________________
श्रीआचा राङ्गवृत्तिः
(शी०) ।। २९५ ।।
197
| कर्म्मशत्रुजयसहायानिति कृत्वाऽपरीपहानेव मन्यते ॥ २१ ॥ ते पुनः कियन्तं कालं सोढव्या इत्याशङ्काव्युदासार्थमाह'यावज्जीवं' यावत्प्राणधारणं तावत्सरीपहा उपसर्गाश्च सोढव्या इत्येतत् 'सङ्ख्याय' ज्ञात्वा तानध्यासयेदिति, यदि - वा न मे यावज्जीवं परीषहोपसर्गा इत्येतत्सङ्ख्याय - ज्ञात्वाऽधिसहेत, यदिवा यावज्जीवमिति यावदेव जीवितं तावत्पपहोपसर्गजनिता पीडेति, तत्पुनः कतिपय निमेषाऽवस्थायि एतदवस्थस्य ममात्यन्तमल्पमेवेत्यत एतत्सङ्ख्याय - ज्ञात्वा संवृतो यथानिक्षिप्तत्यक्तगात्रो 'देहभेदाय' शरीरत्यागायोस्थित इतिकृत्वा 'प्राज्ञः' उचितविधानवेदी, यद्यत्कायपीडाकार्यपतिष्ठते तत्तत्सम्यगधिसहेत ॥ २२ ॥ एवंभूतं च साधुमुपलभ्य कश्चिद्राजादिर्भोगैरुपनिमन्त्रयेत्, तत्प्रतिविधानार्थमाह| भेदनशीला भिदुराः-शब्दादयः कामगुणास्तेषु प्रभूततरेष्वपि 'न रज्येत्' न रागं यायात्, पाठान्तरं वा 'कामेसु बहुले सुवि' इच्छामदनरूपेषु कामेषु बहुलेषु - अनल्पेष्वपीत्यर्थः, यद्यपि राजा राज्यकन्यादानादिनोपप्रलोभयेत् तथापि तत्र न गार्घ्यमियात्, तथा इच्छारूपो लोभ इच्छा लोभः - चक्रवर्तीन्द्रत्वाद्यभिलाषादिको निदानविशेषस्तमसौ निर्जरापेक्षी न सेवेत, सुरर्द्धिदर्शनमोहितो वह्मदत्तवन्निदानं न कुर्यादित्यर्थः तथा चागमः - ' इहलोगासंसप्पओगे १ परलोगा संसप्पओगे २ जीवियासंसप्पयोगे ३ मरणासंसप्पयोगे ४ कामभोगासंसप्पयोगे ५ इत्यादि, 'वर्णः' संयमी मोक्षो वा स च सूक्ष्मो दुर्ज्ञेयत्वात्, पाठान्तरं वा - ' धुववन्नमित्यादि, ध्रुवः - अव्यभिचारी स चासौ वर्णश्च ध्रुववर्णस्तं संप्रेक्ष्य ध्रुवां वा शाश्वतीं यशःकीर्ति पर्यालोच्य कामेच्छालो भविक्षेपं कुर्यादिति ॥ २३ ॥ किं च - शाश्वता - यावज्जीवमपरिश्रमा| प्रांते दिनदानाद्वाऽर्थास्तैस्तथाभूतैर्विभवैः कश्चिनिमन्त्रयेत् तत्प्रतिबुध्यस्व यथा शरीरार्थे धनं मृग्यते तदेव शरीरमशाश्वतमिति, तथा दिव्यां मायां न श्रद्दधीत, तद्यथा-यदि कश्चिद्देवो मीमांसया प्रत्यनीकतया वा भक्त्या वाऽन्यथा वा कौतुकादिना नानर्द्धिदानतो निमन्त्रयेत्, तां च तत्कृतां मायां न श्रद्दधीत, तथा बुध्यस्व यथा देवमायैषा, अन्यथा कुतोऽयमाकस्मिकः पुरुषो दुर्लभमेतद्द्रव्यं प्रभूततरमेवंभूते क्षेत्रे काले भावे व दद्यात् ?, एवं द्रव्यादिनिरूपणया देवमायां बुध्यस्व इति, तथा देवाङ्गना वा यदि दिव्यं रूपं विधाय प्रार्थयेत् तामपि बुध्यस्वेति, 'माहणे'त्ति साधुः 'सर्वम्' अशेषं 'नूमं'ति कर्म्म मायां वा तत् तांना 'विधूय' अपनीय देवादिमायां बुध्यस्वेति क्रिया ॥ २४ ॥ किंच
Jain Education International
सव्वट्ठेहिं अमुच्छिए, आउकालस्स पारए । तितिक्खं परमं नच्चा, विमोहन्नयरं हियं ॥ २५ ॥ तिबेमि ॥ विमोक्षाध्ययनमष्टमं समाप्तम् । उद्देशः ॥ ८-८ ॥
सर्वे च तेऽथश्च सर्वार्थाः - पञ्चप्रकाराः कामगुणास्तत्सम्पादका वा द्रव्यनिचयास्तैस्तेषु वा अमूच्छितः - अनध्युपपन्नः | आयुःकालस्य यावन्मात्रं कालमायुः संतिष्ठते असौ आयुःकालस्तस्य पारम् - आयुष्कपुद्गलानां क्षयो मरणं तद्गच्छतीति पारगः, यथोक्तविधिना पादपोपगमनव्यवस्थितः प्रवर्द्धमान शुभाध्यवसायः ग्वायुः कालान्तगः स्यादिति । तदेवं पादपो| पगमनविधिं परिसमापथ्योपसंहारद्वारेण त्रयाणामपि मरणानां कालक्षेत्रपुरुषावस्थाश्रयणात्तुल्यकक्षतां पश्चार्द्धन दर्शयतितितिक्षा - परीषहोपसर्गापादितदुःखविशेषसहनं तत्रयाणामपि परमं प्रधानमस्तीति 'ज्ञात्वा' अवधार्य 'विमोहान्यतरं हितमिति विगतो मोहो येषु तानि विमोहानि - भक्तपरिज्ञेङ्गितमरणपादपोपगमनानि तेषामन्यतरत्कालक्षेत्रादिकमाश्रित्य तुल्यफलत्वाद्धितं अभिप्रेतार्थसाधनादतो यथाशक्ति त्र्याणामन्यतरत्तुल्यबलत्वाद्यथावसरं विधेयं, इति अधिकारपरिसमाप्तौ ब्रवीमीति पूर्ववत्, नयविचारादिकमनुगतं वक्ष्यमाणं च द्रष्टव्यमिति विमोक्षाध्ययनस्याष्टमोद्देशकः समाप्तः । समाप्तं च विमोक्षाध्ययनमष्टममिति ॥ ग्रन्थाग्रम् ॥ १०२० ॥
For Private
Personal Use Only
विमो० ८ | उद्देशकः
॥ २९५ ॥
www.jainelibrary.org