर्थं च। कुतो निषूढानि? आचारात् सकाशात् समस्तोऽप्यर्थ आचारानेषु विस्तरेण प्रविभक्त इति ।" [--पृ० ३१९] ।
४. "थूलभद्दस्स य तानो भगिणी प्रोसत्त वि पव्वइतिकात्रो भणंति--आयरिका ! भाउकं वंदका बच्चामो · · ·ताहे गतामो, बंदियो य, खेमकुसलं पुच्छति, जथा सिरिअो पव्वइतो अब्भत्तठेणं कालगतो, महाविदेहे य पुच्छिका गता अज्जा, दो वि अज्झयणाणि भावणा विमोत्ती य आणिताणि। वंदित्ता गतानो'।-आवश्यकचूणिः । ५. "श्रीसङ्घायोपदां प्रैषीन्मन्मुखेन प्रसादभाक् । श्रीमान् सीमन्धरस्वामी चत्वार्यध्ययनानि च ॥९७।।
भावना च विमुक्तिश्च रतिकल्पमथापरम् । तथा विविक्तचर्या च तानि चैतानि नामतः ॥९८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org