SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ २७२ ॥ श्रीआचाराङ्गवृत्तिः (शी ० ) ॥ २७३ ॥ 182 भिक्खु च खलु पुट्टा वा अपुट्टा वा जे इमे आहच्च गंधा वा फुसंति, से हंता हणह खणह छिंदह दहह पयह आलंपह विलुंपह सहसाकारेह विप्परामुसह, ते फासे धीरो yat अहियास अदुवा आयारगोयरमाइक्खे, तकिया णमणेलिसं अदुवा वइगुत्तीए गोयरस अणुपुत्रेण संमं पडिलेहए आयतगुत्ते बुद्धेहिं एयं पवेइयं ( सू० २०४ ) 'चः' समुच्चये 'खलुः' वाक्यालङ्कारे भिक्षणशीलो भिक्षुस्तं भिक्षु पृष्ट्वा कश्चिद्यथा भो भिक्षो ! भवदर्थमशनादिकमावस वा संस्करिष्येऽननुज्ञातोऽपि तेनासौ तत्करोत्यवश्यमयं चादुभिर्वलात्कारेण वा ग्राहयिष्यते, अपरस्त्वीपत्साध्वाचारविधिज्ञोऽतोऽपृष्ट्वैव छद्मना ग्राहयिष्यामीत्यभिसन्धायाशनादिकं विदध्यात् स च तदपरिभोगे श्रद्धाभङ्गाच्चादुशताग्रहणाच्च रोपावेशान्निःसुखदुःख तयाऽलोकज्ञा इत्यनुशयाच्च राजानुसृष्टतया च न्यक्कार भावनातः प्रद्वेषमुपगतो हननादिकमपि कुर्यादिति दर्शयति-एकाधिकारे बह्वतिदेशाद्य इमे प्रश्नपूर्वकमप्रश्नपूर्वकं वा आहारादिकं 'ग्रन्थात् ' म हतो द्रव्यव्ययाद् 'आहृत्य' ढौकित्वा आहृतग्रन्था वा व्ययीकृतद्रव्या वा तदपरिभोगे 'स्पृशन्ति' उपतापयन्ति, कथमिति चेद्दर्शयति- 'स' ईश्वरादिः प्रद्विष्टः सन् हन्ता स्वतोऽपरांश्च हननादौ चोदयति, तद्यथा - हतैनं साधुं दण्डाभि'क्षणुत' व्यापादयत छिन्न हस्तपादादिकं दहत अध्यादिना पचत उरुमांसादिकं आलुम्पत वस्त्रादिकं विलुम्पत सर्वस्वाः पहारेण सहसात् कारयत - आशु पञ्चत्वं नयत तथा विविधं परामृशत- नानापीडाकरणैर्वाधयत, तांश्चैवम्भूतान् 'स्प शन' दुःखविशेषान् 'धीरः' अक्षोभ्यः तैः स्पर्शैः स्पृष्टः सन्नधिसहेत, तथा परैः क्षुत्पिपासापरीषहैः स्पृष्टः सन्नधिसहेत, न तु पुनरुपसगैः परीषहैर्वा तर्जितो विक्लवतामापन्नस्तदुद्देशिकादिकमभ्युपेयादनुकूलैर्वा सान्त्ववादादिभिरुपसर्गितो नादद्याद्, अपि तु सति सामर्थ्ये जिनकल्पिकादन्यः आचारगोचरमाचक्षीतेत्याह- नानाविधोपसर्गजनितान् स्पर्शानधिस हेत, अथवा साधूनामाचारगोचरम् - आचारानुष्ठानविषयं मूलोत्तरगुणभेदभिन्नमाचक्षीत, न पुनर्नयैर्द्रव्यविचारं तत्रापि मूलगुणस्थैर्यार्थमुत्तरगुणान् तत्रापि पिण्डैषणाविशुद्धिमाचक्षीत, अत्र च पिण्डैपणासूत्राणि पठितव्यानि अपि च - "यस्वयमदुःखितं स्यान्न च परदुःखे निमित्तभूतमपि । केवलमुपग्रहकरं धर्म्मकृते तद्भवेद्देयम् ॥ १ ॥ किं सर्वस्य सर्व कथयेत् ?, नेति दर्शयति- 'तर्कयित्वा ' पर्यालोच्य पुरुषं, तद्यथा - कोऽयं पुरुषः कञ्च नतोऽभिगृहीतोऽनभिगृहीतो मध्यस्थः प्रकृतिभद्रको वेत्येवमुपयुज्य यथार्ह यथाशक्ति चावेदयेत्, सत्यां च शक्तौ पश्चावयवेनान्यथा वा वाक्येनानीदृशम्-अनन्यसदृशं स्वपरपक्षस्थापनाव्युदासद्वारेणावेदयेदिति, अथ सामर्थ्यविकलः स्यात् कुप्यति वा कथ्यमानेऽसावनुकूलप्रत्य नीकस्ततो वाग्गुप्तिर्विधेयेत्याह- सति सामर्थ्यं शृण्वति वा दातरि आचारगोचरमाचक्षीत, ' अथवे' त्यन्यथाभावे तु वागुध्या व्यवस्थितः सन्नात्महितमाचरन् 'गोचरस्य' पिण्डविशुद्ध्यादेरा चारगोचरस्य 'आनुपूर्व्या' उद्गमप्रश्नादिरूपया स म्यगशुद्धिं प्रत्युपेक्षेत, किम्भूतः ? - आत्मगुप्तः सन् सततोपयुक्त इत्यर्थः नैतन्मयोच्यत इत्याह- 'बुद्धैः' कल्पयाकल्प्य - विधिज्ञैः 'एतत्' पूर्वोक्तं प्रवेदितम् ॥ एतद्वा वक्ष्यमाणमित्याह से समणुन्ने असमणुन्नस्स असमणं वा जाव नो पाइजा नो निमंतिजा नो कुज्जा वेयावडियं परं आढायमाणे तिवेमि ( सू० २०५ ) न केवलं गृहस्थेभ्यः कुशीलेभ्यो वा अकल्प्यमिति कृत्वाऽऽहारादिकं न गृह्णीयात् स समनोज्ञोऽसमनोज्ञाय तत् पूर्वोक्तमशनादिकं न प्रदद्यात् नापि परम् - अत्यर्थमाद्रियमाणोऽशनादिनिमन्त्रणतोऽन्यथा वा तेषां वैयावृत्त्यं कुर्यादिति, ब्रवीमीतिशब्दावधिकार परिसमाझ्यर्थी । किम्भूतस्तर्हि किम्भूताय दद्यादित्याह Jain Education International धम्ममायण पवेइयं माहणेण मइमया समणुन्ने समणुन्नस्स असणं वा जाव कुज्जा वेयावडियं परं आढायमाणे ( सू० २०६ ) तिबेमि ॥ ८-२ ॥ 'धर्म' दानधर्म्म जानीत यूयं 'प्रवेदितं' कथितं केन ? - श्रीवर्द्धमानस्वामिना, किम्भूतेन ? - ' मतिमता' केवलिना, किम्भूतं धर्म्ममिति दर्शयति-यथा समनोज्ञः - साधुरुद्युक्तविहारी अपरस्मै- समनोज्ञाय चारित्रवते संविग्नाय साम्भोगि कायैकसामाचारीप्रविष्टायाशनादिकं चतुर्विधं तथा वस्त्रादिकमपि चतुर्द्धा 'प्रदद्यात्' प्रयच्छेत्, तथा तदर्थं च निमन्त्र येत् पेशलमन्यद्वा वैयावृत्त्यम् - अङ्गमर्दनादिकं कुर्यात्, नैतद्विपर्यस्तेभ्यो गृहस्थेभ्यः कुतीर्थिकेभ्यः पार्श्वस्थादिभ्योऽसंविग्नभ्योऽसमनोज्ञेभ्यो वेत्येतत्पूर्वोक्तं कुर्यादिति, किन्तु समनोज्ञेभ्य एव परम्- अत्यर्थमाद्रियमाणस्तदर्थसीदने पर मुतप्यमानः सम्यग्वैयावृत्त्यं कुर्यात्, तदेवं गृहस्थादयः कुशीलादयस्त्याज्या इति दर्शितम्, अयं तु विशेषो - गृहस्थेभ्यो For Private Personal Use Only विमो० ८ उद्देशकः२ ।। २७२ ॥ विमो० ८ उद्देशकः २ ॥ २७३ ॥ www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy