________________
श्रीआचाराङ्गवृत्तिः (शी०)
विमो०८ उद्देशका
॥२८७॥
॥२८७॥
AAROCHACASSACREAMSANCHCOOK
कसरCCCCCC
192 फुसन्ति दंसमसगफासा फुसन्ति एगयरे अन्नयरे विरूवरूवे फासे अहियासेइ, अ
चेले लापवियं आगममाणे जाव समभिजाणिया (सू० २२४) स एवं कारणसद्भावे सति वस्त्रं विभृयादथवा वासौ जिहेति, ततोऽचेल एव पराक्रमेत, तं च तत्र संयमेऽचेलं पराक्रममाणं भूयः-पुनस्तृणस्पर्शाः स्पृशन्ति-उपतापयन्ति, तथा शीतोष्णदंशमशकस्पर्शाः स्पृशन्तीति, तथैकतरानन्यतरांश्च विरूपरूपान् स्पर्शानुदीनधिसहते असावचेलोऽचेललाघवमागमयन्नित्यादि गतार्थ यावत् 'सम्मत्तमेव समभिजाणिय'त्ति ॥ किं च-प्रतिमाप्रतिपन्न एव विशिष्टमभिग्रहं गृहीयात् , तद्यथा-अहमन्येषां प्रतिमाप्रतिपन्नानामेव किश्चिद्दास्यामि, तेभ्यो वा ग्रहीष्यामीत्येवमाकारं चतुर्भङ्गिकयाऽभिग्रहविशेषमाह
जस्स णं भिक्खुस्स एवं भवइ-अहं च खलु अन्नेसिं भिक्खूणं असणं वा ४ आहङ दलइस्सामि आहडं च साइन्जिस्सामि १ जस्स णं भिक्खुस्स एवं भवइ-अहं च खलु अन्नेसिं भिक्खूणं असणं वा ४ आहढ दलइस्सामि आहडं च नो साइस्सामि २ जस्स णं भिक्खुस्स एवं भवइ-अहं च खलु असणं वा ४ आहहु नो दलइस्सामि आहडं च साइजिस्सामि ३ जस्स णं भिक्खुस्स एवं भवइ-अहं च खलु अन्नेसिं भिक्खूणं असणं वा ४ आहङ नो दलइस्सामि आहडं च नो साइजिस्सामि ४,
अहं च खलु तेण अहाइरित्तेण अहेसणिज्जेण अहापरिग्गहिएणं असणेण वा ४ अभिकङ्ग साहम्मियस्स कुज्जा वेयावडियं करणाए, अहं वावि तेण अहाइरित्तेण अहेसणिजेण अहापरिग्गहिएणं असणेण वा पाणेण वा ४ अभिकल साहम्मिएहिं कीरमाणं वेयावडियं साइजिस्सामि लाघवियं आगममाणे जाव सम्मत्तमेव समभि
जाणिया (सू० २२५) एतच्च पूर्व व्याख्यातमेव, केवलमिह संस्कृतेनोच्यते-यस्य भिक्षोरेवं भवति-वक्ष्यमाणम् , तद्यथा-अहं च खल्वन्येभ्योभिक्षुभ्योऽशनादिकमाहृत्य दास्याम्यपराहृतं च स्वादयिष्यामीत्येको भङ्गकः१, तथा यस्य भिक्षोरेवं भवति, तद्यथा-अहं |च खल्वन्येभ्योऽशनादिकमाहृत्य दास्याम्यपराहृतं च नो स्वादयिष्यामीति द्वितीयः २ यस्य भिक्षोरेवं भवति, तद्यथाअहं च खल्वन्येभ्योऽशनादिकमाहृत्य नो दास्याम्यपराहृतं च स्वादयिष्यामीति तृतीयः ३ तथा यस्य भिक्षोरेवं भवति, तद्यथा-अहं च खल्वन्येभ्यो भिक्षुभ्योऽशनादिकमाहृत्य नो दास्याम्यपराहृतं च नो स्वादयिष्यामीति चतुर्थः ४ । इत्येवं चतुर्णामभिग्रहाणामन्यतरमभिग्रहं गृह्णीयात्, अथवा एतेषामेवाद्यानां त्रयाणां भङ्गानामेकपदेनैव कश्चिदभिग्रहं गृह्णीयादिति दयितुमाह-यस्य भिक्षोरेवंभूतोऽभिग्रहविशेषो भवति, तद्यथा-अहं च खलु तेन यथाऽतिरिक्तेन-आत्मपरि- भोगाधिकेन यथैषणीयेन यत्तेषां प्रतिमाप्रतिपन्नानामेषणीयमुक्तम् , तद्यथा-पञ्चसु प्राभृतिकासु अग्रहः द्वयोरभिग्रहः तथा यथापरिगृहीतेनात्मार्थ स्वीकृतेनाशनादिना निर्जरामभिकाय साधर्मिकस्य वैयावृत्यं कुर्याद्, यद्यपि ते प्रतिमाप्रतिपन्नत्वादेकत्र न भुञ्जते तथाप्येकाभिग्रहापादितानुष्ठानत्वात्साम्भोगिका भण्यन्ते, अतस्तस्य समनोज्ञस्य करणायउपकरणार्थ वैयावृत्यं कुर्यामित्येवंभूतमभिग्रहं कश्चिद्हाति । तथाऽपरं दर्शयितुमाह-बाशब्दः पूर्वस्मात्पक्षान्तरमाहअपिशब्दः पुनःशब्दार्थे, अहं वा पुनस्तेन यथातिरिक्तेन यथैषणीयेन यथापरिगृहीतेनाशनेन ४ निर्जराम भिकाक्ष्य साधम्मिकैः क्रियमाणं वैयावृत्त्यं स्वादयिष्यामि-अभिलषिष्यामि, यो वाऽन्यः साधम्मिकोऽन्यस्य करोति तं चानुमोदयिष्यामि-यथा सुष्टु भवता कृतमेवंभूतया वाचा, तथा कायेन च प्रसन्नदृष्टिमुखेन तथा मनसा चेति, किमित्येवं क- रोति?-लाघविकमित्यादि, गतार्थ ॥ तदेवमन्यतराभिग्रहवान् भिक्षुरचेलः सचेलो वा शरीरपीडायां सत्यामसत्यां वा |आयुःशेषतामवगम्योद्यतमरणं विदध्यादिति दर्शयितुमाह
जस्स णं भिक्खुस्स एवं भवइ-से गिलामि खलु अहं इमम्मि समए इमं सरीरगं अणुपुट्वेणं परिवहित्तए, से अणुपुट्वेणं आहारं संवहिजा २ कसाए पयणुए किच्चा समाहियच्चे फलगावयट्ठी उट्ठाय भिक्खू अभिनिव्वुडच्चे अणुपविसित्ता गाम वा नगरं
श्रीआचाराङ्गवृत्तिः (शी०)
विमो०८ उद्देशका
॥२८८॥
मरणं विदध्यादिति तराभिग्रहवान् भिक्षुरचलखेन तथा मनसा चेति,
॥२८८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org