________________
199
AAAAAAAA
सुपदेवायोज्या, तथा 'धूननं' भिन्नग्रन्थेरनिवर्तिकरणेन सम्यक्त्वावस्थानं, तथा 'नाशनं' कर्मप्रकृतेः स्तिबुकसमेण प्रकृत्यन्तरगमन, तथा 'विनाशनं' शैलेश्यवस्थायां सामस्त्येन काभावापादनं, तथा ध्यापनम्-उपशमश्रेण्या कर्मानुदयलक्षणं विध्यापनं, तथा 'क्षपणम्' अप्रत्याख्यानादिप्रक्रमेण क्षपक श्रेण्यां मोहाद्यभावापादनं, तथा 'शुद्धिकर'मित्यनन्तानुबन्धिक्षयप्रक्रमेण क्षायिकसम्यक्त्वापादनं, तथा 'छेदनम् उत्तरोत्तरशुभाध्यवसायारोहणास्थितिहासजननं, तथा 'भेदनं' बादरसम्परायावस्थायां सञ्जवलनलोभस्य खण्डशो विधानं, तथा 'फेडण'न्ति अपनयनं चतुःस्थानिकादी-18 नामशुभप्रकृतीनां रसतरूयादिस्थानापादनं, तथा 'दहन' केवलिसमुद्घातध्यानाग्निना वेदनीयस्य भस्मसात्करणं, शेषस्य च दग्धरजुतुल्यत्वापादनं, तथा 'धावन' शुभाध्यवसायान्मिथ्यात्वपुद्गलानां सम्यक्त्वभावसंजननमिति, एताश्च कर्मणोऽवस्थाः प्रायश उपशमश्रेणिक्षपकश्रेणिकेवलिसमुद्घातशैलेश्यवस्थाप्रकटनेन प्रभूता आविर्भाविता भवन्तीत्यतस्तत्प्रकटनाय प्रक्रम्यते, तत्रोपशमश्रेण्यामादावेवानन्तानुबन्धिनामुपशमना तावत्कथ्यते, इहासंयतसम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तानामन्यतरोऽन्यतरयोगे वर्तमान आरम्भको भवति, तत्रापि दर्शनसप्तकमेकेनोपशमयति, तद्यथा-अनन्तानुवन्धिनश्चतुरः, उपरितनलेश्यात्रिके च विशुद्ध साकारोपयोग्यन्तःकोटीकोटीस्थितिसत्कर्मा परिवर्त-18 मानाः शुभप्रकृतीरेव बनन् प्रतिसमयमशुभप्रकृतीनामनुभागमनन्तगुणहान्या हासयन् शुभानां चानन्तगुणवृद्ध्याऽनुभागं व्यवस्थापयन् पल्योपमासख्येयभागहीनमुत्तरोत्तरं स्थितिबन्धं कुर्वन् करणकालादपि पूर्वमन्तर्मुहूर्त विशुध्य
मानः करणत्रयं विधत्ते, तच्च प्रत्येकमान्तमौहर्तिक, तद्यथा-यथाप्रवृत्तकरणमपूर्वकरणमनिवृत्तिकरणं चेति, चतुर्युपश्रीआचा- शान्ताद्धा, तत्र यथाप्रवृत्तकरणे प्रतिसमयमनन्तगुणवृद्ध्या विशुद्धिमनुभवति, न तत्र स्थितिघातरसघातगुणश्रेणीगुण
टपधा०९राङ्गवृत्तिः सङ्कमाणामन्यतमोऽपि विद्यते, तथा द्वितीयमपूर्वकरणं, किमुक्तं भवति ?-अपूर्वामपूर्वी क्रियां गच्छतीत्यपूर्वकरणं, तत्र (शी०) च प्रथमसमय एव स्थितिघातरसघातगुणश्रेणिगुणसङ्कमा अन्यश्च स्थितिबन्ध इत्येते पञ्चाप्यधिकारा योगपद्येन पूर्वम
उदेशका प्रवृत्ताः प्रवर्तन्त इत्यपूर्वकरण, तथानिवृत्तिकरणमित्यन्योऽन्यं नातिवर्तन्ते परिणामा अस्मिन्नित्यनिवृत्तिकरणं, एत॥ २९८॥४
