SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी० ) ॥ ३२६ ॥ श्रीआचाराङ्गवृत्तिः (शी०) ॥ ३२७ ॥ 218 स भिक्षुर्यावद्गृहपतिकुलं प्रवेष्टुकामः से- तच्छब्दार्थे स च वाक्योपन्यासार्थः, यानि पुनरेवंभूतानि कुलानि जानीयात्, तद्यथा - इमेषु कुलेषु 'खलु' वाक्यालङ्कारे 'नित्यं' प्रतिदिनं 'पिण्डः' पोषो दीयते, तथा अग्रपिण्डः- शाल्योदनादेः प्रथममुद्धृत्य भिक्षार्थी व्यवस्थाप्यते सोऽप्रपिण्डो नित्यं भागः- अर्धपोषो दीयते, तथा नित्यमुपार्द्धभागः - पोषचतुर्थभागः, तथाप्रकाराणि कुलानि 'नित्यानि' नित्यदानयुक्तानि नित्यदानादेव 'निइउमाणाइ'न्ति नित्यम् 'उमाणं' ति प्रवेशः स्वपक्षपरपक्षयोर्येषु तानि तथा, इदमुक्तं भवति-नित्यलाभात्तेषु स्वपक्षः- संयतवर्गः परपक्ष:-अपरभिक्षाचरवर्गः सर्वो भिक्षार्थ प्रविशेत्, तानि च बहुभ्यो दातव्यमिति तथाभूतमेव पाकं कुर्युः, तत्र च षट्रायवधः, अल्पे च पाके तदन्तरायः कृतः | स्यादित्यतस्तानि नो भक्तार्थ पानार्थ वा प्रविशेन्निष्क्रामेद्वेति ॥ सर्वोपसंहारार्थमाह 'एतदिति यदादेरारभ्योक्तं खलुशब्दो वाक्यालङ्कारार्थः, एतत्तस्य भिक्षोः 'सामग्र्यं' समग्रता यदुमोसादनग्रहणैपणासंयोजनाप्रमाणेङ्गालधूमकारणैः सुपरिशुद्धस्य पिण्डस्योपादानं क्रियते तज्ज्ञानाचारसामग्र्यं दर्शनचारित्रतपोवीर्याचारसंपन्नता चेति, अथवैतत्सामग्र्यं सूत्रेणैव दर्शयति-यत् 'सर्वार्थैः' सरसविरसादिभिराहारगतैः यदिवा रूपरसगन्धस्पर्शगतैः सम्यगितः समितः, संयत इत्यर्थः, पञ्चभिर्वा समितिभिः समितः शुभेतरेषु रागद्वेषविरहित इतियावत्, एवंभूतश्च सह हितेन वर्त्तत इति सहितः सहितो वा ज्ञानदर्शनचारित्रैः एवंभूतश्च सदा 'यतेत' संयमयुक्तो भवेदित्युपदेशः, ब्रवीमीति जम्बूनामानं सुधर्मस्वामीदमाह - भगवतः सकाशाच्छ्रुत्वाऽहं ब्रवीमि न तु स्वेच्छयेति । शेषं पूर्ववदिति ॥ पिण्डेषणाध्ययनस्य प्रथमोद्देशकः समाप्तः ॥ उक्तः प्रथमोदेशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोदेश के पिण्डः प्रतिपादितस्तदिहापि तद्गतामेव विशुद्धकोटिमधिकृत्याह सेभिक्खू वा भिक्खुणी वा गाहावइकुलं पडवायपांडयाए अणुपविट्टे समाणे से जं पुण जाणिजा असणं वा ४ अहमि पोसहिएसु वा अद्धमासिएस वा मासिएस वा दोमासिएसु वा तेमासिएसु वा चाउम्मासिएस वा पंचमासिएसु वा छम्मासिएस वा उऊ वा उसंधीसु वा उउपरियट्टेसु वा बहवे समणमाहणअतिहिकिवणवणीमगे एगाओ उक्खाओ परिएसिज्जमाणे पेहाए दोहिं उक्खाहिं परिएसिज्जमाणे पेहाए तिहिं उक्खाहिं परिए सिजमाणे पेहाए कुंभीमुहाओ वा कलोवाइओ वा संनिहिसंनिचयाओ वा परिएसिज्जमाणे पेहाए तहपगारं असणं वा ४ अपुरिसंतरकडं जाव अणासेवियं अफासुयं जाव नो पडिग्गाहिज्जा ॥ अह पुण एवं जाणिज्जा पुरिसंतरकडं जाव आसेवियं फासूयं पडिग्गाहिज्जा ॥ ( सू० १० ) स भावभिक्षुर्यत्पुनरशनादिकमाहारमेवंभूतं जानीयात्, तद्यथा - अष्टम्यां पौषधः - उपवासादिकोऽष्टमीपौषधः स विद्यते येषां तेऽष्टमीपौषधिका - उत्सवाः तथाऽर्द्धमासिकादयश्च ऋतुसन्धिः - ऋतोः पर्यवसानम् ऋतुपरिवर्त्तः - ऋत्वन्तरम्, इत्यादिषु प्रकरणेषु बहून् श्रमणब्राह्मणातिथिकृपणवणी मगाने कस्मात्पिठरकाद् गृहीत्वा कूरादिकं 'परिएसिजमाणे'त्ति तद्दीयमानाहारेण भोज्यमानान् 'प्रेक्ष्य' दृष्ट्वा, एवं द्विकादिकादपि पिठरकाद् गृहीत्वेत्यायोजनीयमिति, पिठरक एव सङ्कटमुखः कुम्भी, 'कलोवाइओ वत्ति पिच्छी पिटकं वा तस्माद्वैकस्मादिति, सन्निधेः- गोरसादेः संनिचयस्तस्माद्वेति, ['तओ एवंविहं जावंतियं पिंडं समणादीणं परिएसिजमाणं पेहाए' त्ति, ] एवंभ्रतं पिण्डं दीयमानं दृष्ट्वा अपुरुषा न्तरकृतादिविशेषणमप्रासुकमनेषणीयमिति मन्यमानो लाभे सांते न प्रतिगृह्णीयादिति ॥ एतदेव सविशेषणं ग्राह्यमाहअथ पुनः स भिक्षुरेवंभूतं जानीयात्तत्तो गृह्णीयादिति सम्बन्धः, तद्यथा- पुरुषान्तरकृतमित्यादि ॥ साम्प्रतं येषु कुलेषु भिक्षार्थी प्रवेष्टव्यं तान्यधिकृत्याह Jain Education International से भिक्खू वा २ जाव ससाणे से जाई पुण कुलाई जाणिज्जा, तंजहा — उग्गकुलाणि वा भागकुलाणि वा राइन्नकुलाणि वा खत्तियकुलाणि वा इक्खागकुलाणि वा हरिवंसकुलाणि वा एसियकुलाणि वा वेसियकुलाणि वा गंडागकुलाणि वा कोटागकुलाणि वा गामरक्खकुलाणि वा बुक्कासकुलाणि वा अन्नयरेसु वा तहप्पगारेसु कुलेसु अदुगुछिए अगरहिएस असणं वा ४ फासूयं जाव पडिग्गाहिज्जा ।। (सू० ११ ) म भिक्षुर्भिक्षार्थी प्रवेष्टुकामो यानि पुनरेवंभूतानि कुलानि जानीयात्तेषु प्रविशेदिति सम्बन्धः, तद्यथा - उग्रा-आरक्षिकाः, भोगा-राज्ञः पूज्यस्थानीयाः, राजन्याः - सखिस्थानीयाः, क्षत्रिया - राष्ट्रकूटादयः, इक्ष्वाकवः - ऋषभस्वामिवंशिकाः, हरिवंशाः- हरिवंशजाः अरिष्ठनेमिवंशस्थानीयाः, 'एसिअ'त्ति गोष्ठाः, वैश्या-वणिजः, गण्डको - नापितः, यो हि ग्राम उद्घोषयति, कोट्टागाः - काष्ठतक्षका वर्द्धकिन इत्यर्थः, बोक्कशालिया:- तन्तुवायाः कियन्तो वा वक्ष्यन्ते इत्युपसंहरति-अन्यतरेषु वा तथाप्रकारेष्वजुगुप्सितेषु कुलेषु, नानादेशविनेयसुखप्रतिपत्त्यर्थ पर्यायान्तरेण दर्शयति- अगर्थेषु, यदिवा जुगुप्सितानि चर्मकारकुलादीनि गर्हाणि - दास्यादिकुलानि तद्विपर्ययभूतेषु कुलेषु लभ्यमानमाहारादिकं प्रासुक मेषणीयमिति मन्यमानो गृह्णीयादिति ॥ तथा For Private Personal Use Only श्रुतस्कं०२ चूलिका १ पिण्डैप० १ उद्देशः १ ॥ ३२६ ॥ श्रुतस्कं० २ चूलिका १ पिण्डैप० १ उद्देशः २ ॥ ३२७ ॥ www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy