________________
201
-%22%25AR
25%
चरमसमये तु मनुष्यगतिपश्चेन्द्रियजातित्रसवादरपर्याप्तकसुभगादेययशःकीर्तितीर्थकरत्वान्यतरवेदनीयायुष्कोच्चैर्गोत्राण्येता द्वादश तीर्थकृत् केषांचिन्मतेनानुपूर्वीसहितास्त्रयोदश अतीर्थकृच्च द्वादशैकादश वा क्षपयति, अशेषकर्मक्षयसमनन्तरमेव चास्पर्शवद्गत्या ऐकान्तिकात्यन्तिकानाबाधलक्षणं सुखमनुभवन् सिद्धा(ब्याख्यं लोकायमुपैतीत्ययं गाथातात्पर्यार्थः॥ |साम्प्रतमुपसंहरस्तीर्थकरासेवनतः प्ररोचनता दर्शयितुमाह
एवं तु समणुचिन्नं वीरवरेणं महाणुभावणं । जं अणुचरितु धीरा सिवमचलं जन्ति निव्वाणं ॥ २८४॥
'एवम्' उक्तविधिना भावोपधानं-ज्ञानादि तपो वा वीरवर्द्धमानस्वामिना स्वतोऽनुष्ठितमतोऽन्येनापि मुमुक्षुणैतदहनुष्ठेयमिति गाथार्थः ॥ समाप्ता ब्रह्मचर्याध्ययननियुक्तिः ॥ साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीय, तच्चेदम्
अहासुयं वइस्सामि जहा से समणे भगवं उट्टाए । संखाए तंसि हेमंते अहुणो पव्वइए रीइत्था ॥ १॥ णो चेविमेण वत्थेण पिहिस्सामि तंसि हेमंते । से पारए आवकहाए, एयं खु अणुधम्मियं तस्स ॥ २॥ चत्तारि साहिए मासे, बहवे पाणजाइया आगम्म । अभिरुज्झ कायं विहरिंसु, आरुसिया णं तत्थ हिंसिंसु ॥३॥ संवच्छरं साहियं
मासं जं न रिकासि वत्थगं भगवं।अचेलए तओ चाइ तं वोसिज वत्थमणगारे ॥४॥ मा.मू. ५१ श्रीआचा- आर्यसुधर्मस्वामी जम्बूस्वामिने पृच्छते कथयति, यथाश्रुतं यथासूत्रं वा वदिष्यामि, तद्यथा-स श्रमणो भगवान्
उपधा०९ रावृत्तिः वीरवर्द्धमानस्वाम्युत्थाय-उद्यतविहारं प्रतिपद्य सर्वालङ्कारं परित्यज्य पञ्चमुष्टिकं लोचं विधायैकेन देवदूष्येणेन्द्रक्षिप्तेन
उद्देशका (शी०) युक्तः कृतसामायिकप्रतिज्ञ आविर्भूतमनःपर्यायज्ञानोऽष्टप्रकारकर्मक्षयार्थ तीर्थप्रवर्सनार्थ चोत्थाय 'संख्याय'ज्ञात्वा
तस्मिन् हेमन्ते मार्गशीर्षदशम्यां प्राचीनगामिन्यां छायायां प्रव्रज्याग्रहणसमनन्तरमेव 'रीयते स्म' विजहार, तथा च किल कुण्डग्रामान्मुहूर्त्तशेष दिवसे कारग्राममाप, तत्र च भगवानित आरभ्य नानाविधाभिग्रहोपेतो घोरान् परीषहो-13 पसर्गानधिसहमानो महासत्त्वतया म्लेच्छानप्युपशमं नयन् द्वादश वर्षाणि साधिकानि छमस्थो मौनप्रती तपश्चचार, अत्र |च सामायिकारोपणसमनन्तरमेव सुरपतिना भगवदुपरि देवदूष्यं चिक्षिपे, तत् भगवताऽपि निःसङ्गाभिप्रायेणैव धर्मोपकरणमृते न धर्मोऽनुष्ठातुं मुमुक्षुभिरपरैः शक्यत इति कारणापेक्षया मध्यस्थवृत्तिना तथैवावधारितं, न पुनस्तस्य तदुपभोगेच्छाऽस्तीति ॥ एतदर्शयितुमाह-न चैवाहमनेन वस्त्रेणेन्द्रप्रक्षिप्तेनात्मानं पिधास्यामि-स्थगयिष्यामि तस्मिन् हेमन्ते तद्वा वस्त्रं त्वक्त्राणीकरिष्यामि, लज्जाप्रच्छादनं वा विधास्यामि, किंभूतोऽसाविति दर्शयति-'स' भगवान् प्रतिज्ञायाः परीषहाणां संसारस्य वा पारं गच्छतीति पारगः, कियन्तं कालमिति दर्शयति-यावत्कथं यावज्जीवमित्यर्थः, किमर्थं पुनरसौ बिभर्तीति चेद्दर्शयति-खुरवधारणे स च भिन्नक्रमः, एतद्वस्त्रावज्ञावधारणं तस्य भगवतोऽनु-पश्चाद्धामिकमनुधार्मिकमेवेति, अपरैरपि तीर्थकृद्भिः समाचीर्णमित्यर्थः, तथा चागमः-"से बेमि जे य अईया जे य पडुप्पन्ना जे य आग
॥३०१॥ मेस्सा अरहंता भगवन्तो जे य पब्वयन्ति जे अ पव्वइस्सन्ति सब्वे ते सोवही धम्मो देसिअब्वोत्तिकट्ठ तित्थधम्मयाए एसाऽणुधम्मिगत्ति एगं देवदूसमायाए पव्वईसु वा पब्वयंति वा पब्वइस्सन्ति व"त्ति, अपि च--'गरीयस्त्वात्सचेलस्य, धर्मस्यान्यैस्तथागतैः । शिष्यस्य प्रत्ययाच्चैव, वस्त्रं दधे न लज्जया ॥१॥"इत्यादि ।। तथा भगवतः प्रव्रजतो ये दिव्याः सुगन्धिपटवासा आसंस्तद्गन्धाकृष्टाश्च भ्रमरादयः समागत्य शरीरमुपतापयन्तीति, एतद्दर्शयितुमाह-चतुरः समधिकान् मासान् बहवः प्राणिजातयो-भ्रमरादिकाः समागत्य आरुह्य च 'कार्य' शरीरं 'विजहुः' काये प्रविचारं चक्रुः, तथा मांसशोणितार्थितयाऽऽरुह्य 'तत्र' काये 'ण'मिति वाक्यालङ्कारे, 'हिंसिंसु' इतश्चेतश्च विलुम्पन्ति स्मेत्यर्थः ॥ कियन्मात्रं
कालं तद्देवदूष्यं भगवति स्थितमित्येतद्दर्शयितुमाह-तदिन्द्रोपाहितं वस्त्रं संवत्सरमेकं साधिक मासं 'जं ण रिकासित्ति | ४ यन्न त्यक्तवान् भगवान् तत्स्थितकल्प इतिकृत्वा, तत ऊर्ध्वं तद्वस्त्रपरित्यागी, व्युत्सृज्य च तदनगारो भगवानचेलोडभूदिति, तच्च सुवर्णवालुकानदीपूराहतकण्टकावलग्नं धिग्जातिना गृहीतमिति ॥ किं च
अदु पोरिसिं तिरियं भित्तिं चक्खुमासज अन्तसो झायइ । अह चक्खुभीया संहिया ते हन्ता हन्ता बहवे कंदिसु ॥ ५॥ सयहिं वितिमिस्सेहिं इथिओ तत्थ से परिन्नाय । सागारियं न सेवेइ य, से सयं पवेसिया झाइ ॥ ६॥ जे के इमे अगारत्था मीसीभावं पहाय से झाई । पुट्ठोवि नाभिभासिंसु गच्छइ नाइवत्तइ अंजू
RRORISASEARSACREASSESEARCH
AGACAS S%AC%2520RRIA%%%%%
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org