________________
194
श्रीआचा
विमो०८ उद्देशकार
(शी०) ॥२९॥
॥२९
॥
आहारयामि तावत्कतिचिदिनानि पुनः संलेखनाशेषं विधास्येऽहमित्येवं नाहारान्तिकमियादिति ॥३॥ किं च-तत्र संलेखनायां व्यवस्थितः सर्वदा वा साधुजीवितं-प्राणधारणलक्षणं नाभिकाङ्केत्, नापि क्षुद्वेदनापरीषहमनधिसहमानो मरणं प्रार्थयेद् 'उभयतोऽपि' जीविते मरणे वा न सङ्गं विदध्यात् जीविते मरणे तथा ॥४॥ किं भूतस्तहि स्यादित्याह
मज्झत्थो निज्जरापेही, समाहिमणुपालए । अन्तो वहिं विऊस्सिज, अज्झत्थं सुद्धमेसए ॥५॥जं किंचुवकर्म जाणे, आऊखेमस्समप्पणो। तस्सेव अन्तरद्धाए, खिप्पं सिक्खिज पण्डिए ॥६॥ गामे वा अदुवा रणे, थंडिलं पडिलेहिया । अप्पपाणं तु विनाय, तणाई संथरे मुणी ॥७॥ अणाहारो तुयहिज्जा, पुटो तत्थहियासए ।
नाइवेलं उवचरे, माणुस्सेहि विपुट्रवं ॥८॥ रागद्वेषयोर्मध्ये तिष्ठतीति मध्यस्थः, यदिवा जीवितमरणयोनिराकाङ्क्षतया मध्यस्थो निर्जरामपेक्षितुं शीलमस्येति निर्जरापेक्षी, स एवंभूतः समाधि-मरणसमाधिमनुपालयेत्-जीवितमरणाशंसारहितः कालपर्यायेण यन्मरणमापद्यते तत् समाधिस्थोऽनुपालयेदिति भावः । अन्तः कषायान् बहिरपि शरीरोपकरणादिकं व्युसृज्यात्मन्यध्यध्यात्मम्-अन्तःकरणं तच्छुद्धं सकलद्वन्द्वोपरमाद्विस्रोतसिकारहितमन्वेषयेत्-प्रार्थयेदिति ॥ ५ ॥ किं चउपक्रमणमुपक्रमः-उपायस्तं यं कञ्चन जानीत, कस्योपक्रमः-'आयुःक्षेमस्य' आयुषः क्षेम-सम्यक्पालनं तस्य, कस्य सम्बन्धि तदायुः-आत्मनः, एतदुक्तं भवति-आत्मायुषो यं क्षेमप्रतिपालनोपाय जानीत तं क्षिप्रमेव शिक्षेत्-व्यापारयेत् पण्डितो-बुद्धिमान्, 'तस्यैव' संलेखनाकालस्य 'अन्तरद्धाए'त्ति अन्तरकालेऽर्द्धसंलिखित एव देहे देही यदि कश्चित् वातादिक्षोभात् आतङ्क आशुजीवितापहारी स्यात् ततः समाधिमरणमभिकाङ्क्षन् तदुपशमोपायमेषणीयविधिनाऽभ्यङ्गादिकं विदध्यात्, पुनरपि संलिखेत् , यदिवाऽऽत्मनः आयुःक्षेमस्य-जीवितस्य यत्किमप्युपक्रमणम्-आयुःपुद्गलानां संवर्तनं समुपस्थितं तज्जानीत, ततस्तस्यैव संलेखनाकालस्य मध्येऽव्याकुलितमतिः क्षिप्रमेव भक्तपरिज्ञानादिकं शिक्षेत -आसेवेत पण्डितो-बुद्धिमानिति ॥ ६ ॥ संलेखनाशुद्धकायश्च मरणकालं समुपस्थितं ज्ञात्वा किं कुर्यादित्याह-ग्राम:प्रतीतो, ग्रामशब्देन चात्र प्रतिश्रय उपलक्षितः, प्रतिश्रय एव स्थण्डिलं-संस्तारकभुवं प्रत्युपेक्ष्य, तथा अरण्ये वेत्यनेन चोपाश्रया(हिरित्येतदुपलक्षितम् , उद्याने गिरिगुहायामरण्ये वा स्थण्डिलं प्रत्युपेक्ष्य विज्ञाय चाल्पप्राण-प्राणिरहितम् ,ग्रामादियाचितानि प्रासुकानि दर्भादिमयानि तृणानि संस्तरेत् 'मुनिः' यथोचितकालस्य वेत्तेति॥७॥संस्तीर्य च तृणानि यत्कुर्यातदाह-न विद्यते आहारोऽस्येत्यनाहारः तत्र यथाशक्ति यथासमाधानं च त्रिविधं चतुर्विध वाऽऽहारं प्रत्याख्यायारोपितपञ्चमहाव्रतः क्षान्त:-क्षामितसमस्तप्राणिगणःसमसुखदुःखः आवर्जितपुण्यप्राग्भारतया मरणादबिभ्यत् संस्तारके त्वग्वर्तनं कुर्यात्, तत्र च स्पृष्टः परीपहोपसर्गस्त्यक्तदेहतया सम्यक्तानध्यासयेद्-अधिसहेत, तत्र मानुष्यैरनुकूलप्रतिकूलैः परीपहोपसर्गः स्पृष्टो-व्याप्तो नातिवेलमुपचरेत्-न मर्यादोलनं कुर्यात्, पुत्रकलत्रादिसम्बन्धानार्तध्यानवशगो भूयात् , प्रतिकूलैर्वा परीषहोपसर्गर्न क्रोधनिनः स्यादिति ॥८॥ एतदेव दर्शयितुमाह
श्रीआचारामवृत्तिः (शी०)
विमो०० उद्देशकार
5 5
संसप्पगा य जे पाणा, जे य उडमहाचरा । भुञ्जन्ति मंससोणियं, न छणे न पमजए ॥९॥ पाणा देहं विहिंसन्ति, ठाणाओ नवि उब्भमे । आसवेहिं विवित्तेहिं, तिप्पमाणोऽहियासए ॥ १० ॥ गन्यहिं विवित्तेहिं,आउकालस्स पारए। पग्गहियतरगं चेयं, दवियस्स वियाणओ ॥११॥ अयं से अवरे धम्मे, नायपुत्तेण साहिए।आयवज्ज
पडीयारं, विजहिज्जा तिहा तिहा ॥ १२ ॥ संसर्पन्तीति संसर्पका:-पिपीलिकाकोष्ट्रादयो ये प्राणा:-प्राणिनो ये चोर्द्धचरा-गृध्रादयो ये चाधश्वराः बिलवासित्यात्सादयस्त एवंभूता नानाप्रकाराः 'भुजन्ते' अभ्यवहान्ति मांसं सिंहव्याघ्रादयः तथा शोणितं मशकादयः, तांश्च प्राणिन आहारार्थिनः समागतानवन्तिसुकुमारवद्धस्तादिभिन्न क्षणुयात्-न हन्यात् न च भक्ष्यमाणं शरीरावयवं रजोहरणादिना प्रमार्जयेदिति ॥९॥किं च-प्राणाः-प्राणिनो देहं मम (वि)हिंसन्ति, न तु पुननिदर्शनचारित्राणीत्यतस्त्यक्तदेहाशिनस्तानन्तरायभयान निषेधयेत्, तस्माच्च स्थानान्नायुद्भमेत्-नान्यत्र यायात्, किंभूतः सन् ?आश्रयैः-प्राणातिपातादिभिर्विषयकपायादिभिर्वा 'विविक्तैः' पृथग्भूतैरविद्यमानैः शुभाध्यवसायी तैर्भक्ष्यमाणोऽप्यमृतादिना तृष्यमाण इव सम्यक्तत्कृतां वेदनां तैस्तप्यमानो वाऽध्यासयेद्-अधिसहेत ॥ १०॥ किं चग्रन्थः सबाह्याभ्यन्तरैः शरीररागादिभिः 'विविक्तैः' त्यतैः सद्भिग्रन्थैर्वा-अङ्गानङ्गप्रविष्टैरात्मानं भावयन् धर्मशुक्ल
॥२९
॥
256155
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org