दुक्तं भवति-प्रथमसमयप्रतिपन्नानां तत्करणमसुमतां सर्वेषां तुल्यः परिणामः, एवं द्वितीयादिष्वप्यायोज्यं, अत्रापि पू. वोक्ता एव स्थितिघातादयः पश्चाप्यधिकारा युगपत्प्रवर्तन्त इति, तत एभिस्त्रिभिरपि करणैर्यथोक्तक्रमेणानन्तानुबन्धिनः कषायानुपशमयति, उपशमनं नाम यथा धूलिरुदकेन सिक्ता दुघणादिभिर्हता न वाय्बादिभिः प्रसर्पणादिविकारभाग्भवति, एवं कर्मधूल्यपि विशुद्धयुदकाीकृता अनिवृत्तिकरणक्रियाहता सत्युदयोदीरणसङ्क्रमनिधत्तनिकाचनाकरणानामयोग्या भवति, तत्रापि प्रथमसमयोपशान्तं कर्मदलिक स्तोक द्वितीयादिषु समयेष्वस-ख्येयगुणवृद्ध्योपशम्यमानमन्तर्मुहूर्त्तन सर्वमप्युपशान्तं भवति, एवमेकीयमतेनानन्तानुबन्धिनामुपशमोऽभिहितः, अन्ये त्वनन्तानुबन्धिनां विसंयोजनामेवाभिदधति, तद्यथा क्षायोपशमिकसम्यग्दृष्टयश्चतुर्गतिका अप्यनन्तानुवन्धिनां विसंयोजकाः, तत्र नारका देवा
अविरतसम्यग्दृष्टयस्तियश्चोऽविरतदेशविरता मनुष्या अविरतदेशविरतप्रमत्ताप्रमत्ताः, एते सर्वेऽपि यथासम्भवं विशोहाधिविवेकेन परिणता अनन्तानुबन्धिविसंयोजनार्थ प्रागुक्तं करणत्रयं कुर्वन्ति, तत्राप्यनन्तानुबन्धिनां स्थितिमपवर्त्तय- ॥२९८॥
नपवर्तयन् यावत्सल्योपमासङ्ख्येयभागमात्रा तावद्विधत्ते, तमपि पल्योपमासङ्ख्येयभागं वध्यमानासु मोहप्रकृतिषु प्रतिसमयं सङ्कामयति, तत्रापि प्रथमसमये स्तोकं द्वितीयादिवस-ख्येयगुणं एवं यावच्चरमसमये सर्वसङ्कमेणावलिकागतं मुक्त्वा सर्व सङ्कामयति, आवलिकागतमपि स्तिबुकसङ्क्रमेण वेद्यमानास्वपरप्रकृतिषु सङ्कामयति, एवमनन्तानुबन्धिनो विसंयोजिता भवन्ति । इदानी दर्शनत्रिकोपशमना भण्यते-तत्र मिथात्वस्योपशमको मिथ्यादृष्टिर्वेदकसम्यग्दृष्टिा
सम्यक्त्वसम्यग्मिथ्यात्वयोस्तु वेदक एवोपशमकः, तत्र मिथ्यात्वस्योपशमं कुर्वस्तस्यान्तरं कृत्वा प्रथमस्थितिं विपाके |नानुभूयोपशान्तमिथ्यात्वः सन्नुपशमसम्यग्दृष्टिर्भवतीति । साम्पतं वेदकसम्यग्दृष्टिरुपशमणि प्रतिपद्यमानोऽनन्तानुबन्धिनो विसंयोज्य संयमे वर्तमानो दर्शनत्रिकमुपशमयत्यनेन विधिना, तत्र यथाप्रवृत्तादीनि प्राग्वत्रीणि करणानि कृत्वाऽन्तरकरणं कुवन् वेदकसम्यक्त्वस्य प्रथमस्थितिमान्तमौहूर्तिकी करोति, इतरां त्वावलिकामात्रां, ततः किञ्चिन्यून
मुहूर्त्तमात्रां स्थिति खण्डयित्वा बध्यमानानां प्रकृतीन स्थितिबन्धमात्रेण कालेन तत्कर्मदलिकं सम्यक्त्वप्रथमस्थिती प्र| क्षिपन्नेत्येवमनया प्रक्रियया सम्यक्त्ववन्धाभावादन्तरं क्रियमाणं कृतं भवति, मिथ्यात्वसम्यग्मिथ्यात्वप्रथमस्थितिदलिकमाव-13
लिकामात्रपरिमाणं सम्यक्त्वप्रथमस्थितौ स्तिबुकसङ्कमेण सङ्क्रमयति, तस्यामपि सम्यक्त्वप्रथमस्थितौ क्षीणायां सत्यामुपशान्तदर्शनत्रिको भवतीति । तदनन्तरं चारित्रमोहनीयमुपशमयन् पूर्ववत् करणत्रयं करोति, नवरं यथाप्रवृत्तकरणमप्रमत्तगुणस्थान एव भवति, द्वितीयं त्वपूर्वकरणमष्टममेव गुणस्थानक, तस्य च प्रथमसमय एव स्थितिघातरसघातगुण श्रेणिगुणसङ्क्रमापूर्वस्थितिबन्धा यौगपद्येन पश्चाप्यधिकाराः प्रवर्तन्ते, तत्रापूर्वकरणसङ्ख्येयभागे गते निद्राप्रचलयोर्बन्धव्यवच्छेदो भवति, ततोऽपि बहुषु स्थितिकण्डकसहनेषु गतेषु सत्सु परभविकनाम्नां चरमसमये त्रिंशतो नाम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org