________________
-
ल
190
GANAGAR
श्रीआचा- अवसरे संयमावसरे ग्लायामि ग्लानिमेव गतो रूक्षाहारतया तत्समुत्थेन वा रोण पीडितोऽतो न शक्नोमि रूक्षतपो-|| विमो०८ राङ्गवृत्तिः भिरभिनिष्टप्तं शरीरकमानुपूर्व्या-यथेष्टकालावश्यकक्रियारूपया परिवोढुं-नालमहं क्रियासु व्यापारयितुम् , अस्मिन्नवसरे
उद्देशका (शी०) इदं प्रतिक्षणं शीर्यमाणत्वाच्छरीरकमिति मत्वा स भिक्षुरानुपूर्व्या-चतुर्थषष्ठाचाम्लादिकया आहारं 'संवर्तयेत्' संक्षिपेत्
न पुनादशसंवत्सरसंलेखनाऽऽनुपूर्वीह गृह्यते, ग्लानस्य तावन्मात्रकालस्थितेरभावाद् , अतस्तत्कालयोग्ययाऽऽनुपूर्व्या ॥२८४॥
द्रव्यसंलेखनार्थमाहारं निरन्ध्यादिति । द्रव्यसंलेखनया संलिख्य च यदपरं कुर्यात्तदाह-षष्ठाष्टमदशमद्वादशादिकयाऽऽनुपूर्व्याऽऽहारं संवर्त्य कपायान् प्रतनून कृत्वा सर्वकालं हि कषायतानवं विधेयं विशेषतस्तु संलेखनावसरे इत्यतस्तान् प्रतनून कृत्वा सम्यगाहिता-व्यवस्थापिता अर्चा-शरीरं येन स समाहितार्चः, नियमितकायव्यापार इत्यर्थः, यदिवा अर्चालेश्या सम्यगाहिता-जनिता लेश्या येन स समाहितार्चः, अतिविशुद्धाध्यवसाय इत्यर्थः, यदिवाऽर्चा-क्रोधाद्यध्यवसायात्मिका ज्वाला समाहिता-उपशमिताऽर्चा येन स तथा, 'फलं' कर्मक्षयरूपं तदेव फलकं तेनापदि-संसारभ्रमणरूपायामर्थः-प्रयोजनं फलकापदर्थः स विद्यते यस्यासौ फलकापदर्थी, यदिवा फलकवद्वास्यादिभिरुभयतो बाह्यतोऽभ्यन्तरतश्चावकृष्टः फलकावकृष्ट इत्येवं विगृह्यापत्वात् 'फलगावयट्ठी' इत्युक्तं, यदिवा तक्ष्यमाणोऽपि दुर्वचनवास्यादिभिः कपायाभावतया फलकवदवतिष्ठते तच्छीलश्चेति फलकावस्थायी, वासीचन्दनकल्प इत्यर्थः, स एवम्भूतः प्रतिदिनं साकारभक्तप्रत्याख्यायी बलवति रोगावेगे उत्थाय-अभ्युद्यतमरणोद्यमं विधायाभिनिवृत्तार्चः-शरीरसन्तापरहितो धृतिसं-18 ॥२८४॥ हननाद्युपतो महापुरुषाचीर्णमार्गानुविधायीङ्गितमरणं कुर्यात् ॥ कथं कुर्यादित्याह
अणुपविसित्ता गाम वा नगरं वा खेडं वा कब्बडं वा मडंबं वा पट्टणं वा दोणमुहं वा आगरं वा आसमं वा सन्निवेसं वा नेगमं वा रायहाणिं वा तणाई जाइज्जा तणाई जाइत्ता से तमायाए एगंतमवक्कमिजा, एगंतमवक्कमित्ता अप्पंडे अप्पपाणे अप्पबीए अप्पहरिए अप्पोसे अप्पोदए अप्पुत्तिंगपणगदगमट्टियमकडासंताणए पडिलेहिय २ पमज्जिय २ तणाई संथरिजा, तणाई संथरित्ता इत्थवि समए इत्तरियं कुज्जा, तं सच्चं सच्चवाई ओए तिन्ने छिन्नकहकहे आईयटे अणाईए चिच्चाण भेउरं कायं संविहय विरूवरूवे परीसहोवसग्गे अस्सि विस्संभणयाए भेरवमणुचिन्ने तस्थावि तस्स कालपरियाए जाव अणुगामियं तिबेमि (सू० २२२ ) ८-६ ॥ विमो
क्षाध्ययने षष्ठ उद्देशकः ॥८॥ ग्रसति बुद्ध्यादीन् गुणानिति गम्यो वाऽष्टादशानां कराणामिति ग्रामः, सर्वत्र वाशब्दः पक्षान्तरदर्शनार्थः, नात्र
करो विद्यत इति नकर, पांशुप्राकारवद्धं खेटं, क्षुल्लकप्राकारवेष्टितं कटं, अर्द्धतृतीयगव्यूतान्तामरहितं मडम्बं, पत्तनं श्रीआचा- तु द्विधा-जलपत्तनं स्थलपत्तनं च, जलपत्तनं यथा काननद्वीपः, स्थलपत्तनं यथा मथुरा, 'द्रोणमुर्ख' जलस्थलनिर्गम- विमो०८ राङ्गवृत्तिःप्रवेशं यथा भरुकच्छं तामलिप्ती वा, 'आकरों' हिरण्याकरादिः, 'आश्रमः' तापसावसथोपलक्षित आश्रयः, 'सन्निवेशः' यात्रा(शी०) ४ समागतजनावासो जनसमागमो वा 'नैगमः' प्रभूततरवणिग्वर्गावासः 'राजधानी' राजाधिष्ठानं राज्ञः पीठिकास्थानमि-18
उद्देशकः६ त्यर्थः, एतेष्वेतानि वा प्रविश्य तृणानि याचेत, ततः किमित्याह-संस्तारकाय प्रामुकानि दर्भवीरणादिकानि कचिद्रामादौ ॥२८५॥
तृणस्वामिनमशुषिराणि तृणानि याचित्वा स तान्यादायकान्ते-गिरिगुहादावपक्रामेद्-गच्छेदेकान्तं-रहोऽपक्रम्य च प्रासुकं महास्थण्डिलं प्रत्युपेक्षते, किम्भूतं तदर्शयति-अल्पान्यण्डानि कीटिकादीनां यत्र तदल्पाण्डं तस्मिन् , अल्पशब्दोऽत्राभावे वर्त्तते, अण्डकरहित इत्यर्थः, तथाऽल्पाः प्राणिनो-द्वीन्द्रियादयो यस्मिन् तत्तथा, तथा अल्पानि बीजानि नीवारश्यामाकादीनां यत्र तत्तथा, तथा अल्पानि हरितानि-दूर्वाप्रवालादीनि यत्र तत्तथा, तथाऽल्पावश्याय-अधस्तनोपरितनावश्याय| विगुड्वर्जिते, तथाऽल्पोदके-भौमान्तरिक्षोदकरहिते, तथोत्तिङ्गपनकोदकमृत्तिकामर्कटसन्तानरहिते, तत्रोत्तिगः-पिपीलिकासन्तानकः पनको-भूम्यादावुल्लिविशेषः उदकमृत्तिका-अचिराप्कायाीकृता मृत्तिका मर्कटसन्तानको-लूतातन्तुजालं, तदेवम्भूते महास्थण्डिले तृणानि संस्तरेत् , किं कृत्वा-तत् स्थण्डिलं चक्षुषा प्रत्युपेक्ष्य २, वीप्सया भृशभावमाह, एवं रजोहरणादिना प्रमृज्य २, अत्रापि वीप्सया भृशार्थता सूचिता, संस्तीर्य च तृणान्युच्चारप्रस्रवणभूमि च प्रत्युपेक्ष्य पूर्वा-13 भिमुखसंस्तारकगतः करतलललाटस्पर्शिधृतरजोहरणः कृतसिद्धनमस्कारः आवर्तितपश्चनमस्कारोऽत्रापि समये अपिश- ॥२८५॥ ब्दादन्यत्र वा समये 'इत्वर'मिति पादपोपगमनापेक्षया नियतदेशप्रचाराभ्युपगमादिङ्गितमरणमुच्यते, न तु पुनरित्वरं
गतः करतलललाटसपशिधाप्या भूशार्थता सूचिता, संस्तानचक्षुषा प्रत्युपेक्ष्य २, वीप्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org