________________
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ २७४ ॥
183
यावल्लभ्यते तावद्गृह्यते, केवलमकल्पनीयं प्रतिषिध्यते, असमनोज्ञेभ्यस्तु दानग्रहणं प्रति सर्वनिषेध इति । इति ब्रवीमि - शब्दौ पूर्ववद् । विमोक्षाध्ययने द्वितीयोदेशकः समाप्तः ॥ ८-२ ॥
उक्तो द्वितीयोदेशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोदेशकेऽकल्पनीयाहारा दिप्रति|षेधोऽभिहितस्तत्प्रतिषेधकुपितस्य दातुर्यथावस्थितपिण्डदानप्ररूपणा च तदिहाप्याहारादिनिमित्तं प्रविष्टेन शीताद्यङ्गोकम्पदर्शनान्यथाभाववतो गृहपतेर्यथावस्थितपदार्थावेदनतो गीतार्थेन साधुनाऽसदारेकाऽपनेयेत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्य सूत्रानुगमे सूत्रमुच्चारयितव्यं तच्चेदम्
मज्झिमेणं वयसावि एगे संबुज्झमाणा समुट्टिया, सुच्चा मेहावी वयणं पंडियाणं निसामिया समियाए धम्मे आरिएहिं पवेइए ते अणवकंखमाणा अणइवाएमाणा अपरिग्गमाणा नो परिग्गहावंती सव्वावंति च णं लोगंसि निहाय दंडं पाणेहिं पाव कम्मं कुव्वमाणे एस महं अगंथे वियाहिए, ओए जुइमस्स खेयन्ने उबवायं चवणं चनच्चा ( सू० २०७ )
इह त्रीणि वयांसि - युवा मध्यमत्रया वृद्धश्चेति, तत्र मध्यमवयाः परिपक्वबुद्धित्वाद्धम्र्म्मा इत्यादौ दर्शयति-मध्यमेन वयसाऽप्येके सम्बुध्यमानाः धर्मचरणाय सम्यगुत्थिताः समुत्थिता इति, सत्यपि प्रथमचरमवयसोरुत्थाने यतो बाहुल्यायोग्यत्वाच्च प्रायो विनिवृत्तभोगकुतूहल इति निष्प्रत्यूहधर्म्माधिकारीति मध्यमवयोग्रहणं । कथं सम्बुद्ध्यमानाः समुत्थिता इत्याह- इह त्रिविधाः सम्बुध्यमानका भवन्ति, तद्यथा - स्वयं बुद्धाः प्रत्येकबुद्धाः बुद्धबोधिताश्च तत्र बुद्धबोधितेनेहाधिकार इति दर्शयति- 'मेधावी' मर्यादाव्यवस्थितः 'पण्डितानां' तीर्थ कृदादीनां 'वचनं' हिताहितप्राप्ति परिहारप्रवर्त्तकं 'श्रुत्वा' आकर्ण्य पूर्व पश्चात् 'निशम्य' अवधार्य समतामालम्बेत, किमिति ? -यतः समतया - माध्यस्थ्येनार्यैः - तीर्थकृद्भिर्धर्मः श्रुतचारित्राख्यः 'प्रवेदितः' आदी प्रकर्षेण वा कथित इति, ते च मध्यमे वयसि श्रुत्वा धर्म्म सम्बुध्यमानाः समुत्थिताः सन्तः किं | कुर्युरित्याह- ते निष्क्रान्ताः मोक्षमभि प्रस्थिताः कामभोगानभिकाङ्क्षन्तः तथा प्राणिनोऽनतिपातयन्तः परिग्रहमपरिगृह्णन्तः, आद्यन्तयोर्ग्रहणे मध्योपादानमपि द्रष्टव्यम्, तथा (तो) मृषावादमवदन्त इत्याद्यपि वाच्यम्, एवम्भूताः स्वदेहेऽप्यममत्वाः 'सव्वायंति'त्ति सर्वस्मिन्नपि लोके, चः समुच्चये स च भिन्नक्रमः, 'णम्' इति वाक्यालङ्कारे, नो परिग्रहवन्तश्च भवन्तीतियावत् किं च - प्राणिनो दण्डयतीति दण्डः - परितापकारी तं दण्डं प्राणिषु प्राणिभ्यो वा 'निधाय' क्षिवा त्यक्त्वा 'पाप' पापोपादानं 'कर्म्म' अष्टादशभेदभिन्नं तत् 'अकुर्वाणः' अनाचरन्नेषु महान् न विद्यते ग्रन्थः सबाह्याभ्यन्तरोऽस्येत्यग्रन्थः ' व्याख्यातः' तीर्थकरगणधरादिभिः प्रतिपादित इति । कश्चैवम्भूतः स्यादित्याह - 'ओजः' अद्वितीयो | रागद्वेषरहितः 'द्युतिमान् ' संयमो मोक्षो वा तस्य 'खेदज्ञो' निपुणो देवलोकंऽप्युपपातं च्यवनं च ज्ञात्वा सर्वस्थानानित्यता हितमतिः पापकर्म्मवज स्यादिति । केचित्तु मध्यमवयसि समुत्थिता अपि परीपहेन्द्रियैग्लनतां नीयन्त इति दर्श यितुमाह
आहारोवचया देहा परीसहपभंगुरा पासह एगे सव्विंदिएहिं परिगिलायमाणेहिं ( सू० २०८ )
आहारेणोपचयो येषां ते आहारोपचयाः, के ते ? - दिह्यन्त इति देहास्तदभावे तु म्लायन्ते म्रियन्ते वा, तथा 'परीपहप्रभञ्जिनः' परीषहैः सद्भिर्भङ्गरा देहा भवन्ति, ततश्चाहारोपचितदेहा अपि प्राप्तपरीपहा वातादिक्षोभेण वा पश्यत यूयमेके क्लीबाः सर्वैरिन्द्रियैग्लयमानैः क्लीवतामीयुः, तथाहि भुलीडितो न पश्यति न शृणोति न जिघ्रतीत्यादि, तत्र केवलिनोऽप्याहारमन्तरेण शरीरं ग्लानभावं यायाद् आस्तां तावदपरः प्रकृतिभङ्गुरशरीर इति स्यान्मतं - अकेवल्यकृतार्थत्वात् क्षुद्वेदनीयसद्भावाच्चाहारयति दयादीनि व्रतान्यनुपालयति, केवली तु नियमात् सेत्स्यतीत्यतः किमर्थं शरीरं धारयति ? तद्धरणार्थं चाहारयतीति ?, अत्रोच्यते, तस्यापि चतुःकर्म्मसद्भावान्नैकान्तेन कृतार्थता, तत्कृते शरीरं विभृ यात्, तद्धरणं च नाहारमन्तरेण, क्षुद्वेदनीयसद्भावाच्चेति, तथाहि वेदनीयसद्भावात्तत्कृता एकादशापि परीपहाः केवलिनो व्यस्तसमस्ताः प्रादुष्ष्यन्ति इत्यत आहारयत्येव केवलीति स्थितम्, अत आहारमृते ग्लानतेन्द्रियाणामिति प्रतिपादितं ॥ विदितवेद्यश्च परीषहपीडितोऽपि किं कुर्यादित्याह
ओए दयं दयइ, जे संनिहाणसत्थस्स खेयन्ने से भिक्खू कालन्ने बलन्ने मान्ने
Jain Education International
For Private Personal Use Only
विमो० ८
उद्देशकः ३
।। २७४ ॥
www.jainelibrary.org