SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ 191 साकारं प्रत्याख्यानं, साकारप्रत्याख्यानस्यान्यस्मिन्नपि काले जिनकल्पिकादेरसम्भवात् किं पुनर्यावत्कथिकभक्तप्रत्याख्यानावसर इति, इत्वरं हि रोगातुरः श्रावको विधत्ते, तद्यथा - यद्यहमस्माद्रोगात् पञ्चपैर होभिर्मुक्तः स्यां ततो भोक्ष्ये, नान्यथेत्यादि, तदेवमित्वरम् - इङ्गितमरणं धृतिसंहनना दिवलोपेतः स्वकृतत्वग्वर्त्तनादिक्रियो यावज्जीवं चतुर्विधाहारनियमं कुर्यादिति, उक्तं च-- “ पच्चेक्ख आहारं चव्विहं नियमओ गुरुसमीवे । इंगियदेसंमि तहा चिट्ठपि हु नियमओ कुइ ॥ १ ॥ उव्वत्तइ परिअत्तर काइगमाईऽवि अप्पणा कुणइ । सव्वमिह अप्पणचि ण अन्नजोगेण धितिवलिओ ॥ २ ॥ तच्चेङ्गितमरणं किम्भूतं किम्भूतश्च प्रतिपद्यत इत्याह- 'तद्' इङ्गितमरणं सद्भ्यो हितं सत्यं, सुगतिगमनावि संवादनात्सर्वज्ञोपदेशाच्च सत्यं तथ्यं, तथा स्वतोऽपि सत्यं वदितुं शीलमस्येति सत्यवादी, यावज्जीवं यथोक्तानुष्ठानाद्यथाऽऽरोपित प्रतिज्ञाभारनिर्वहणादित्यर्थः, तथा 'ओजः' रागद्वेपरहितः, तथा 'तीर्णः' संसारसागरं, भाविनि भूतवदुपचा रात्तीर्णवतीर्ण इत्यर्थः, तथा 'छिन्ना' अपनीता 'कथं कथमपि या 'कथा' रागकथादिका विकथारूपा येन स छिन्नकथंकथः, यदिवा कथमहमिङ्गितमरणप्रतिज्ञां निर्वहिष्ये इत्येवंरूपा या कथा सा छिन्ना येन स छिन्नकथं कथः, दुष्करानुष्ठानविधायी हि कथंकथी भवति, स तु पुनर्महापुरुषतया न व्याकुलतामियादिति, तथा आ-समन्तादतीव इता - ज्ञाता परिच्छिन्ना जीवादयोऽर्था येन सोऽयमातीतार्थः आदत्तार्थो वा यदिवाऽतीताः - सामस्त्येनातिक्रान्ताः अर्था: १ प्रत्याख्याति आहारं चतुर्विधं नियमाद् गुरुसमीपे । इङ्गितदेशे तथा चेष्टामपि नियमतः करोति ॥ १ ॥ उद्वर्तते परिवर्तते कायिकयापि आत्मना करोति । सर्वमिहात्मनैव नान्ययोगेन धृतिवलिकः ॥ २ ॥ श्रीआचा- प्रयोजनानि यस्य स तथा उपरतव्यापार इत्यर्थः, तथा आ-समन्तादतीव इतो गतोऽनाद्यनन्ते संसारे आतीतः न राङ्गवृत्तिः * आतीतः अनातीतः, अनादत्तो वा संसारो येन स तथा संसारार्णवपारगामीत्यर्थः, स एवम्भूत इङ्गितमरणं प्रतिपद्यते, (शी०) विधिना ' त्यक्त्वा' प्रोज्झ्य स्वयमेव भिद्यते इति भिदुरं प्रतिक्षणविशरारुं 'कार्य' कर्म्मवशागृहीतमौदारिकं शरीरं त्यक्त्वा, तथा 'संविधूय' परीपहोपसर्गान् प्रमथ्य 'विरूपरूपान्' नानाप्रकारान् सोढा 'अस्मिन् ' सर्वज्ञप्रणीत आगमे 'विस्रम्भ३ णतया' विश्वासास्पदे तदुक्तार्थावि संवादाध्यवसायेन भैरवं भयानक मनुष्ठानं क्लीवैर्दुरध्यव समिङ्गितमरणाख्य मनुचीर्णवान्अनुष्ठितवानिति, तच्च