________________
210
उपधा०९
श्रीआचाराङ्गवृत्तिः (शी०)
उद्देशका
॥३१४॥
1994 NAGARCANARAS
वितवानिति ॥ किं च-अथ भिक्षां पर्यटतो भगवतः पथि वायसा:-काका 'दिगिछत्ति बुभुक्षा तयाऽऽर्ता बुभुक्षार्ता | ये चान्ये रसैषिणः-पानार्थिनः कपोतपारापतादयः सत्त्वाः तथा ग्रासस्यैषणार्थम्-अन्वेषणार्थ च ये तिष्ठन्ति तान् सततम्-अनवरतं निपतितान् भूमौ 'प्रेक्ष्य' दृष्ट्वा तेषां वृत्तिव्यवच्छेदं वर्जयन्मन्दमाहारार्थी पराक्रमते ॥ किं च-अथ ब्राह्मणं लाभार्थमुपस्थितं दृष्ट्वा तथा श्रमणं शाक्याजीवकपरिवाट्तापसनिर्ग्रन्थानामन्यतमं 'ग्रामपिण्डोलक' इति भिक्षयोदरभरणार्थ ग्राममाश्रितस्तुन्दपरिमृजो द्रमक इति, तथाऽतिथिं वा-आगन्तुकम् तथा श्वपाक-चाण्डालं मार्जारी वा कुकुरं वापि-श्वानं विविधं स्थितं 'पुरतः' अग्रतः समुपलभ्य तेषां वृत्तिच्छेदं वर्जयन् मनसो दुष्प्रणिधानं च वर्जयन् मन्द-मनाक् तेषां त्रासमकुर्वन् भगवान् पराक्रमते, तथा परांश्च कुन्थुकादीन् जन्तून् अहिंसन् ग्रासमन्वेषितवानिति ॥ किंच
अवि सूइयं वा सुकं वा सीयं पिंडं पुराणकुम्मासं । अदु बुक्कसं पुलागं वा लद्धे पिंडे अलद्धे दविए ॥ १३ ॥ अवि झाइ से महावीरे आसणत्थे अकुक्कुए झाणं । उहूं अहे तिरियं च पेहमाणे समाहिमपडिन्ने ॥ १४ ॥ अकसाई विगयगेही य सहरूवेसु अमुच्छिए झाई । छउमत्थोऽवि परकममाणो न पमायं सइंपि कुश्वित्था ॥ १५ ॥ सय- * मेव अभिसमागम्म आयतजोगमायसोहीए । अभिनिव्वुडे अमाइल्ले आवकहं भगवं समियासी ॥ १६ ॥ एस विही अणु० रीयइ ॥ १७ ॥ तिबेमि ९-४ ब्रह्मचर्यश्रुतस्कन्धे
नवमाध्ययने चतुर्थ उद्देशकः ॥ ९॥ 'सूइय'त्ति दध्यादिना भक्तमाद्रीकृतमपि तथाभूतं शुष्कं वा-वल्लचनकादि शीतपिण्डं वा-पर्युषितभक्तम् तथा 'पुराणकुल्माषं वा' बहुदिवससिद्धस्थितकुल्माषं, 'बुक्कसं'ति चिरन्तनधान्यौदनं, यदिवा पुरातनसक्तुपिण्डं, यदिवा बहुदिवससम्भृतगोरसं गोधूममण्डकं चेति, तथा 'पुलाकं' यवनिष्पावादि, तदेवम्भूतं पिण्डमवाप्य रागद्वेषविरहाद् द्रविको भगवान् तथाऽन्यस्मिन्नपि पिण्डे लब्धेऽलब्धे वा द्रविक एव भगवानिति, तथाहि-लब्धे पर्याप्ते शोभने वा नोत्कर्ष याति, नाप्यलव्धेऽपर्याप्तेऽशोभने वाऽऽत्मानमाहारदातारं वा जुगुप्सते ॥ किं च-तस्मिंस्तथाभूत आहारे लब्ध उपभुक्तेऽलब्धे चापि ध्यायति स महावीरो, दुष्प्रणिधानादिना नापध्यानं विधत्ते, किमवस्थो ध्यायतीति दर्शयति-आसनस्थःउत्कुटु कगोदोहिकावीरासनाद्यवस्थोऽकौत्कुचः सन्-मुखविकारादिरहितो ध्यान-धर्मशुक्लयोरन्यतरदारोहति, किं पुनस्तत्र ध्येयं ध्यायतीति दर्शयितुमाह-ऊर्ध्वमधस्तिर्यग्लोकस्य ये जीवपरमाण्वादिका भावा व्यवस्थितास्तान् द्रव्यपर्यायनित्यानित्यादिरूपतया ध्यायति, तथा समाधिम्-अन्तःकरणशुद्धिं च प्रेक्षमाणोऽप्रतिज्ञो ध्यायतीति ॥ किं च-न कषाय्यक|पायी तदुदयापादितभ्रकुट्यादिकार्याभावात् , तथा विगता गृद्धिः-गार्थ्य यस्यासौ विगतगृद्धिः, तथा शब्दरूपादिष्विन्द्रियार्थेष्वमूच्छितो ध्यायति, मनोऽनुकूलेषु न रागमुपयाति नापीतरेषु द्वेषवशगोऽभूदिति, तथा छद्मनि-ज्ञानदर्शना
॥३१४॥
*
**
व्यादिकार्याभावातन्तःकरणशुद्धिं च भावादिका भावा व्यवस्योरन्यतरदारोहति,
*
श्रीभाचाराङ्गवृत्तिः (शी०)
॥३१५॥
RAKA
वरणीयमोहनीयान्तरायात्मके तिष्ठतीति छद्मस्थ इत्येवंभूतोऽपि विविधम्-अनेकप्रकारं सदनुष्ठाने पराक्रममाणो न प्रमाद | उपधा०९ -कषायादिकं सकृदपि कृतवानिति ॥ किंच-स्वयमेव-आत्मना तत्त्वमभिसमागम्य विदितसंसारस्वभावः स्वयंबुद्धः सं
४ उद्देशका४ स्तीर्थप्रवर्त्तनायोद्यतवान् , तथा चोक्तम्-"आदित्यादिविबुधविसरः सारमस्यां त्रिलोक्यामास्कन्दन्तं पदमनुपम यच्छिवं त्वामुवाच । तीर्थ नाथो लघुभवभयच्छेदि तूर्णं विधत्स्वेत्येतद्वाक्यं त्वदधिगतये नो किमु स्यान्नियोगः ॥१॥" इत्यादि, कथं तीर्थप्रवर्तनायोद्यत इति दर्शयति-'आत्मशुद्ध्या' आत्मकर्मक्षयोपशमोपशमक्षयलक्षणयाऽऽयतयोग-सुप्रणिहितं मनोवाक्कायात्मकं विधाय विषयकषायाद्यपशमादिभिनिवृत्त:-शीतीभूतः, तथा अमायावी-मायारहित उपलक्षणार्थत्वादस्याक्रोधाद्यपि द्रष्टव्यं, 'यावत्कथ मिति यावज्जीवं भगवान् पञ्चभिः समितिभिः समितः तथा तिसृभिर्गुप्तिभिर्गुप्तश्चासीदिति॥श्रुतस्कन्धाध्ययनोद्देशकार्थमुपसंजिहीर्षुराह-एषः-अनन्तरोक्तः शस्त्रपरिज्ञादेरारभ्य योऽभिहितः सोऽनुक्रान्तःअनुष्ठित आसेवनापरिज्ञया सेवितः, केन?-श्रीवर्द्धमानस्वामिना 'मतिमता' ज्ञानचतुष्टयान्वितेन बहुशः-अनेकशोऽप्रतिज्ञेन-अनिदानेन भगवता-ऐश्वर्यादिगुणोपेतेन, अतोऽपरोऽपि मुमुक्षुरनेनैव भगवदाचीर्णेन मोक्षप्रगुणेन पथाऽऽत्महितमाचरन् रीयते-पराक्रमते, इतिरधिकारपरिसमाप्तौ, ब्रवीमीति सुधर्मस्वामी जम्बूस्वामिने कथयति-सोऽहं ब्रवीमि येन मया भगवद्वदनारविन्दादर्थजातं निर्यातमवधारितमिति ॥ उक्तोऽनुगमः सूत्रालापकनिष्पन्ननिक्षेपश्च ससूत्रस्पर्शनियुक्तिकः, साम्प्रतं नयाः, ते च नैगमसङ्ग्रहव्यवहारऋजुसूत्रशब्दसमभिरूद्वैवंभूतभेदभिन्नाः सामान्यतः सप्त, ते चान्यत्र ॥३१५॥ सम्मत्यादी लक्षणतो विधानतश्च न्यक्षेणाभिहिता इति, इह पुनस्त एव ज्ञानक्रियानयान्तर्भावद्वारेण समासतःप्रो
R
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org