SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना सप्तमं महापरिज्ञाध्ययनं सम्प्रति व्यवच्छिन्नम्' इति शीलाचार्यैः स्पष्टमेव वृत्तौ [पृ. 173] अभिहितम् । प्राचाराङ्गचूर्णिकारेण “संपतं महापरिण्णा ण पढिज्जई” इति अष्टमाध्ययनप्रारम्भेऽभिहितमिति चूणिकृतां समयेऽपि तस्य पठनपाठनपरंपरा नासीदिति स्पष्टमवसीयते । द्वितीये श्रुतस्कन्धे चतुषु चूलासु प्रथमायां चूलायां सप्ताध्ययनानि, तद्यथा१. पिंडेसणा, २. सेज्जा, ३. इरिया, ४. भासज्जायं, ५. वत्थेसणा, ६. पाएसणा, ७. प्रोग्गहपडिमा। द्वितीयायां चूलायां सप्तककाभिधानानि सप्ताध्ययनानि तद्यथा १. ठाणसत्तिक्कयो, २. णिसीहियासत्तिक्को, ३. उच्चारपासवणसत्तिक्को, ४. सद्दसत्तिक्को, ५. रूवसत्तिक्कयो, ६. परकिरियासत्तिक्कयो, ७. अण्णमण्णकिरियासत्तिक्कयो । अत्र प्राचाराङ्गचूर्ण्यनुसारेण तु '४ रूवसत्तिक्कयो, ५ सद्दसत्तिक्को ' इति क्रमोऽभिप्रेतः, तथैव च तत्र व्याख्या वर्तते । विशेषतो जिज्ञासुभिः श्री महावीरजैनविद्यालय (मुंबई) प्रकाशितस्य आचाराङ्गसूत्रस्य पृ० २३९ टि० १, पृ० २४७ टि० ८ इत्यत्र, प्रस्तावनायां पृ० २९ इन्यत्र च विलोकनीयम् ।। तृतीयायां चूलायामेकमेवाध्ययनम् - १ भावणा (भावना)। चतुर्थ्यामपि चूलायामेकमेवाध्ययनम् --१ विमुत्ती (विमुक्तिः)। प्रथमे श्रुतस्कन्धे ९+द्वितीये श्रुतस्कन्धे प्रथमचूलायां ७+द्वितीयचूलायां ७+तृतीयचूलायाम् १+चतुर्थचूलायाम् १ - इत्येवं सर्वसंख्यया पाचाराङ्गसूत्रे २५अध्ययनानि । अध्ययने उद्देशकाः अध्ययने उद्देशकाः ११ १७--२५ उपवहाणसुयं महापरिग्नेति पठ्यते तच्चेह नोपपद्यते उद्देशनकालसंख्याया विघटनात् महापरिज्ञायास्तत्र प्रथममुपादानात् पश्चादुपधानश्रुतस्येति । 'हवइ य स पंचचूलो' त्ति द्वितीयश्रुतस्कन्धे पञ्च चूडाः" नन्दिवृत्तिदुर्गपदव्याख्या पृ० १६३-१६४ । "द्वौ श्रुतस्कन्धौ अध्ययनसमुदायलक्षणो, पञ्चविंशतिरध्ययनानि । तद्यथा--'सत्थपरिण्णा १. . . 'महापरिणो ८ वहाणसुयं ९ ॥ इति प्रथमः श्रुतस्कन्धः। 'पिंडेसण १. . . . विमुत्ती १६ ॥' इति द्वितीयः श्रुतस्कन्धः । एवमेतानि निशीथवर्जानि पञ्चविंशतिरध्ययनानि ।” --समवायांगवृत्ति पृ० १०८ । १. वज्रस्वामिनां समये तु महापरिज्ञाध्ययनमासीत्, यथोक्तम्"जेणुद्धरिया विज्जा आगाससमा महापरिन्नायो । वंदामि अज्जवइरं अपच्छिमो जो सुयधराणं ॥" ॥७६९।।-आवश्यकनियुक्ति । "महापरिज्ञाध्ययनादाचाराङ्गान्तरस्थितात् । श्रीवजेणोद्धृता विद्या तदा गगनगामिनी ॥१४८॥"-प्रभावकचरित, वज्रप्रबन्ध । २. १ पिण्डैषणा, २ शय्या, ३ ईर्या, ४ भाषाजातम्, ५ वस्वैषणा, ६ पावैषणा, ७ अवग्रहप्रतिमा। ३. “सत्तेक्कगाणि इक्कसरगाणि पुव्वभणियं तहिं ठाणं ।” -प्राचाराङ्गनियुक्ति पृ० ४०७ । "सत्तिका (क्का?) बितिया चूला, दारा-पाणुपुब्बीए अहिगारा एगसरण (रेण? रगा?) । उद्धट्ठाणे पगतं, तं पुव्वभणितं लोगविजए।"-आचारानचूणि । “कीदृशे स्थाने कायोत्सर्ग-स्वाध्यायोच्चार-प्रश्रवणादि विधेयमित्येतत्प्रतिपादनाय द्वितीया चूडा, सा च सप्ताध्ययनात्मिकेति नियुक्तिकृद् दर्शयितुमाह-सत्ते० गाहा । सप्तककानि (सप्तकैकानि-शीखं २) एकसराणीति सप्ताध्ययनानि उद्देशकरहितानि भवन्तीत्यर्थः । तत्रापि पूर्व प्रथम स्थानाख्यमभिहितमित्यतस्तद् व्याख्यायते ।"--आचाराङ्गवृत्ति पृ ४०७ । ४. १ स्थानसप्तककः, २ निषीधिकासप्तककः, ३ उच्चार-प्रश्रवणसप्तककः, ४ शब्दसप्तककः, ५ रूपसप्तककः, ६ परक्रियासप्तैककः, ७ अन्योन्यक्रियासप्तककः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy