________________
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ ३०२ ॥
श्रीआचाराङ्गवृत्तिः (शी०)
॥ ३०३ ॥
202
॥ ७ ॥ णो सुकरमेयमेगेसिं नाभिभासे य अभिवायमाणे । हयपुव्वे तत्थ दण्डेहिं लूसियपुव्वे अप्पपुण्णेहिं ॥ ८ ॥
'अथ' आनन्तर्ये पुरुषप्रमाणा पौरुषी- आत्मप्रमाणा वीथी तां गच्छन् ध्यायतीर्यासमितो गच्छति, तदेव चात्र ध्यानं | यदीर्यासमितस्य गमनमिति भावः किंभूतां तां ? -तिर्यग्भितिं शकटोर्द्धिवदादौ सङ्कटामग्रतो विस्तीर्णामित्यर्थः, कथं ध्यायति ?, – 'चक्षुरासाद्य' चक्षुर्दत्त्वाऽन्तः - मध्ये दत्तावधानो भूत्वेति तं च तथा रीयमाणं दृष्ट्वा कदाचिदव्यक्तवयसः कुमारादय उपसर्गयेयुरिति दर्शयति- 'अथ' आनन्तर्ये चक्षुः शब्दोऽत्र दर्शनपर्यायो, दर्शनादेव भीता दर्शनभीताः संहिता - मिलितास्ते बहवो डिम्भादयः पांसुमुष्ट्यादिभिर्हत्वा हत्वा चक्रन्दुः, अपरांश्च चुक्रुशुः पश्यत यूयं नग्नो मुण्डितः, तथा कोऽयं कुतोऽयं किमीयो वा अयमित्येवं हलबोलं चक्रुरिति ॥ किं च शय्यत एष्विति शयनानि - वसतयस्तेषु कुतश्चिन्निमित्ताद्व्यतिमिश्रेषु गृहस्थतीर्थिकैः, तत्र व्यवस्थितः सन् यदि स्त्रीभिः प्रार्थ्यते ततस्ताः शुभमार्गाला इति ज्ञात्वा ज्ञपरिज्ञया प्रत्याख्यान परिज्ञया परिहरन् सागारिकं - मैथुनं न सेवेत, शून्येषु च भावमैथुनं न सेवेत, इत्येवं स भगवान् स्वयम्-आत्मना वैराग्यमार्गमात्मानं प्रवेश्य धर्म्मध्यानं शुक्लध्यानं वा ध्यायति ॥ तथा-ये केचन इमेऽगारं गृहं तत्र तिष्ठन्तीति अगारस्था:--गृहस्थास्तैर्मिश्रीभावमुपगतोऽपि द्रव्यतो भावतश्च तं मिश्रीभावं प्रहाय त्यक्त्वा स भगवान् धर्मध्यानं ध्यायति, तथा कुतश्चिन्निमित्ताद्गृहस्यैः पृष्टोऽपृष्टो वा न वक्ति, स्वकार्याय गच्छत्येव, न तैरुक्तो मोक्षपथमतिवर्त्तते ध्यानं वा, 'अंजुति ऋजुः ऋजोः संयमस्यानुष्ठानात्, नागार्जुनीयास्तु पठन्ति - 'पुट्ठो व सो अपुट्ठो व णो अणुन्नाइ पावगं भगवं कण्ठ्यम् ॥ किं च-नैतद्वक्ष्यमाणमुक्तं वा एकेषाम् अन्येषां सुकरमेव, नान्यैः प्राकृतपुरुषैः कर्त्तुमलं, किं तत्तेन कृतमिति दर्शयति- अभिवादयतो नाभिभाषते, नाप्यनभिवादयन्त्यः कुध्यति, नापि प्रतिकूलोपसर्गेरन्यथाभावं यातीति दर्शयति - दण्डैर्हतपूर्वः 'तत्र' अनार्यदेशादौ पर्यटन् तथा 'लूषितपूर्वो' हिंसितपूर्वः केशलुञ्चनादिभिरपुण्यैः - अनार्यैः पापाचारैरिति ॥ किं च
फरुसाई दुतितिक्खाइ अइअच्च मुणी परक्कममाणे । आघायनहगीयाई दण्डजुद्धाई मुट्टाई ॥ ९ ॥ गढिए मिहुकहासु समयंमि नायसुए विसोगे अदक्खु । एयाइ से उरालाई गच्छइ नायपुत्ते असरणयाए ॥ १० ॥ अवि साहिए दुवे वासे सीओदं अच्चा निक्खन्ते । एगत्तगए पिहियच्चे से अहिन्नायदंसणे सन्ते ॥ ११ ॥
'परुपाणि' कर्कशानि वाग्दुष्टानि तानि चापरैर्दुःखेन तितिक्ष्यन्त इति दुस्तितिक्षाणि तान्यतिगत्य - अविगणय्य 'मुनिः ' भगवान् विदितजगत्स्वभावः पराक्रममाणः सम्यक्तितिक्षते, तथा आख्यातानि च तानि नृत्यगीतानि च आख्यातनृत्यगीतानि तानि उद्दिश्य न कौतुकं विदधाति, नापि दण्डयुद्धमुष्टियुद्धान्याकर्ण्य विस्मयोत्फुल्ललोचन उद्धृषितरोमकूपो भवति, तथा 'प्र
Jain Education International
थितः' अवबद्धो 'मिथः' अन्योऽन्यं 'कथासु' स्वैरकथासु समये वा कश्चिदवबद्धस्तं स्त्रीद्वयं वा परस्य कथायां गृद्धमपेक्ष्य तस्मि - नवसरे 'ज्ञातपुत्रो' भगवान् विशोको विगतहर्षश्च तान्मिथः कथाऽवबद्धान् मध्यस्थोऽद्राक्षोत्, एतान्यन्यानि चानुकूल प्रतिकूलानि परीषहोपसर्गरूपाण्युरालानि दुष्प्रधृष्याणि दुःखान्यस्मरन् 'गच्छति' संयमानुष्ठाने पराक्रमते, ज्ञाताः - क्षत्रियास्तेषां पुत्रः - अपत्यं ज्ञातपुत्रः - वीरवर्द्धमानस्वामी स भगवान्नैतदुःखस्मरणाय गच्छति-पराक्रमत इति सम्बन्धः, यदिवा शरणंगृहं नात्र शरणमस्तीत्यशरणः - संयमस्तस्मै अशरणाय पराक्रमत इति, तथाहि -किमत्र चित्रं यद्भगवानपरिमितबलपराक्रमः प्रतिज्ञामन्दरमारूढः पराक्रमते इति १, स भगवानप्रब्रजितोऽपि प्रासुकाहारानुवर्त्त्यासीत्, श्रूयते च किल पञ्चत्वमुपगते | मातापितरि समाप्तप्रतिज्ञोऽभूत्, ततः प्रवित्रजिषुः ज्ञातिभिरभिहितो, यथा-भगवन् ! मा कृथाः क्षते क्षारावसेचनमित्येवमभिहितेन भगवताऽवधिना व्यज्ञायि, यथा-मय्यस्मिन्नवसरे प्रव्रजति सति बहवो नष्टचित्ता विगतासवश्च स्युरित्यवधार्य तानुवाच कियन्तं कालं पुनरत्र मया स्थातव्यमिति ?, ते ऊचुः- संवत्सरद्वयेनास्माकं शोकापगमो भावीति, भट्टारकोऽप्योमित्युवाच किं त्वाहारादिकं मया स्वेच्छया कार्य, नेच्छाविघाताय भवद्भिरुपस्थातव्यं, तैरपि यथाकथञ्चिदयं ! तिष्ठत्वितिमत्वा तैः सर्वैस्तथैव प्रतिपेदे ॥ ततो भगवांस्तद्वचनमनुवर्त्यात्मीयं च निष्क्रमणावसरमवगम्य संसारासारतां | विज्ञाय तीर्थप्रवर्त्तनायोद्यत इति दर्शयितुमाह-अपि साधिके द्वे वर्षे शीतोदकमभुक्त्वा - अनभ्यवहृत्यापीत्वेत्यर्थः, अपरा अपि पादधावनादिकाः क्रियाः प्रासुकेनैव प्रकृत्य ततो निष्क्रान्तो यथा च प्राणातिपातं परिहृतवान् एवं शेषव्रतान्यपि पालितवानिति, तथा 'एकत्व'मिति तत एकत्वभावनाभावितान्तःकरणः पिहिता - स्थगिताऽच - क्रोधज्वाला येन स तथा,
For Private Personal Use Only
उपधा० ९
उद्देशकः१
॥ ३०२ ॥
उपधा० ९
उद्देशकः १
॥ ३०३ ॥
www.jainelibrary.org