________________
198
mes
more
7Thkk BREMEMORA 40- 2
अथोपधानश्रुताख्यं नवममध्ययनम्
उपधा०९
उद्देशकः१ उक्तमध्ययनमष्टमं, साम्प्रतं नवममारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययनेष्वष्टसु योऽर्थोऽभिहितः स तीर्थकृता वीरवर्द्धमानस्वामिना स्वत एवाचीर्ण इत्येतनवमेऽध्ययने प्रतिपाद्यते, अनन्तराध्ययनसम्बन्धस्त्वयम्-इहाभ्युद्यतमरणं त्रिप्रकारमभिहितं, तत्रान्यतरस्मिन्नपि व्यवस्थितोऽष्टाध्ययनार्थविधायिनमतिघोरपरीषहोपसर्गसहिष्णुमाविष्क-18 तसन्मार्गावतारं तथा घातितघातिचतुष्टयाविर्भूतानन्तातिशयाप्रमेयमहाविषयस्वपरावभासककेवलज्ञानं भगवन्तं श्रीवईमानस्वामिनं समवसरणस्थं सत्त्वहिताय धर्मदेशनां कुर्वाणं ध्यायेदित्येतत्प्रतिपादनार्थमिदमध्ययनमुच्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमेऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारो लेशतोऽभिहितस्तमेव नियुक्तिकारः स्पष्टतरं बिभणिषुराह
जो जइया तित्थयरो सो तहमा अप्पणो य तित्थम्मि । वण्णेइ तवोकम्मं ओहाणसुयंमि अज्झयणे ॥२७॥ IM यो यदा तीर्थकृदुत्पद्यते स तदाऽऽत्मीये तीर्थे आचारार्थप्रणयनावसानाध्ययने स्वतपःकर्म व्यावर्णयतीत्ययं सर्वती
यकृतां कल्पः, इह पुनरुपधान श्रुताख्यं चरममध्ययनमभूत् अत उपधानश्रुतमित्युक्तमिति ॥ किमेकाकारं केवलज्ञानव-H॥ २९६ ॥ सर्वतीर्थकृतां तपःकम्र्मोतान्यथेत्यारेकाव्युदासार्थमाहसन्वेसिं तवोकम्म निरुवसग्गं तु वपिणय जिणाणं । नवरं तु वद्धमाणस्स सोवसरगं मुणेयव्वं ॥ २७७॥ तित्थयरो चउनाणी सुरमहिओ सिज्झियव्वय धुवम्मि । अणिमूहियबलविरिओ तवोविहाणमि उजमइ॥ किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिएहिं । होइन उज्जमियत्वं सपञ्चवायंमि माणुस्से ? ॥२७९॥ गाथात्रयमप्युत्तानार्थम् ॥ अध्ययनार्थाधिकारं प्रतिपाद्योद्देशार्थाधिकार प्रतिपादयन्नाहचरिया रसिजाय२ परीसहाय ३ आयंकिया(ए)चिमिच्छा४यातवचरणेणऽहिगारो चउमुद्देसेसु नायब्बो॥२८०॥
चरणं चर्यत इति वा चर्या-श्रीवीरवर्द्धमानस्वामिनो विहारः, अयं प्रथमोद्देशकेऽर्थाधिकारः १, द्वितीयोदेशके त्वयमनाधिकारः, तद्यथा-शय्या-वसतिः सा च याहग्भगवत आसीत् ताहरवक्ष्यते २, तृतीये त्वयमर्थाधिकारः-मार्गाच्यवन
निर्जरार्थ परिषोढव्याः परीषहाः, उपलक्षणार्थत्वादुपसर्गाश्चानुकूलप्रतिकूला वर्द्धमानस्वामिनो येऽभूवन् तेऽत्र प्रतिपाद्यन्ते ३, चतुर्थे त्वयमर्थाधिकारः, तद्यथा-'आतङ्किते' क्षुत्पीडायामातकोत्पत्तौ विशिष्टाभिग्रहावाप्ताहारेण चिकित्सेदिति ४, तपश्चरणाधिकारस्तु चतुर्वप्युदेशकेष्वनुयायीति गाथार्थः॥ निक्षेपस्त्रिधा-ओघनिष्पन्नो नामनिष्पन्नः सूत्रालाप
कनिष्पन्नश्च, तत्रौघनिष्पन्ने निक्षेपेऽध्ययन, नामनिष्पन्ने तूपधानश्रुतमिति द्विपदं नाम, तत्रोपधानस्य श्रुतस्य च यथाराक्रमं निक्षेपः कर्तव्य इति न्यायादुपधाननिक्षेपचिकीर्षयाऽऽह
नामंठवणुवहाणं दव्वे 'भावे य होइ नायव्वं । एमेव य मुत्सस्सवि निक्खवो चउब्विहो होइ ।। २८१॥
नामोपधानं स्थापनोषधानं द्रव्योपधानं भावोपधानं च, श्रुतस्याप्येवमेव चतुर्द्धा निक्षेपः, तत्र द्रव्यश्रुतमनुपयक्तस्य । श्रीआचा- श्रुतं द्रव्यार्थं वा यत् श्रुतं कुगावचनिकश्रुतानि चाते द्रव्यश्रुतम् , भावश्रुतं त्वङ्गानङ्गप्रविष्टश्रुतविषयोपयोगः॥ उपधा०९ रावृत्तिःत्र सुगमनामस्थापनाव्युदासेन द्रव्याधुपधानप्रतिपादनायाह
उद्देशका दव्वुवहाणं सयणे भावुवहाणं तवो चरित्तस्स । तम्हा उ नाणदंसणतवचरणोहिं इहागियं ॥ २८२ ।। उप-सामीप्येन धीयते-व्यवस्थाप्यत इत्युपधानं द्रव्यभूतमुपधानं द्रव्योपधानं, तत्पुनः शय्यादौ सुखशयनार्थ शिरोबटरभनवस्तु, 'भावोपधान मिति भावस्योपधानं भावोपधानं, तत्पुनर्ज्ञानदर्शनचारित्राणि तपो वा सबाह्याभ्यन्तरं, तेन हि चारित्रपरिणतभावस्योपष्टम्भनं क्रियते, यत एवं तस्मात् ज्ञानदर्शनतपश्चरणैरिहाधिकृतमिति गाथार्थः ॥ किं पुनः कारणं चारित्रोपष्टम्भकतया सपो भावोपधानमुच्यते इत्याहजह ग्वल महलं वत्थं सुज्झइ उदगाइएहिं दवेहिं । एवं भावुवहाणेण सुज्झए कम्ममढविहं ॥ २८३ ॥ 'यथे'त्युदाहरणोपन्यासार्थः यथैतत्तथाऽन्यदपि द्रष्टव्यमित्यर्थः, खलुशब्दो वाक्यालङ्कारे, यथा मलिनं वस्त्रमुदकादिभिद्रेन्यैः शुद्धिमुपयाति एवं जीवस्यापि भावोपधानभूतेन सबाह्याभ्यन्तरेण तपसा अष्टप्रकारं कर्म शुद्धिमुपयातीति ॥ अस्य च कर्मक्षयहेतोस्तपम उपधानश्रुतत्वेनात्रोपात्तस्य 'तत्त्वभेदपर्यायाख्ये'तिकृत्वा पर्यायदर्शनायाह-यदिवा तपोऽनुष्ठाननापादिता अवधूननादयः कापगमविशेषाः सम्भवन्तीत्यतस्तान् दर्शयितुमाह
आपूणण धुणण नामण विणामणं झवण ग्ववण सोहिकरं।छेयण भेयण फेडण डहणं धुवणं च कम्माणं ॥२८४॥ ॥२९७॥ ! तबावधननम्-अपूर्वकरणन कर्मग्रन्थे दापादनं, तच्च तपोऽन्यतरभेदसामर्थ्याद्भवतीत्येपा क्रिया शेषेष्वष्यकादश
ROSA S
AN****AX
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org