________________
203 ४ यदिवा पिहितार्थो-गुप्ततनुः स भगवान् छद्मस्थकालेऽभिज्ञातदर्शनः-सम्यक्त्वभावनया भावितः शान्तः इन्द्रियनोइन्द्रियैः॥ स एवंभूतो भगवान् गृहवासेऽपि सावद्यारम्भत्यागी, किं पुनः प्रव्रज्यायामिति दर्शयितुमाह
पुढविं च आउकायं च तेउकायं च वाउकायं च । पणगाइं बीयहरियाई तसकायं च सव्वसो नच्चा ॥ १२ ॥ एयाइं सन्ति पडिलेहे, चित्तमन्ताइ से अभिन्नाय । परिवज्जिय विहरित्था इय सङ्खाय से महावीरे ॥ १३ ॥ अदु थावरा य तसत्ताए, तसा य थावरताए । अदुवा सव्वजोणिया सत्ता कम्मुणा कप्पिया पुढो बाला ॥ १४ ॥ भगवं च एवमन्नेसिं सोवहिए हु लुप्पई बाले । कम्मं च सव्वसो नच्चा तं पडियाइक्खे पावगं भगवं ॥ १५॥ दुविहं समिञ्च मेहावी किरियमक्खायऽणेलिसं नाणी । आगाणसो
यमइवायसोयं जोगं च सव्वसो णचा ॥ १६ ॥ श्लोकद्वयस्याप्ययमर्थः-एतानि पृथिव्यादीनि चित्तमन्त्यभिज्ञाय तदारम्भं परिवर्त्य विहरति स्म, क्रियाकारकसम्बन्धः, तत्र प्रथिवी सक्ष्मबादरभेदेन द्विधा, सूक्ष्मा सर्वगा, बादराऽपि श्लक्ष्णकठिनभेदेन द्विधैव, तत्र श्लक्ष्णा शुक्लादिपञ्चवर्णा,
SAMROSCO400204004444444444
उपधा०९
श्रीआचाराङ्गवृत्तिः (शी०)
उद्देशका
॥३०४॥
॥३०४॥
कठिना तु पृथ्वीशर्करावालुकादि षट्त्रिंशद्भेदा शस्त्रपरिज्ञानुसारेण द्रष्टव्या, अप्कायोऽपि सूक्ष्मबादरभेदाविधा, तत्र सूक्ष्मः पूर्ववद्वादरस्तु शुद्धोदकादिभेदेन पञ्चधा, तेजःकायोऽपि पूर्ववत् नवरं बादरोऽङ्गारादि पञ्चधा, वायुरपि तथैव, नवरं बादर उत्कलिकादिभेदेन पञ्चधा, वनस्पतिरपि सूक्ष्मबादरभेदेन द्विधा, तत्र सूक्ष्मः सर्वगो बादरोऽप्यग्रमूलस्कन्धपर्वबीजसम्मूर्छनभेदात्सामान्यतः षोढा, पुनर्दिधा-प्रत्येक साधारणश्च, तत्र प्रत्येको वृक्षगुच्छादिभेदावादशधा, साधा-1 रणस्त्वनेकविध इति, स एवं भेदभिन्नोऽपि वनसतिः सूक्ष्मस्य सर्वगतत्वादतीन्द्रियत्वाच्च तव्युदासेन बादरो भेदत्वेन संगृहीतः, तद्यथा-पनकग्रहणेन बीजारभावरहितस्य पनकादेरुल्यादिविशेषापन्नस्य ग्रहणं, बीजग्रहणेन त्वग्रबीजादेरुपादानं, हरितशब्देन शेषस्येत्येतानि पृथिव्यादीनि भूतानि सन्ति' विद्यन्त इत्येवं प्रत्युपेक्ष्य तथा 'चिसवन्ति' सचेतनान्यभिधाय-ज्ञात्वा 'इति' एतत्सङ्ख्याय-अवगम्य स भगवान्महावीरस्तदारम्भं परिवर्ण्य विहृतवानिति ॥ पृथिवीकायादीनां जन्तूनां त्रसस्थावरत्वेन भेदमुपदर्य साम्प्रतमेषां परस्परतोऽनुगमनमध्यस्तीत्येतदर्शयितुमाह-'अर्थ' आनन्तर्ये 'स्थावराः' पृथिव्यप्तेजोवायुवनस्पतयः ते 'त्रसतया' द्वीन्द्रियादितया 'विपरिणमन्ते' कर्मवशाद् गच्छन्ति, चशब्द उत्तरापेक्षया समुच्चयार्थः, तथा 'त्रसजीवाश्च' कृम्यादयः 'स्थावरतया' पृथिव्यादित्वेन कर्मनिघ्नाः समुत्पद्यन्ते, तथा चान्यत्राप्युक्तम्-"अयण्णं भन्ते ! जीवे पुढविक्काइयत्ताए जाव तसकाइयत्ताए उबवण्णपुवे?, हन्ता गोअमा! असई अदुवाऽणंतखुत्तो जाव उववण्णपुन्वे"त्ति, अथवा सर्वा योनय:-उसत्तिस्थानानि येषां सत्त्वानां ते सर्वयोनिकाः
अयं भदन्त ! जीवः पृथ्वीकायिकतया यावत् त्रसकायिकतयोत्पन्नपूर्वः ?, हन्त गौतम! असकृत् अनन्तकृत्वो यावदुत्पन्नपूर्वः, सत्वाः सर्वगतिभाजः, ते च 'बालारागद्वेषाकलिताः स्वकृतेन कर्मणा पृथक्तया सर्वयोनिभावत्वेन च 'कल्पिताः' व्यव| स्थिता इति, तथा चोक्तम्-"त्थि किर सो पएसो लोए वालग्गकोडिमित्तोऽवि । जम्मणमरणाबाहा अणेगसो जत्थ णवि पत्ता ॥१॥" अपि च-"रङ्गभूमिर्न सा काचिच्छुद्धा जगति विद्यते । विचित्रैः कर्मनेपथ्यैर्यत्र सत्त्वैन नाटितम् ॥ २॥” इत्यादि ॥ किं च-भगवांश्च-असौ वीरवर्द्धमानस्वाम्येवममन्यत-ज्ञातवान् सह उपधिना वर्तत इति सोपधिकः-द्रव्यभावोपधियुक्तः, हुरवधारणे, लुप्यत एव-कर्मणा क्लेशमनुभवत्येव 'अज्ञो' बाल इति, यदिवा हुर्हेतौ यस्मात्सोपधिकः कर्मणा लुप्यते बालस्तस्मात्कर्म च सर्वशो ज्ञात्वा तत्कर्म प्रत्याख्यातवांस्तदुपादानं च पापकमनुष्ठानं भगवान् वर्द्धमानस्वामीति ॥ किं च-द्वे विधे-प्रकारावस्येति द्विविध, किं तत्-कर्म, तच्चेर्याप्रत्ययं साम्परायिकं च, तद्विविधमपि 'समेत्य' ज्ञात्वा 'मेधावी' सर्वभावज्ञः, "क्रियां' संयमानुष्ठानरूपां कर्मोच्छेत्रीमनीहशीम्-अनन्यसदृशीमाख्यातवान् , किंभूतो?-ज्ञानी, केवलज्ञानवानित्यर्थः, किं चापरमाख्यातवानिति दर्शयति-आदीयते कर्मानेनेति आदान-दुष्प्रणिहितमिन्द्रियमादानं च तत् स्रोतश्चादानस्रोतस्तत् ज्ञात्वा तथाऽतिपातमोतश्च उपलक्षणार्थत्वादस्य मृषावादादिकमपि ज्ञात्वा तथा 'योगं च' मनोवाकायलक्षणं दुष्प्रणिहितं 'सर्वशः' सर्वैः प्रकारैः कर्मबन्धायेति ज्ञात्वा | |क्रियां संयमलक्षणामाख्यातवानिति सम्बन्धः॥ किं च
अइवत्तियं अणाउहि सयमन्नेसिं अकरणयाए।जस्सित्थिओ परिन्नाया सव्वकम्मावहानास्ति किल स प्रवेको लोके वालामकोटीमाधोऽपि । जन्ममरणावाधा भनेकको मन्त्र नैव प्राप्ताः ॥1॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org