तेन यद्यपि रोगातुरतया व्यधायि तथापि तत्कालपर्यायागततुल्यफलमिति दर्शयितुमाह- 'त त्रापि रोगपीडाऽऽहितेङ्गितमरणाभ्युपगमेऽपि न केवलं कालपर्यायेणेत्यपिशब्दार्थः, 'तस्य' कालज्ञस्य भिक्षोरसावेव कालपर्यायः, कर्मक्षय स्योभयत्र समानत्वादिति, आह च - 'सेवि तत्थ वियंतिकारए' इत्यादि पूर्ववद्गतार्थम् इतिब्रवीमिशब्दावपि क्षुण्णार्थाविति विमोक्षाध्ययनस्य पष्ठोद्देशकः समाप्तः ॥ ॥ २८६ ॥ उक्तः षष्ठोद्देशकः, साम्प्रतं सप्तमव्याख्या प्रतन्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोदेशके एकत्व भावनाभावि - तस्य धृतिसंहननाद्युपेतस्येङ्गितमरणमभिहितम्, इह तु सैवैकत्वभावना प्रतिभाभिर्निष्पाद्यत इतिकृत्वाऽतस्ताः प्रतिपाद्यन्ते, तथा विशिष्टतरसंहननोपेतश्च पादपोपगमनमपि विदध्यादित्ये तच्चेत्यनेन सम्बन्धेनायातस्यास्योदेशकस्यादिसूत्रम् — जे भिक्खू अचेले परिवुसिए तस्स णं भिक्खुस्स एवं भवइ-चाएमि अहं तणफासं अहियासित्तए सीयफासं अहियासित्तए तेउफासं अहियासित्तए दंसमसग फार्स अहियासित्तए एगयरे अन्नतरे विरूवरूवे फासे अहियासित्तए, हिरिपडिच्छायणं चऽहं नो संचाए म अहिआसित्तए, एवं से कप्पेइ कडिबंधणं धारित्तए ॥ ( सू० २२३ ) यो भिक्षुः प्रतिमाप्रतिपन्नोऽभिग्रहविशेषाद चेलो- दिग्वासाः 'पर्युषितः ' संयमे व्यवस्थितो 'णम्' इति वाक्यालङ्कारे 'तस्य' भिक्षोः 'एव'मिति वक्ष्यमाणोऽभिप्रायो भवति, तद्यथा - शक्नोम्यहं तृणस्पर्शमपि सोढुं धृतिसंहननाद्युपेतस्य वैराग्यभावनाभावितान्तःकरणस्यागमेन प्रत्यक्षीकृतनार कतिर्यग्वेदनाऽनुभवस्य न मे तृणस्पर्शो महति फलविशेषेऽभ्युद्यतस्य किञ्चित् प्रतिभासते, तथा शीतोष्णदंशमशकस्पर्शमधिसोदुमिति, तथा एकतरान् अन्यतरांश्चानुकूल प्रत्यनीकान् विरूपरूपान् 'स्पर्शान्' दुःखविशेषानध्यासयितुं -सोदुमिति, किं त्वहं ही-लज्जा तया गुह्यप्रदेशस्य प्रच्छादनं हीप्रच्छादनं तच्चाहं त्यक्तुं न शक्नोमि एतच्च प्रकृतिलज्जालुकतया साधनविकृतरूपतया वा स्यात्, एवमेभिः कारणैः 'से' तस्य 'कल्पते' युज्यते 'कटिबन्धनं' चोलपट्टकं कर्त्तुं स च विस्तरेण चतुरङ्गुलाधिको हस्तो दैर्येण कटिप्रमाण इति गणनाप्रमाणेनैकः, पुनरेतानि कारणानि न स्युः ततोऽचेल एव पराक्रमेत, अचेलतया शीतादिस्पर्श सम्यगधिसहेतेति ॥ एतत्प्रतिपादयितुमाह अदुवा तत्थ परकमंतं भुज्जो अचेलं तणफासा फुसन्ति सीयफासा फुसन्ति तेउफासा Jain Education International For Private Personal Use Only विमो० ८ उद्देशकः७ ॥ २८६ ॥ www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy