SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ 219 श्रीआचाराङ्गवृत्तिः (शी.) श्रुतस्कं०२ चूलिका १ पिण्डैष०१ उद्देशः२ ॥ ३२८॥ से भिक्खू वा २ जाव समाणे से जं पुण जाणिज्जा-असणं वा ४ समवाएसु वा पिंडनियरेसु वा इंदमहेसु वा खंदमहेसु वा एवं रुहमहेसु वा मुगुंदमहेसु वा भूयमहेसु वा जक्खमहेसु वा नागमहेसु वा थूभमहेसु वा चेइयमहेसु वा रुक्खमहेसु वा गिरिमहेसु वा दरिमहेसु वा अगडमहेसु वा तलागमहेसु वा दहमहेसु वा नइमहेसु वा सरमहेसु वा सागरमहेसु वा आगरमहेसु वा अन्नयरेसु वा तहप्पगारेसु विरूवरूवेसु महामहेसु वट्टमाणेसु बहवे समणमाहणअतिहिकिवणवणीमगे एगाओ उक्खाओ परिगसिज्जमाणे पेहाए दोहिं जाव संनिहिसंनिचयाओ वा परिएसिजमाणे पेहाए तहप्पगारं असणं वा ४ अपुरिसंतरकडं जाव नो पडिग्गाहिज्जा ।। अह पुण एवं जाणिजा दिन्नं जं तेसिं दायव्वं, अह तत्थ भुंजमाणे पेहाए गाहावइभारियं वा गाहावइभगिणिं वा गाहावइपुत्तं वा धूयं वा सुण्डं वा धाई वा दासं वा दासिं वा कम्मकरं वा कम्मकरिं वा से पुवामेव आलोइजा-आउसित्ति वा भगिणित्ति वा दाहिसि मे इत्तो अन्नयरं भोयणजायं, से सेवं वयंतस्स परो असणं वा ४ आहट्ट दलइजा तहप्पगारं असणं वा ४ सयं वा पुण जाइज्जा परो वा से दिजा फासुयं जाव पडिग्गाहिजा ।। (सू० १२) स भिक्षुर्यत्पुनरेवंभूतमाहारादिकं जानीयात्तदपुरुषान्तरकृतादिविशेषणमप्रासुकमनेषणीयमिति मन्यमानो नो गृह्णीयादिति सम्बन्धः, तत्र समवायो-मेलकः शङ्खच्छेदश्रेण्यादेः पिण्डनिकरः-पितृपिण्डो मृतकभक्तमित्यर्थः, इन्द्रोत्सवःप्रतीतः स्कन्दः-स्वामिकार्तिकेयस्तस्य महिमा-पूजा विशिष्टे काले क्रियते, रुद्रादयः-प्रतीताः नवरं मुकुन्दो-बलदेवः, तदेवंभूतेषु नानाप्रकारेषु प्रकरणेषु सत्सु तेषु च यदि यः कश्चिच्छ्रमणब्राह्मणातिथिकृपणवणीमगादिरापतति तस्मै सवस्मै दीयत इति मन्यमानोऽपुरुषान्तरकृतादिविशेषणविशिष्टमाहारादिकं न गृह्णीयात्, अथापि सर्वस्मै न दीयते तथाsपि जनाकीर्णमिति मन्यमान एवंभूते सङ्कडिविशेषे न प्रविशेदिति ॥ एतदेव सविशेषणं ग्राह्यमाह___ अथ पुनरेवंभूतमाहारादिकं जानीयात्, तद्यथा-दत्तं यत्तेभ्यः श्रमणादिभ्यो दातव्यम् , 'अर्थ' अनन्तर तत्र स्वत एव तान् गृहस्थान भुञ्जानान् 'प्रेक्ष्य' दृष्ट्वाऽऽहारार्थी तत्र यायात्, तान् गृहस्थान स्वनामग्राहमाह, तद्यथा-गृहपतिभार्यादिकं भुञ्जानं पूर्वमेव 'आलोकयेत्' पश्येत् प्रभु प्रभुसंदिष्टं वा ब्रूयात् , तद्यथा-आयुष्मति! भगिनि! इत्यादि, दास्यसि मह्यमन्यतरदोजनजातमिति, एवं वदते साधवे परो-गृहस्थ आहृत्याशनादिकं दद्यात्, तत्र च जनसङ्कलत्वात्सति वाऽन्यस्मिन् कारणे स्वत एव साधुर्याचेत्, अयाचितो वा गृहस्थो दद्यात्, तत्प्रासुकमेषणीयमिति मन्यमानो गृह्णीयादिति ॥ अन्यग्रामचिन्तामधिकृत्याह से भिक्खू वा २ परं अद्धजोयणमेराए संखडिं नञ्चा संखडिपडियाए नो अभिसंधारिजा गमणाए ॥ से भिक्खू वा २ पाईणं संखडि नचा पडीणं गच्छे अणाढायमाणे, पडीणं संखडि नचा पाईणं गच्छे अणाढायमाणे, दाहिणं संखडिं नचा उदीणं गच्छे अणाढायमाणे, उईणं संखडिं नचा दाहिणं गच्छे अणाढायमाणे, जत्थेव सा संखडि सिया, तंजहा—ामंसि वा नगरंसि वा खेडसि वा कब्बडंसि वा मडंबंसि वा पट्टणंसि वा आगरंसि वा दोणमुहंसि वा नेगमंसि वा आसमंसि वा संनिवेसंसि वा जाव रायहाणिसि वा संखडि संखडिपडियाए नो अभिसंधारिज्जा गमणाए, केवली बूया-आयाणमेयं संखडि संखडिपडियाए अभिधारेमाणे आहाकम्मियं वा उद्देसियं वा मीसजायं वा कीयगडं वा पामिश्चं वा अच्छिज्ज वा अणिसिटुं वा अभिडं वा आहद दिजमाणं भुंजिजा ॥ स भिक्षुः 'परं' प्रकर्षेणार्द्धयोजनमात्रे क्षेत्रे संखण्ड्यन्ते-विराध्यन्ते प्राणिनो यत्र सा सङ्कडिस्तां ज्ञात्वा तत्प्रतिज्ञया 'नाभिसंधारयेत्' न पर्यालोचयेत्तत्र गमनमिति, न तत्र गच्छेदितियावत् ॥ यदि पुन मेषु परिपाट्या पूर्वप्रवृत्तं गमनं तत्र च सङ्खडिं परिज्ञाय यद्विधेयं तद्दर्शयितुमाह| स भिक्षुर्यदि 'प्राचीनां' पूर्वस्यां दिशि संखडि जानीयात्ततः 'प्रतीचीनम्' अपरदिग्भागं गच्छेत् , अथ प्रतीचीनां जानीयात्ततः प्राचीनं गच्छेत् , एवमुत्तरत्रापि व्यत्ययो योजनीयः, कथं गच्छेत् ?–'अनाद्रियमाणः' सङ्खडिमनादर| यन्नित्यर्थः, एतदुक्तं भवति-यत्रैवासौ सङ्घडिः स्यात्तत्र न गन्तव्यमिति, क्व चासौ स्यादिति दर्शयति, तद्यथा-ग्रामे वा प्राचुर्येण ग्रामधर्मोपेतत्वात् , करादिगम्यो वा ग्रामः, नास्मिन् करोऽस्तीति नकर, धूलिप्राकारोपेतं खेटं, कर्बटं-कुनगरं, सर्वतोऽर्द्धयोजनात्सरेण स्थितग्राम मडम्बं पत्तनं-यस्य जलस्थलपथयोरन्यतरेण पर्याहारप्रवेशः, आकरः-ताम्रादेरुसत्तिस्थानं, द्रोणमुख-यस्य जलस्थलपथावुभावपि, निगमा-वणिजस्तेषां स्थानं नैगमम् , आश्रमं यत्तीर्थस्थानं, राज|धानी-यत्र राजा स्वयं तिष्ठति, सन्निवेशो यत्र प्रभूतानां भाण्डानां प्रवेश इति, तत्रैतेषु स्थानेषु सङ्खडिं ज्ञात्वा सङ्खडिप्रतिज्ञया न गमनम् 'अभिसंधारयेत्' न पर्यालोचयेत्, किमिति ?, यतः केवली ब्रूयात् 'आदानमेतत्' कर्मोपादानमेतदिति, पाठान्तरं वा 'आययणमेय'ति आयतनं-स्थानमेतद्दोषाणां यत्सङ्खडीगमनमिति, कथं दोषाणामायतन मिति दर्शयति-'संखडि संखडिपडियाए'त्ति, या या सङ्कडिस्तां ताम् 'अभिसन्धारयतः' तत्प्रतिज्ञया गच्छतः साधोरवश्यमे ॥३२८॥ या प्राचीन गच्छेत् , एवमुत्तमडिः स्यात्तत्र न गन्तबस्तीति नकरं, धूलियाहारप्रवेशः, आकर भिसंधारयेत्न पत्र प्रभूतानां भावणिजस्तेषां स्थानतरण पर्याहारप्रवेश Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy