SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ 2-NCROSCALACK-MARAT आ. सू. ४८ श्रीआचाराङ्गवृत्तिः (शी०) ॥२८३॥ 189 पडिवन्ने अहापरिजुन्नं वत्थं परिदृविज्जा २ ता अदुवा एगसाडे अदुवा अचेले लाघ वियं आगममाणे जाव सम्मत्तमेव समभिजाणीया (सू० २१८) गतार्थ ॥ तस्य च भिक्षोरभिग्रहविशेषात् सपात्रमेकं वस्त्रं धारयतः परिकम्मितमतेलघुकर्मतया एकत्वभावनाऽध्यवसायः स्यादिति दर्शयितुमाह जस्स णं भिक्खुस्स एवं भवइ-एगे अहमंसि न मे अस्थि कोइ न याहमवि कस्सवि, एवं से एगागिणमेव अप्पाणं समभिजाणिज्जा, लाघवियं आगममाणे तवे से अभि समन्नागए भवइ जाव समभिजाणिया (सू० २१९) ‘णम्' इति वाक्यालङ्कारे, यस्य भिक्षोः 'एव'मिति वक्ष्यमाणं भवति, तद्यथा-एकोऽहमस्मि संसारे पर्यटतो न मे || पारमार्थिक उपकारकर्तृत्वेन द्वितीयोऽस्ति, न चाहमन्यस्य दुःखापनयनतः कस्यचिद् द्वितीय इति, स्वकृतकर्मफलेश्वरत्वात्प्राणिनां, एवमसौ साधुरेकाकिनमेवात्मानम्-अन्तरात्मानं सम्यगभिजानीयात्, नास्यात्मनो नरकादिदुःखत्राणतया शरण्यो द्वितीयोऽस्तीत्येवं संदधानो यद्यद्रोगादिकमुपतापकारणमापद्यते तत्तदपरशरणनिरपेक्षो मयैवैतत्कृतं मयैव सोढव्यमित्येतदध्यवसायी सम्यगधिसहते । कुत एतदधिसहत इत्यत आह-लाघवियमित्यादि, चतुर्थोद्देशकवद्गतार्थ, यावत् 'सम्मत्तमेव समभि जाणिय'त्ति॥ इह द्वितीयोद्देशके उद्गमोसादनैषणा प्रतिपादिता, तद्यथा-'आउसंतो समणा! अहं खलु तव अठाए असणं वा ४ वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा पाणाई भूयाई जीवाइं सत्ताई समारंभ समुहिस्स विमो०८ कीयं पामिच्चं अच्छेजं अणिसिहं आहट्ट चेएमि' इत्यादिना ग्रन्थेनेति, तथाऽनन्तरोद्देशके ग्रहणैषणा प्रतिपादिता, “सिया य से एवं वयंतस्सवि परो अभिहडं असणं वा ४ आह१ दलएज्जा" इत्यादिना ग्रन्थेन, ततो प्रासैषणाऽवशिष्यते, हे उद्देशक अतस्तत्प्रतिपादनायाह से भिक्खू वा भिक्खुणी वा असणं वा ४ आहारेमाणे नो वामाओ हणुयाओ दाहिणं हणुयं संचारिजा आसाएमाणे, दाहिणाओ वामं हणुयं नो संचारिजा आसाएमाणे, से अणासायमाणे लाघवियं आगममाणे तवे से अभिसमन्नागए भवइ, जमेयं भगवया पवेइयं तमेवं अभिसमिच्चा सव्वओ सव्वत्ताए सम्मत्तमेव अ(सम)भि जाणिया (सू० २२०) __ 'स' पूर्वव्यावर्णितो 'भिक्षुः' साधुः साध्वी वा अशनादिकमाहारमुद्गमोत्सादनैषणाशुद्धं प्रत्युत्पन्नं ग्रहणैषणाशुद्धं च गृहीतं सदङ्गारिताभिधूमितवर्जमाहारयेत्, तयोश्चाङ्गारिताभिधूमितयो रागद्वेषौ निमित्तं, तयोरपि सरसनीरसोपलब्धिः , कारणाभावे च कार्याभाव इतिकृत्वा रसोपलब्धिनिमित्तपरिहारं दर्शयति--स भिक्षुराहारमाहारयन्नो वामतो हनुतो दक्षिणां हनुं रसोपलब्धये सञ्चारयेदास्वादयन्नशनादिकं, नापि दक्षिणतो वामां सञ्चारयेदास्वादयन् , तत्सञ्चारास्वादनेन । हि रसोपलब्धौ रागद्वेषनिमित्ते अङ्गारितत्वाभिधूमितत्वे स्यातामतो यत्किश्चिदप्यास्वादनीयं नास्वादयेत्, पाठान्तरं वा 'आढायमाणे' आदरवानाहारे मूछितो गृद्धो न सञ्चारयेदिति, हन्वन्तरसङ्क्रमवदन्यत्रापि नास्वादयेदिति दर्शयति-स ह्याहारं चतुर्विधमप्याहारयन् रागद्वेषौ परिहरन्नास्वादयेदिति, तथा कुतश्चिन्निमित्ताद्धन्वन्तरं सञ्चारयन्नप्यनाखादयन् सञ्चारयेदिति। किमिति यत आह-आहारलाघवमागमयन्-आपादयन् नो आस्वादयेदित्यास्वादनिषेधेन चान्तप्रान्ताहाराभ्युपगमोऽभिहितो भवति, एवं च तपः 'से' तस्य भिक्षोरभिसमन्वागतं भवतीत्यादि गतार्थ यावत् 'सम्मत्तमेव समभिजाणिय'त्ति॥ तस्य चान्तप्रान्ताशितयाऽपचितांसशोणितस्य जरदस्थिसन्ततेः क्रियाऽवसीदत्कायचेष्टस्य शरीरपरित्यागबुद्धिः स्यादित्याह जस्स णं भिक्खुस्स एवं भवइ-से गिलामि च खलु अहं इमंमि समए इमं सरीरगं अणुपुव्वेण परिवहित्तए, से अणुपुट्वेणं आहारं संवहिज्जा, अणुपुत्वेणं आहारं संवट्टित्ता कसाए पयणुए किच्चा समाहियच्चे फलगावयट्टी उट्ठाय भिक्खू अभिनि वुडच्चे (सू० २२१) 'णम्' इति वाक्यालङ्कारे यस्यैकत्वभावनाभावितस्य भिक्षोराहारोपकरणलाघवं गतस्य 'एव'मिति वक्ष्यमाणोऽभिप्रायो भवति, 'से' इति तच्छब्दार्थे तच्छब्दोऽपि वाक्योपन्यासार्थे, 'चः' शब्दसमुच्चये 'खलुः' अवधारणे, अहं चास्मिन् 'समये Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy