________________
212
नयविचारः
श्रीआचाराङ्गवृत्तिः (शी०)
द्वासप्तत्यधिकेषु हि शतेषु सप्तसु गतेषु गुप्तानाम् । संवत्सरेपु मासि च भाद्रपदे शुक्लपश्चम्याम् ॥१॥ शीलाचार्येण कृता गम्भूतायां स्थितेन टीकैषा । सम्यगुपयुज्य शोध्यं मात्सर्यविनाकृतैरायः॥२॥ कृत्वाऽऽचारस्य मया टीका यत्किमपि संचितं पुण्यम् । तेनामुयाजगदिदं निवृतिमतुला सदाचारम् ॥३॥ वर्णः पदमथ वाक्यं पद्यादि च यन्मया परित्यक्तम्। तच्छोधनीयमन्त्र च व्यामोहः कस्य नो भवति? ॥४॥
तत्त्वादित्यापराभिधानश्रीमच्छीलाचार्यविहिता वृत्तिब्रह्मचर्यश्रुतस्कन्धस्य आचाराङ्गस्य समाप्ता॥
॥३१७॥
ROCC00402040520RRORRECTROPOSANA
इति श्रीमद्भद्रबाहुस्वामिसंहब्धनियुक्तिसंकलिताचाराङ्गप्रथमश्रुतस्कन्धस्य वृत्तिः श्रीवाहरिगणिविहितसाहाय्यकेन श्रीशीलाङ्काचार्येण तत्त्वा
दित्यापराभिधानेन विहिताऽऽयाता संपूर्तिम् ।
॥३१७॥
॥ अहम् ।। जयत्यनादिपर्यन्तमनेकगुणरत्नभृत् । न्यत्कृताशेषतीर्थेशं तीर्थ तीर्थाधिपैर्नुतम् ॥१॥ नम' श्रीवर्द्धमानाय, सदाचारविधायिने । प्रणताशेषगीर्वाणचूडारत्नार्चितहिये ॥२॥
आचारमेरोर्गदितस्य लेशतः, प्रवच्मि तच्छेषिकचूलिकागतम् ।
आरिप्सितेऽर्थे गुणवान् कृती सदा, जायेत निःशेषमठोषितक्रियः॥३॥ उक्तो नवब्रह्मचर्याध्ययनात्मक आचारश्रुतस्कन्धः, साम्प्रतं द्वितीयोऽयश्रुतस्कन्धः समारभ्यते, अस्य चायमभिसम्बन्धः-उक्तं प्रागाचारपरिमाणं प्रतिपादयता, तद्यथा-"नवेबंभचेरमइओ अट्ठारसपयसहस्सिओ वेओ । हवइ य सपंचचूलो बहुबहुअयरो पयग्गेणं ॥१॥" तत्राद्ये श्रुतस्कन्धे नवब्रह्मचर्याध्ययनानि प्रतिपादितानि, तेषु च न समस्तोऽपि विवक्षितोऽर्थोऽभिहितः अभिहितोऽपि सङ्केपतोऽतोऽनभिहितार्थाभिधानाय सङ्केपोक्तस्य च प्रपञ्चाय तदनभूताश्चतस्रश्चडा उक्तानुक्तार्थसमाहिकाः प्रतिपाद्यन्ते, तदात्मकश्च द्वितीयोऽग्रश्रुतस्कन्धः, इत्यनेन सम्बन्धेनायातस्यास्य व्याख्या प्रतन्यते, तत्र नामस्थापने अनादृत्य द्रव्याग्रनिक्षेपार्थ नियुक्तिकृदाह
१°तविशेष. २ °नतम् ३ वीरनाथाय ४ °ध्ये ५ नवब्रह्मचर्यमयोऽध्यादशपदसहस्रको वेदः । भवति च सपश्चचूलो बहुबहुतः पदाप्रेण ॥१॥
श्रुतस्क०२
उपक्रमः
श्रीआचा- दव्योगाहण आएस काल कमगणणसंचए भावे । अग्गं भावे उ पहाणवहुये उवगारओ तिविहं ॥४॥ राङ्गवृत्तिः (शी०)
तत्र द्रव्याग्रं द्विधा-आगमतो नोआगमत इत्यादि भणित्वा व्यतिरिक्त त्रिधा-सचित्ताचित्तमिश्रद्रव्यस्य वृक्षकुन्ता
देर्यदग्रमिति, अवगाहनानं यद्यस्य द्रव्यस्याधस्तादवगाढं तदवगाहनाग्रं, तद्यथा-मनुष्यक्षेत्रे मन्दरवर्जानां पर्वतानामु॥३१८॥ च्छ्रयचतुर्भागो भूमाववगाढ इति मन्दराणां तु योजनसहस्रमिति, आदेशाग्रम् आदिश्यत इत्यादेशः-व्यापारनियोजना,
अग्रशब्दोऽत्र परिमाणवाची, ततश्च यत्र परिमितानामादेशो दीयते तदादेशाग्रं, तद्यथा-त्रिभिः पुरुषैः कर्म कारयति तान् वा भोजयतीति, कालाग्रम्-अधिकमासकः, यदिवाऽनशब्दः परिमाणवाचकस्तत्रातीतकालोऽनादिरनागतोऽनन्तः सर्वाद्धा वा, क्रमाग्रं तु क्रमेण-परिपाट्याऽयं क्रमाग्रं, एतद् द्रव्यादि चतुर्विधं, तत्र द्रव्याग्रमेकाणुकाद् व्यणुकं यणुकाद् व्यणुकमित्येवमादि । क्षेत्राग्रम्-एकप्रदेशावगाढाद् द्विप्रदेशावगाढं, द्विप्रदेशावगाढात्रिप्रदेशावगाढमित्यादि । कालाग्रमेकसमयस्थितिकाद् द्विसमयस्थितिकं द्विसमयस्थितिकात्रिसमयस्थितिकमित्यादि, भावाग्रमेकगुणकृष्णाद् द्विगुणकृष्णं द्विगुण कृष्णात्रिगुणकृष्णमित्यादि, गणनाग्रं तु सङ्ख्याधर्मस्थानात्स्थानं, दशगुणमित्यर्थः, तद्यथा-एको दश शतं सहस्रमित्यादि, सञ्चयाग्रं तु सञ्चितस्य द्रव्यस्य यदुपरि तत्सञ्चयाग्रं, यथा ताम्रोपस्करस्य सश्चितस्योपरि शङ्खः,
भावाग्रं तु त्रिविधं-प्रधानायं १ प्रभूताग्रम् २ उपकाराग्रं ३ च, तत्र प्रधानानं सचित्तादि त्रिधा, सचित्तमपि द्विपदाददिभेदाभिधैव, तत्र द्विपदेषु तीर्थकरश्चतुष्पदेषु सिंहः अपदेषु कल्पवृक्षा, अचित्तं वैडूर्यादि मिनं तीर्थकर एवालङ्कृत
MARUSALAM
॥३१८॥
स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org