________________
:
% ERS
श्रीआचा- रावृत्तिः
उपधा०९ उद्देशका
(शी०)।
॥२९९॥
200 प्रकृतीनां बन्धव्यवच्छेदं विधत्ते, ताश्चेमाः-देवगतिस्तदानुपूर्वी पञ्चेन्द्रियजातिक्रियाहारकशरीरतदङ्गोपाङ्गानि तैजस-1 कार्मणशेरीरे चतुरस्रसंस्थानं वर्णगन्धरसस्पर्शागुरुलघूपघातपराघाँतोच्छासँप्रशस्तविहायोगैतित्रसंबादरंपर्याप्तकप्रत्येक स्थिरशुभैसुभगसुस्वरादेयनिर्माणतीर्थकरैनामानि चेति, ततोऽपूर्वकरणचरमसमये हास्यरतिभयजुगुप्सानां बन्धव्यवच्छेदः, हास्यादिषट्कस्य तूदयव्यवच्छेदश्च, सर्वकर्मणामप्रशस्तो (णां देशो) पशमनानिधत्तनिकाचनाकरणानि च व्यवच्छिद्यन्ते, तदेवमसंयतसम्यग्दृष्ट्यादिष्वपूर्वकरणान्तेषु सप्त कर्माण्युपशान्तानि लभ्यन्ते, तत ऊर्ध्वमनिवृत्तिकरणं, सच नवमो गुणः, तत्र व्यवस्थित एकविंशतीनां मोहप्रकृतीनामन्तरं कृत्वा नपुंसकवेदमुपशमयति, तदनन्तरं स्त्रीवेदं, ततो हास्यादिसप्तकं (षट्), पुनः पुंवेदस्य बन्धोदयव्यवच्छेदः, तत ऊर्ध्वं समयोनालिकाद्वयेन पुंवेदोपशमः, ततः क्रोधद्वयस्य पुनः सञ्चलनक्रोधस्यैवं मानत्रिकस्य मायात्रिकस्य च, ततः सज्वलनलोभं सूक्ष्मखण्डानि विधत्ते, तत्करणकालचरमसमये लोभद्वयमुपशमयति, एवं चानिवृत्तिकरणान्ते सप्तविंशतिरुपशान्ता भवति, ततः सूक्ष्मखण्डान्यनुभवन् सूक्ष्मस|म्परायो भवति, तदन्ते ज्ञानान्तरायदशकदर्शनावरणचतुष्कयश-कीर्युच्चैर्गोत्राणां बन्धव्यवच्छेदः, तदेवमष्टाविंशति
मोहप्रकृत्युपशमे सत्युपशान्तवीतरागो भवति, स च जघन्यत एक समयमुत्कृष्टतोऽन्तर्मुहूर्त, तत्प्रतिपातश्च भवक्षयेजाणाद्धाक्षयेण वा स्यात् , स च यथाऽऽरूढो बन्धादिव्यवच्छेदं च यथा कृतवांस्तथैव प्रतिपतन्विधत्ते, कश्चिच्च मिथ्यात्वमपि गच्छेदिति, यस्तु भवक्षयेण प्रतिपतति तस्य प्रथमसमय एव सर्वकरणानि प्रवर्तन्ते, एकभव एव कश्चिद् वारद्वयमुपशमं विदध्यादिति । साम्प्रतं अपकणिावर्ण्यते-अस्याश्च मनुष्य एवाष्टवर्षोपरि वर्तमान आरम्भको भवति, स च
hkhewatch
॥२९९॥
kat
-14-
प्रथममेव करणत्रयपूर्वकमनन्तानुबन्धिनो विसंयोजयति, ततः करणत्रयपूर्वकमेव मिथ्यात्वं तच्छेषं च सम्यगमिथ्यात्वे प्रक्षिपन् क्षपयति, एवं सम्यग्मिथ्यात्वं, नवरं तच्छेषं सम्यक्त्वे प्रक्षिपति, एवं सम्यक्त्वमपि, तच्चरमसमये च वेदकसम्यग्दृष्टिर्भवति, तत ऊर्व क्षायिकसम्यग्दृष्टिरिति, एताश्च सप्तापि कर्मप्रकृतीरसंयतसम्यग्दृष्ट्याचप्रमत्तान्ताः क्षपयन्ति, बद्धायुष्कश्चात्रैवावतिष्ठते, श्रेणिकवद् , अपरस्तु कषायाष्टक क्षपयितुं करणत्रयपूर्वकमारभते, तत्र यथाप्रवृत्तकरणम-15 प्रमत्तस्यैव, अपूर्वकरणे तु स्थितिघातादिकं प्राग्वन्निद्राद्विकस्य देवगत्यादीनां च त्रिंशता हास्यादिचतुष्कस्य (च) यथाक्रम बन्धव्यवच्छेद उपशमश्रेणिक्रमेण वक्तव्यः, अनिवृत्तिकरणे तु स्त्यानिित्रकस्य नरकतिर्यग्गतितदानुपू] केन्द्रियादिजातिचतुष्टयातपोद्योतस्थावरसूक्ष्मसाधारणानां षोडशप्रकृतीनां क्षयः, ततः कषायाष्टकस्यापि, अन्येषां तु मतं-पूर्व कषायाष्टकं क्षप्यते, पश्चात् षोडशेति, ततो नपुंसकवेदं, तदनन्तरं हास्यादिषट्क, पुनः पुंवेदं, ततः स्त्रीवेद, ततः क्रमेण क्रोधादीन् सवलनान् क्षपयति, लोभं च खण्डशः कृत्वा क्षपयति, तत्र बादरखण्डानि क्षपयन्ननिवृत्तिबादरः सूक्ष्मानि तु सूक्ष्मसम्पराय इति, तदन्ते च ज्ञानावरणीयादीनां षोडशप्रकृतीनां बन्धव्यवच्छेदं विधत्ते, ततः क्षीणमोहोऽन्तर्मुहर्त स्थित्वा तदन्ते द्विचरमसमये निद्राद्वयं क्षपयति, अन्तसमये च ज्ञानान्तरायदशकं दर्शनावरण चतुष्कं च क्षपयित्वा निरावरणज्ञानदर्शनसमन्धितः केवली भवति, स च सातावेदनीयमेवैकं बध्नाति यावत्सयोग इति, स चान्तर्मुहूर्त देशोनां पूर्वकोटिं वा यावद्भवति, ततोऽसावन्तर्मुहर्तावशेषमायुर्ज्ञात्वा वेदनीयं च प्रशूततरमतस्तयोः स्थितिमाम्यापादनार्थ समुद्घातमेतेन क्रमेण करोति, तद्यथा-औदारिककाययोगी आलोकान्तादूर्वाधःशरीरपरिणाप्रमाणं प्रथमसमये दण्डं करोति, पुनर्द्वितीयसमये तिरश्चीनमालोकान्तात्कायप्रमाणमेवौदारिककार्मणशरीरयोगी कपाटवत्कपाटं विधत्ते, उपधा०९ तृतीयसमये त्वपरदिक्तिरश्चीनमेव कार्मणशरीरयोगी मन्थानवन्मन्थानं करोति, अनुश्रेणिगमनाच्च लोकस्य प्रायशो बहु पूरितं भवति, ततश्चतुर्थसमये कार्मणकाययोगेनैव मन्थान्तरालब्यापनात्सह निष्कुटैर्लोकः पूरितो भवति, पुनरने
उद्देशकः१ नव क्रमेण पश्चानुपूर्व्या समुद्घातावस्थां चतुर्भिरेव समयैरुपसंहरंस्तद्व्यापारवांस्तत्तद्योगो भवति, केवलं पष्ठसमये मन्था-15 नमुपसंहरन्नौदारिकमिश्रयोगी स्यादिति, तदेवं केवली समुद्घातं संहृत्य प्रत्यर्प्य च फलकादिकं ततो योगनिरोधं विधत्ते, तद्यथा-पूर्व मनोयोगं बादरं निरुणद्धि, पुनर्वाग्योगं काययोगं च बादरमेवेति, पुनरनेनैव क्रमेण सूक्ष्ममनोयोगं निरुणद्धि, ततः सूक्ष्मवाग्योगं निरुणद्धि, ततः सूक्ष्मकाययोगं निरुन्धन् सूक्ष्मक्रियमप्रतिपाति तृतीयं शुक्लध्यानभेदमारोहति, तन्निरोधे च व्युपरतक्रियमनिवर्ति चतुर्थ शुक्लध्यानमारोहति, तदारूढश्चायोगिकेवलिभावमुपगतः सन्नन्तर्मुहूर्त यावत्कालमजघन्योत्कृष्टमास्ते, तत्र चासौ येषां कर्मणामुदयो नास्ति तानि स्थितिक्षयेण क्षपयन् वेद्यमानासु चापरप्रकृतिषु सङ्कामयन् क्षपयंश्च तावद्गतो यावविचरमसमयं, तत्र च द्विचरमसमये देवगतिसहगताः कर्मप्रकृतीः क्षपयति, ताश्चेमाः-देवगतिस्तदानुपूर्वी वैक्रियाहारकशरीरतदङ्गोपाङ्गचतुष्टयमेतद्वन्धनसङ्घाताविति च, तथा तत्रैवापरा इमाः क्षपयति, तद्यथा-औदारिकतैजसकार्मणानि शरीराणि एतद्वन्धनानि त्रीणि सङ्घातांश्च षट् संस्थानानि षट् संहननानि औदारिकशरीराङ्गोपाङ्गं वर्णगन्धरसस्पर्शा मनुष्यानुपूर्व्यगुरुलघूपघातपराघातोच्छ्रासप्रशस्ताप्रशस्तविहायोगतयस्तथाऽपर्याकप्रत्येकस्थिरास्थिरशुभाशुभसुभगदुर्भगसुस्वरदुःस्वरानादेयायशःकीर्तिनिर्माणानि तथा नीचैर्गोत्रमन्यतरद्वेदनीयमिति,
श्रीआचा- राङ्गवृत्तिः शी०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org