SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ 209 * * * ACANCCCCCAR-MARCC464HCROSAROKAR *** दर्शयति-सच भगवान् स्पृष्टो वा श्वभक्षणादिभिरस्पृष्टो वा कासश्वासादिभिर्नासौ चिकित्सामभिलपति, न द्रव्योषधाधुउपयोगतः पीडोपशमं प्रार्थयतीति॥ एतदेव दर्शयितुमाह-गात्रस्य सम्यक् शोधनं संशोधनं-विरेचनं निःसोत्रादिभिः तथा वमनं मदनफलादिभिः, चशब्द उत्तरपदसमुच्चयार्थो, गात्राभ्यङ्गनं च सहस्रपाकतैलादिभिः स्वानं चोद्वर्तनादिभिः संबाधनं च हस्तपादादिभिस्तस्य-भगवतो न कल्पते, तथा सर्वमेव शरीरमशुच्यात्मकमित्येवं 'परिज्ञाय' ज्ञात्वा दन्तकाष्ठादिभिदन्तप्रक्षालनं च न कल्पत इति ॥ किं च-विरतो' निवृत्तः केभ्यो ?-'ग्रामधर्मेभ्यो' यथास्वमिन्द्रियाणां शब्दादिभ्यो विषयेभ्यो 'रीयते' संयमानुष्ठाने पराक्रमते, 'माहणे'त्ति, किंभूतो भगवान् ? असावबहुवादी, सकृब्याकरणभावाद्वहुशब्दोपादानम् , अन्यथा हि अवादीत्येव ब्रूयात् , तथैकदा शिशिरसमये स भगवांश्छायायां धर्मशुक्लध्यानध्याय्यासीच्चेति ॥ किं च-सुव्यत्ययेन सप्तम्यर्थे षष्ठी, ग्रीष्मेवातापयति, कथमिति दर्शयति-तिष्ठत्युत्कुटुकासनोऽभिताप-तापाभिमुखमिति, 'अर्थ' आनन्तर्ये धर्माधारं देहं यापयति स्म रूक्षेण-नेहरहितेन केन?-'ओदनमन्थुकुल्माषेण' ओदनं च-कोद्रवौदनादि मन्थु च-बदरचूर्णादिकं कुल्माषाश्च-माषविशेषा एवोत्तरापथे धान्यविशेषभूताः पर्युषितमाषा वा सिद्धमाषा वा ओदनमन्थुकुल्माषमिति समाहारद्वन्द्वः तेनात्मानं यापयतीति सम्बन्ध इति ॥ एतदेव कालावधिविशेषणतो दर्शयितुमाह एयाणि तिन्नि पडिसवे अट्ट मासे अ जावयं भगवं । आप इत्थ एगया भगव अद्ध मासं अदुवा मासंपि ॥ ५॥ अवि साहिए दुवे मासे छप्पि मासे अदुवा विहश्रीआचा- रित्था । राओवरायं अपडिन्ने अन्नगिलायमेगया भुजे ॥ ६॥ छटेण एगया भुले रावृत्तिः (शी०) अदुवा अट्टमेण दसमेणं । दुवालसमेण एगया भुञ्ज पेहमाणे समाहिं अपडिन्ने ॥७॥ णच्चा णं से महावीरे नोऽविय पावगं सयमकासी । अन्नेहिं वा ण कारित्था कीरंतंपि ॥३१३॥ नाणुजाणिस्था ॥८॥ 'एतानि' ओदनादीन्यनन्तरोक्तानि प्रतिसेवते, तानि च समाहारद्वन्द्वेन तिरोहितावयवसमुदायप्रधानेन निर्देशाकस्यचिन्मन्दबुद्धेः स्यादारेका यथा-त्रीण्यपि समुदितानि प्रतिसेवत इति, अतस्तद्व्युदासाय त्रीणीत्यनया सङ्ख्यया निर्देश इति, त्रीणि समस्तानि व्यस्तानि वा यथालाभं प्रतिसेवत इति, कियन्तं कालमिति दर्शयति-अष्टौ मासान् ऋतुबद्धसंज्ञकानात्मानं अयापयद्-वर्तितवान् भगवानिति, तथा पानमप्यर्द्धमासमथवा मासं भगवान् पीतवान् ॥ अपि च-1 मासद्वयमपि साधिकम् अथवा षडपि मासान् साधिकान् भगवान्पानकमपीत्वाऽपि 'रात्रोपरात्र'मित्यहर्निशं विहृतवान्, किंभूतः-'अप्रतिज्ञः' पानाभ्युपगमरहित इत्यर्थः, तथा 'अन्नगिलाय'न्ति पर्युषितं तदेकदा भुक्तवानिति ॥ |किं च-षष्ठेनैकदा भुते, षष्ठं हि नामैकस्मिन्नहन्येकभक्तं विधाय पुनर्दिनद्वयमभुक्त्वा चतुर्थेऽहयेकभक्तमेव विधत्ते, ततश्चाद्यन्तयोरेकभक्तदिनयोक्तद्वयं मध्यदिवसयोश्च भक्तचतुष्टयमित्येवं षण्णां भक्तानां परित्यागात्वष्ठं भवति, एवं दिनादिवृद्ध्याऽष्टमाद्यायोज्यमिति, अथाष्टमेन दशमेनाथवा द्वादशमेनैकदा कदाचिद्भुक्तवान्, 'समाधि' शरीरसमा भा.सू.५३ *4 उपधा०९ उद्देशकः४ -%AAAACHAR CA% A ॥३१३ ॥ 4 धानं 'प्रेक्षमाणः' पर्यालोचयन् न पुनर्भगवतः कथंचिद्दौर्मनस्यं समुत्पद्यते, तथाऽप्रतिज्ञः-अनिदान इति ॥ किंच-ज्ञात्वा हेयोपादेयं स महावीरः कर्मप्रेरणसहिष्णुर्नापि च पापकं कर्म स्वयमकार्षीत् न चाप्यन्यैरचीकरत् न च क्रियमाणमपरैरनुज्ञातवानिति ॥ किं च गामं पविसे नगरं वा घासमेसे कडं परट्टाए । सुविसुद्धमेसिया भगवं आयतजोगयाए सेवित्था ॥ ९॥ अदु वायसा दिगिछत्ता जे अन्ने रसेसिणो सत्ता । घासेसणाए चिट्ठन्ति सययं निवइए य पेहाए ॥ १०॥ अदुवा माहणं च समणं वा गामपिण्डोलगं च अतिहिं वा। सोवागमूसियारिं वा कुकुरं वावि विट्रियं पुरओ ॥ ११ ॥ वित्तिच्छेयं वजन्तो तेसिमपत्तियं परिहरन्तो । मन्दं परकमे भगवं अहिंसमाणो घासमेसित्था ॥ १२॥ प्रामं नगरं वा प्रविश्य भगवान् प्रासमन्वेषयेत्, परार्थाय कृतमित्युद्गमदोषरहितं, तथा सुविशुद्धमुत्पादनादोषरहितं, दतथैषणादोषपरिहारेणैषित्वा-अन्वेष्य भगवानायतः-संयतो योगो-मनोवाकायलक्षणः आयतश्चासौ योगश्चायतयोगो -ज्ञानचतुष्टयेन सम्यग्योगप्रणिधानमायतयोगस्य भाव आयतयोगता तया सम्यगाहारं शुद्ध प्रासैषणादोषपरिहारेण से %B4-04 -2424 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy