________________
श्रीआचाराङ्गवृत्तिः
(शी ० )
॥ ३१६ ॥
211
च्यन्ते, अधिकृताचाराङ्गस्य ज्ञानक्रियात्मकतयोभयरूपत्वात् ज्ञानक्रियाधीनत्वान्मोक्षस्य तदर्थं च शास्त्रप्रवृत्तेरिति भावः, अत्र च परस्परतः सव्यपेक्षावेव ज्ञानक्रियानयौ विवक्षितकार्यसिद्धयेऽलं नान्योऽन्यनिरपेक्षा वित्येतत्प्रपञ्श्चयते, तत्र ज्ञाननयाभिप्रायोऽयम् - यथा ज्ञानमेव प्रधानं न क्रियेति, समस्तहेयोपादेयहानोपादानप्रवृत्तेर्ज्ञानाधीनत्वात् तथा हि सुनिश्चितात् सम्यग्ज्ञानात्मवृत्तोऽर्थक्रियार्थी न विसंवाद्यते, तथा चोक्तम्- “विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता । मिथ्याज्ञानात् प्रवृत्तस्य, फलासंवाददर्शनाद् ॥ १ ॥" इत्यादि, संविनिष्ठत्वाच्च विषयव्यवस्थितीनां तत्पूर्वकसक लदुःखप्रहीणत्वाच्चान्वयव्यतिरेकदर्शनाच्च ज्ञानस्य प्राधान्यं तथाहि - ज्ञानाभावेऽनर्थपरिहाराय प्रवर्त्तमानोऽपि तत्करोति येन नितरां पतङ्गवदनर्थेन संयुज्यते, ज्ञानसद्भावे च समस्तानप्यर्थानर्थसंशयांश्च यथाशक्तितः परिहरति, तथा चागमः - 'पढमं नाणं तओ' इत्यादि, एवं तावत्क्षायोपशमिकं ज्ञानमाश्रित्योक्तं, क्षायिकमप्याश्रित्य तदेव प्रधानं यस्माद्भगवतः प्रणतसुरासुरमुकुटकोटिवेदिकाङ्कितचरणयुगलपीठस्य भवाम्भोधितटस्थस्य प्रतिपन्नदीक्षस्य त्रिलोकबन्धोस्तपश्चरणवतोऽपि न तावदपवर्गप्राप्तिः सञ्जायते यावज्जीवाजी वाद्यखिलवस्तुपरिच्छेदरूपं घनघातिकर्म्मसंहतिक्षयात्केवलज्ञानं नोत्पन्नमित्यतो ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वादिति । अधुना क्रियानयाभिप्रायोऽभि धीयते, तद्यथा- क्रियैव प्रधान मैहिकामुष्मिक फलप्राप्तिकारणं, युक्तियुक्तत्वात् यस्माद्दर्शितेऽपि ज्ञानेनार्थक्रियासमर्थेऽर्थे प्रमाता प्रेक्षापूर्वकारी यदि हानोपादानरूपां प्रवृत्तिक्रियां न कुर्यात् ततो ज्ञानं विफलतामियात् तदर्थत्वात्तस्येति, यस्य हि यदर्थे प्रवृत्तिस्तत्तस्य प्रधानमितरदप्रधानमिति न्यायात्, संविदा विषयव्यवस्थानस्याप्यर्थक्रियार्थत्वात्क्रियायाः प्राधान्यम्, अन्वयव्यतिरेकावपि क्रियायां समुपलभ्येते, यतः - सम्यचिकित्साविधिज्ञोऽपि यथार्थौषधावाता - वपि उपयोगक्रियारहितो नोल्लाघतामेति, तथा चोक्तम् - " शास्त्राण्यधीत्यापि भवन्ति मूर्खा, यस्तु क्रियावान् पुरुषः स विद्वान् । संचिन्त्यतामौषधमातुरं हि किं ज्ञानमात्रेण करोत्यरोगम् १ ॥ १ ॥” तथा “क्रियैव फलदा पुसां, न ज्ञानं | फलदं नतम् । यतः स्त्रीभक्ष्यभोगज्ञो न ज्ञानात्सुखितो भवेत् ॥ १ ॥ इत्यादि, तत्क्रियायुक्तस्तु यथाऽभिलषितार्थभाग्भवत्यपि, कुत इति चेत् न हि दृष्टेऽनुपपन्नं नाम, न च सकललोकप्रत्यक्ष सिद्धेऽर्थेऽन्यत्प्रमाणान्तरं मृग्यत इति, तथाऽऽमुष्मिकफलप्राध्यार्थनाऽपि तपश्चरणादिका क्रियैव कर्तव्या, मौनीन्द्रं प्रवचनमप्येवमेव व्यवस्थितं यत उक्तं'चेइयकुलगणसङ्के आयरियाणं च पवयण सुए य । सव्र्व्वसुऽवि तेण कथं तवसञ्जममुज्जमन्तेणं ॥ १ ॥” इतश्चैतदेवमङ्गीकर्तव्यं यतस्तीर्थकृदादिभिः क्रियारहितं ज्ञानमध्यफलमुक्तं, उक्तं च- 'सुबहु पि सुअमधीतं किं काहि चरणविप्पहूण ( मुक्क )स्स ? | अंधस्स जह पलित्ता दीवस तसहस्सकोडीवि ॥ १ ॥ " दृशिक्रियापूर्वकक्रियाविकलत्वात्तस्येति भावः, न केवलं क्षायोपशमिकाज्ज्ञानात्क्रिया प्रधाना, क्षायिकादपि, यतः सत्यपि जीवाजीवाद्यखिलवस्तुपरिच्छेद के ज्ञाने समुल्लसिते न व्युपरत क्रियानिवर्त्तिध्यानक्रियामन्तरेण भवधारणीयकम्र्मोच्छेदः, तदच्छेदाच्च न मोक्षावाप्तिरित्यतो न ज्ञानं प्रधानं, चरणक्रियायां पुनरैहिकामुष्मिकफलावाप्तिरित्यतः सैव प्रधानभावमनुभवतीति, तदेवं ज्ञानमृते सम्यक्रियाया अभावः तदभावाच्च तदर्थप्रवृत्तस्य ज्ञानस्य वैफल्यम् । एवमादीनां युक्तीनामुभयत्राप्युपलब्धेर्व्याकुलितमतिः
१ चैत्यकुलगणसङ्के आचार्ये च प्रवचने श्रुते च । सर्वेष्वपि तेन कृतं तपःसंयमयोरयच्छता ॥ १ ॥ २ सुबहृपि श्रुतमधीतं किं करिष्यति विप्रहीणचरणस्य ? । अन्धस्य यथा प्रदीप्ता दीपशतसहस्र कोट्यपि ॥ १ ॥
शिष्यः पृच्छति - किमिदानीं तत्त्वमस्तु ?, आचार्य आह- नन्वभिहितमेव विस्मरणशीलो देवानांप्रियो यथा ज्ञानक्रियानयौ परस्परसव्यपेक्षौ सकलकर्मकन्दोच्छेदात्मकस्य मोक्षस्य कारणभूताविति, प्रदीप्तसमस्त नगरान्तर्वर्त्ति परस्परोपकार्यो|पकारकभावावातानाबाधस्थानौ पवन्धाविवेति, तथा चोक्तम् – “संजोयसिद्धीऍ फलं वदन्तीत्यादि, स्वतन्त्रप्रवृत्तौ तु न विवक्षितकार्य साधयत इत्येतच्च प्रसिद्धमेव, यथा 'हयं णाण' मित्यादि, आगमेऽपि सर्वनयोपसंहारद्वारेणायमेवार्थोऽभिहितो, यथा- 'सैब्वेसिंपि णयाणं बहुविहवत्तवयं णिसामेत्ता । तं सव्वणयविसुद्धं जं चरणगुणडिओ साहू ॥ १ ॥ त्ति', तदेतदाचारानं ज्ञानक्रियात्मकं अधिगतसम्यक्पथानां कुश्रुतसरित्कषायझषकुलाकुलं प्रियविप्रयोगा प्रिय संप्रयोगाद्यनेक व्यसनों पनिपातमहावर्त्त मिथ्यात्वपवनेरणोपस्थापितभयशोकहास्यरत्यरत्यादितरङ्गं विश्रसावेलाचितं व्याधिशतन चक्रालयं महागम्भीरं भयजननं पश्यतां त्रासोत्पादकं महासंसारार्णवं साधूनामुत्तितीर्षतां तदुत्तरणसमर्थ| मव्याहतं यानपात्रमिति, अतो मुमुक्षुणाऽऽत्यन्तिकै कान्तिका नाबाधं शाश्वतमनन्तमजरममर मक्षयमव्याबाधमुपरतसमस्तद्वन्द्वं सम्यग्दर्शनज्ञानत्रतचरणक्रियाकलापोपेतेन परमार्थपरमकार्यमनुत्तमं मोक्षस्थानं लिप्सुना समालम्बनीयमिति तदात्मकस्य ब्रह्मचर्याख्यश्रुतस्कन्धस्य निर्वृतिकुलीनश्री शीलाचार्येण तत्त्वादित्यापरनाम्ना वाहरिसाधुसहायेन कृता टीका परिसमाप्तेति ॥ श्लोकतो ग्रन्थमानम् ॥ ९७६ ॥
१ संयोगसिद्धेः फलं वदन्ति (नैवैकचक्रेण रथः प्रयाति । अन्धव पक्ष बने समेत्य तौ संप्रयुक्तो नगरं प्रविष्टौ ॥ १ ॥ ) २ हतं ज्ञानं क्रिया हीनं. ३ सर्वेषामपि नयानां बहुविध वक्तव्यतां निशम्य । तत्सर्वनयविशुद्धं यश्चरणगुण स्थितः साधुः ॥ १ ॥
Jain Education International
For Private Personal Use Only
नयवि
चारः
।। ३१६॥
www.jainelibrary.org