________________
184
श्रीआचाराङ्गवृत्तिः (शी०)
विमो०८ उद्देशका
॥२७५॥
G
||२७५॥
खणन्ने विणयन्ने समयन्ने परिग्गहं अममायमाणे कालेणुढाइ अपडिन्ने दुहओ छित्ता
नियाई ( सू० २०९) 'ओजः' एको रागादिरहितः सन् सत्यपि क्षुत्पिपासादिपरीषहे 'दयामेव दयते' कृपां पालयति, न परीषहैः तर्जितो दयां खण्डयतीत्यर्थः । कः पुनर्दयां पालयतीत्याह-यो हि लघुकर्मा सम्यङ् निधीयते नारकादिगतिषु येन तत्सन्निधानंकर्म तस्य स्वरूपनिरूपकं शास्त्रं तस्य खेदज्ञो-निपुणो, यदिवा सन्निधानस्य-कर्मणः शस्त्र-संयमः सन्निधानशस्त्रं तस्य खेदज्ञः-सम्यक् संयमस्य वेत्ता, यश्च संयमविधिज्ञः स भिक्षुः कालज्ञः-उचितानुचितावसरज्ञः, एतानि च सूत्राणि लोकविजयपञ्चमोद्देशकव्याख्यानुसारेण नेतव्यानीति, तथा बलज्ञो मात्रज्ञः क्षणज्ञो विनयज्ञः समयज्ञः परिग्रहममत्वेन अचरन् कालेनोत्थायी अप्रतिज्ञः उभयतश्छेत्ता, स चैवम्भूतः संयमानुष्ठाने निश्चयेन याति निर्यातीति ॥ तस्य च संयमानुठाने परिव्रजतो यत्स्यात्तदाह
तं भिक्खु सीयफासपरिवेवमाणगायं उवसंकमित्ता गाहावई बूया-आउसंतो समणा ! नो खलु ते गामधम्मा उव्वाहंति ?, आउसंतो गाहावई ! नो खलु मम गामधम्मा उव्वाहंति, सीयफासं च नो खल अहं संचाएमि अहियासित्तए, नो खलु मे कप्पइ अगणिकायं उज्जालित्तए वा (पज्जालित्तए वा) कायं आयावित्तए वा पयावित्तए वा अन्नेसिं वा वयणाओ, सिया स एवं वयंतस्स परो अगणिकायं उजालित्ता पज्जालित्ता कायं आयाविज वा पयाविज वा, तं च भिक्खू पडिलेहाए आगमित्ता आणविजा
अणासेषणाए तिबेमि (सू० २१०)॥८-३॥ 'तम्' अन्तप्रान्ताहारतया निस्तेजसं निष्किञ्चनं भिक्षणशीलं भिक्षुमतिक्रान्तसोष्मयौवनावस्थं सम्यक्त्वक्राणाभावतया शीतस्पर्शपरिवेपमानगात्रं उपसङ्क्रम्य-आसन्नतामेत्य गृहपतिः-ऐश्वर्योष्मानुगतो मृगनाभ्यनुविद्धकश्मीरजबहलरसानुलिप्तदेहो मीनमदागुरुघनसारधूपितरल्लिकाच्छादितवपुः प्रौढसीमन्तिनीसन्दोहपरिवृतो वार्तीभूतशीतस्पर्शानुभवः सन् किमयं मुनिरुपहसितसुरसुन्दरीरूपसम्पदो मत्सीमन्तिनीरवलोक्य सात्त्विकभावोपेतः कम्पते उत शीतेनेत्येवं संशयानो ब्रूयात्-भो आयुष्मन् ! श्रमण ! कुलीनतामात्मन आविर्भावयन् प्रतिषेधद्वारेण प्रश्नयति-नो भवन्तं ग्रामधाः -विषया उत्-प्रावल्येन बाधन्ते?, एवं गृहपतिनोक्ते विदिताभिप्रायः साधुराह-अस्य हि गृहपतेरात्मसंवित्त्याऽङ्गनावलोकनाऽऽविष्कृतभावस्यासत्याशङ्काऽभूद् अतोऽहमस्यापनयामीत्येवमभिसन्धाय साधुर्वभाषे-आयुष्मन् ! गृहपते ! 'नो खलु' नैव ग्रामधर्मा मामुद्धाधन्ते, यत्पुनर्वेपमानगात्रयष्टिं मामीक्षांचकृषे तच्छीतस्पर्शविजृम्भितं, न मनसिजविकारः, शीतस्पर्शमहं न खलु शक्नोम्यधिसोढुं, एवमुक्तः सन् भक्तिकरुणारसाक्षिप्तहृदयो ब्रूयात्-सुप्रज्वलितमाशुशुक्षणि किमिति न सेवसे, महामुनिराह-भो गृहपते ! न खलु मे कल्पतेऽग्निकार्य मनाम् ज्वालयितुं (उज्ज्वालयितुं) प्रकर्षण ज्वालयितुं प्रज्वालयितुं स्वतो ज्वलितादौ 'कार्य' शरीरमीषत् तापयितुमातापयितुं वा प्रकर्षेण तापयितुं प्रतापयितुं वा, अन्येषां वा वचनात् ममैतत्कर्तुं न कल्पते, यदिवाऽग्निसमारम्भायान्यो वा वक्तुं न कल्पते ममेति । तं चैवं वदन्तं साधुमवगम्य गृहपतिः कदाचिदेतत्कुर्यादित्याह-स्यात्-कदाचित्स-परो गृहस्थ एवमुक्तनीत्या वदतः साधोरग्निकायमुज्वालय्य प्रज्वालय्य वा कायमातापयेत् प्रतापयेद्वा, तच्चोज्वालनातापनादिकं भिक्षुः 'प्रत्युपेक्ष्य' विचार्य स्वसन्मत्या परव्याकरणेनान्येषां वाऽन्तिके श्रुत्वा-अवगम्य ज्ञात्वा तं गृहपतिमाज्ञापयेत्-प्रतिबोधयेत् , कया ?-अनासेवनया, यथैतत् ममायुक्तमासेवितुं, भवता तु पुनः साधुभक्त्यनुकम्पाभ्यां पुण्यप्राग्भारोपार्जनमकारीति, ब्रवीमीतिशब्दावुक्तार्थों । विमोक्षाध्ययनस्य तृतीयोद्देशकः परिसमाप्तः।
श्रीआचाराङ्गवृत्तिः (शी०)
उद्देशका४
॥२७६॥
RASANG******
उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके गोचरादिगतेन शीताद्यङ्गविकारदर्शनान्यथाभावापन्नस्य गृहस्थस्यासदारेका व्युदस्ता, यदि पुनर्गृहस्थाभावे योषित एवान्यथाभावाभिप्रायेणोपसर्गयेयुः ततो वैहानसगार्द्धपृष्ठादिकं मरणमप्यवलम्बनीयं, कारणाभावे तु तन्न कार्यमित्येतत्प्रतिपादनार्थमिदमारभ्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्
॥२७६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.