________________
--
195
-
-
-
ACAMMAR
--
श्रीआचाराङ्गवृत्तिः (शी०)
ध्यानान्यतरोपेतः 'आयुःकालस्य' मृत्युकालस्य 'पारगः' पारगामी स्यात्-यावदन्त्या उच्छासनिश्वासास्तावत्तद्विद्ध्या एतन्मरणविधानकारी सिद्धिं त्रिविष्टपं वा प्रामुयादिति गतं भक्तपरिज्ञामरणं । साम्प्रतमिङ्गितमरणं श्लोकाद्धांदिनोच्योतद्यथा-'प्रगृहीततरक चदं' प्रकर्षण गृहीततरं प्रगृहीततरं तदेव प्रगृहीततरकम् , 'इद'मिति वक्ष्यमाणमिङ्गितमरणमा एतद्धि भक्तप्रत्याख्यानात्सकाशान्नियमेन चतुर्विधाहारप्रत्याख्यानादिङ्गितप्रदेशसंस्तारकमात्रविहाराभ्युपगमाच विशिष्ट तरधृतिसंहननाद्युपतेन प्रकर्पण गृह्यत इति, कस्यैतद्भवति ?-द्रव्यं-संयमः स विद्यते यस्यासौ द्रविकस्तस्य "विजा
नतो' गीतार्थस्य जघन्यतोऽपि नवपूर्वविशारदस्य भवति, नान्यस्येति, अत्रापीङ्गितमरणे यत्संलेखनातृणसंस्तारा६ दिकमभिहितं तत्सर्व वाच्यम् ॥ ११ ॥ अयमपरो विधिरित्याह-'अयं स' इति सोऽयम् 'अपरः' अन्यो
भक्तप्रत्याख्यानाद्भिन्न इङ्गितमरणस्य 'धर्मो' विशेषो 'ज्ञातपुत्रेण' वीरवर्द्धमानस्वामिना सुष्ठाहितः-उपलब्धः स्वाहितः, अस्य चानन्तरं वक्ष्यमाणत्वाप्रत्यक्षासन्नवाचिनेदमाऽभिधानं, अनापीङ्गितमरणे प्रव्रज्यादिको विधिः संलेखनाच पूर्ववद्रष्टव्या, तथोपकरणादिकं हित्वा स्थण्डिलं प्रत्युपेक्ष्यालोचितप्रतिक्रान्तः पञ्चमहाव्रतारूढश्चतुर्विधमाहारं प्रत्याख्याय संस्तारके तिष्ठति, अयमत्र विशेषः-आत्मवर्ज प्रतिचारम्-अङ्गव्यापार विशेषेण जह्यात्-त्यजेत् 'त्रिविधत्रिविधेने'ति मनोवाकायैः कृतकारितानुमतिभिः स्वव्यापारव्यतिरेकेण परित्यजेत् स्वयमेव चोद्वर्तनपरिवर्तनं कायिकायोगादिक विधत्ते ॥ १२ ॥ सर्वथा प्राणिसंरक्षणं पौनःपुन्येन विधेयमिति दर्शयितुमाह
हरिएसु न निवजिजा, थण्डिलं मुणिया सए । विओसिज अणाहारी, पुटो तत्थ:
हियासए ॥ १३ ॥ इन्दिएहिं गिलायन्तो, समियं आहरे मुणी । तहावि से अगरिहे, विमो०८ ___ अचले जे समाहिए ॥ १४ ॥ अभिक्कमे पडिकमे, सङ्कुचए पसारए । कायसाहार
उद्देशका णटाए, इत्थं वावि अचेयणो ॥ १५॥ परिकमे परिकिलन्ते, अदुवा चिट्टे अहायए ।
ठाणे ण परिकिलन्ते, निसीइज्जा य अंतसो ॥ १६ ॥ हरितानि-दूर्वाङ्कुरादीनि तेषु न शयीत स्थण्डिलं मत्वा शयीत तथा सबाह्याभ्यन्तरमुपधिं व्युत्सृज्य-त्यक्त्वाऽनाहारः सन् स्पृष्टः परीषहोपसर्गः 'तत्र' तस्मिन् संस्तारके व्यवस्थितः सन् सर्वमध्यासयेद्-अधिसहेत ॥१॥ किं च-- स ह्यनाहारतया मुनिलायमान इन्द्रियैः शमिनो भावः शमिता-समता तां साम्यं वा आत्मन्याहारयेद् व्यवस्था-1 |पयेत् नार्तध्यानोपगतो भूयादिति, यथासमाधानमास्ते, तद्यथा-सङ्कोचननिर्विण्णो हस्तादिकं प्रसारयेत् तेनापि निर्विष्ण उपविशेत् यथेङ्गितदेशे सञ्चरेद्वा, तथाप्यसौ स्वकृतचेष्टत्वादगी एव, किंभूत इति दर्शयति-अचलो यः समाहितः, यद्यप्यसाविङ्गितप्रदेशे स्वतः शरीरमात्रेण चलति तथाप्यभ्युद्यतमरणान्न चलतीत्यचलः सम्यगाहित-व्यवस्थापितं धर्मध्याने शुक्लध्याने वा मनो येन स समाहितः, भावाचलितश्चेङ्गितप्रदेशे चङ्क्रमणादिकमपि कुर्यादिति ॥१४॥ एतदर्शयितुमाह -प्रज्ञापकापेक्षयाऽभिमुखं कमणमभिक्रमणं, संस्तारकाद्गमनमित्यर्थः, तथा प्रतीपं-पश्चादभिमुख क्रमणं प्रतिक्रमण- DIL॥२९ ॥ मागमनमित्यर्थः, नियतदेशे गमनागमने कुर्यादितियावत्, तथा निष्पन्नो निषण्णो वा यथासमाधानं भुजादिकं सङ्को-2 चयेत्प्रसारयेद्वा, किमर्थमेतदिति चेद्दर्शयति-कायस्व-शरीरस्य प्रकृतिपेलवस्य साधारणाथे, कायसाधारणाच तसोडातायुष्कोपक्रमपरिहारेण स्वायुःस्थितिक्षयान्मरणं यथा स्यात्, न पुनस्तेषां महासत्त्वतया शरीरपीडोत्थापितचित्तस्यान्यथाभावः स्यादिति भावः, ननु च निरुद्धसमस्तकायचेष्टस्य शुष्ककाष्ठवदचेतनतया पतितस्य प्रचुरतरपुण्यप्राग्भारोऽभि|हित इति, नायं नियमः, संविशुद्धाध्यवसायतया यथाशक्त्यारोपितभारनिर्वाहिणः तत्तुल्य एव कर्मक्षयः अत्राप्यसौ वाशब्दात्तत्र वा पादपोपगमनेऽचेतनवत्सक्रियोऽपि निष्क्रिय एव, यदिवा 'अत्रापि' इङ्गितमरणेऽचेतनवच्छुष्ककाष्ठवत्सक्रियारहितो यथा पादपोपगमने तथा सति सामर्थ्य तिष्ठेद् ॥ १५ ॥ एतत्सामर्थ्याभावे चैतत्कुर्यादित्याह-यदि निषण्णस्यानिषण्णस्य वा गात्रभङ्गः स्यात् , ततः परिक्रामेत्-चङ्गम्याद् यथानियमिते देशेऽकुटिलया गत्या गतागतानि कुर्यात् , तेनापि श्रान्तः सन् अथवोपविष्टस्तिष्ठेत् , 'यथायतो' यथाप्रणिहितगात्र इति, यदा पुनः स्थानेनापि परिक्लम-! मियात् तद्यथा-निषण्णो वा पर्यङ्केण वा अर्द्धपर्यवेण वोत्कुटुकासनो वा परिताम्यति तदा निषण्णः स्यात् , तत्राप्युत्तानको वा पार्श्वशायी वा दण्डायतो वा लगण्डशायी वा यथा समाधानमवतिष्ठेत् ॥ १६ ॥ किं च
आसीणेऽणेलिसं मरणं, इन्दियाणि समीरए । कोलावासं समासज्ज, वितहं पाउरे सए ॥ १७ ॥ जओ वजं समुप्पज्जे, न तत्थ अवलम्बए । तउ उक्कसे अप्पाणं, फासे तत्थऽहियासए ॥ १८ ॥ अयं चाययतरे सिया, जो एवमणुपालए। सव्वगायनिरो
RSSC++
॥ २९२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org